Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१०
भगवतीअगसूत्रं १/-1१/२ अथ प्रथमे शते ग्रन्थान्तरपरिभाषयाऽध्ययने दशोद्देशका भवन्ति, उद्देशकाश्चअध्ययनार्थदेशाभिधायिनोऽध्ययनविभागाः ।। उद्दिश्यन्ते-उपधानविधिना शिष्यस्याचार्येण यथा-एतावन्तमध्यनभागमधीष्वे-त्येवमुद्देशास्तएवोद्देशकाः, तांश्च सुखधरणस्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण संग्रहीतुमि-मां गाथामाहमू. (३) रायगिह चलण दुक्खे कंखपओसे य पगंइ पुढवीओ।
जावंते नेरइए बाले गुरुए य चलणाओ॥ १. अधिकृतगाथार्थो यद्यपि वक्ष्यमाणोद्देशकदशकाभिगमे स्वयमेवावगम्यते तथाऽपि बालानां सुखावबोधार्थमभिधीयते
तत्र 'रायगिहे तिलुप्तसप्तम्येकवचनत्वाद्राजगृहेनगरे वक्ष्यमाणोद्देशकदशकस्यार्थो भगवता श्रीमहावीरेण दर्शित इति व्याख्येयम्, एवमन्यत्रापीष्टविभक्त्यन्तताऽवसेया।
'चलण'त्ति चलनविषयः प्रथमोद्देशकः 'चलमाणे चलिए'इत्याधर्थनिर्णयार्थ इत्यर्थः१
'दुक्खे'त्तिदुःखविषयोद्वितीयः 'जीवोभदन्त स्वयंकृतंदुःखंवेदयती'त्यादिप्रश्ननिर्णयार्थ इत्यर्थः २ ।। 'कंखपओसे'त्ति काङ्क्षा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपो जीवपरिणामः स एव प्रकृष्टो दोषो-जीवदूषणं काङ्क्षाप्रदोषस्तद्विषयस्तृतीयः, 'जीवेन भदन्त काङ्क्षामोहनीयं कर्म कृतमित्याद्यर्थनिर्णयार्थ इत्यर्थः३।
चकारः समुच्चये, पगइत्ति प्रकृतयः-कर्मभेदाश्चतुर्थोद्देशस्यार्थः, 'कति भदन्त ! कर्मप्रकृतयः?' इत्यादिश्चासौ ४ ।। 'पुढवीओ'त्तिरलप्रभादिपृथिव्यः पञ्चमेवाच्याः, 'कति भदन्त! पृथिव्यः?' इत्यादि च सूत्रमस्य ५।
_ 'जावंते'त्ति यावच्छब्दोपलक्षितः षष्ठः ‘यावतो भदन्त !' अवकाशान्तरात्सर्यं इत्यादिसूत्रश्चासौ६॥ नेरइए त्तिनैरयिकशब्दोपलक्षितःसप्तः, नैरयिको भदन्त! निरयेउत्पद्यमान इत्यादि च तत्सूत्रं।
'बाले ति बालशब्दोपलक्षितोऽष्टमः, एकान्तबालोभदन्त! मनुष्य' इत्यादिसूत्रश्चासौ ८।
'गुरुए'त्ति गुरुकविषयो नवमः, 'कथंमदन्त ! जीवा गुरुकत्वमागच्छन्ति ?' इत्यादिच सूत्रमस्य ९| चः समुच्चयार्थः, 'चलणाओ'त्ति बहुवचननिर्देशान्चलनाधादशमोद्देशकस्यार्था ।।
तत्सूत्रं चैवम्-'अन्ययूथिका भदन्त !' एवमाख्यान्ति-चलद् अचलितमित्यादिति प्रथमशतोद्देशकसङ्ग्रहणिगाथार्थ ः। तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाह
मू. (४) नमो सुयस्स।
वृ. 'नमोसुयस्स'त्ति नमस्कारोऽस्तु श्रुताय द्वादशाङ्गीरूपायार्हप्रवचनाय, नन्विष्टदेवतानमस्कारोमङ्गलार्थो भवति, नच श्रुतमिष्टवतेति कथमयंमङ्गलार्थ इति?,अत्रोच्यते, श्रुतमिष्टदेवतैव अर्हतां नमस्करणीयत्वात्, सिद्धवत्, नमस्कुर्वन्ति च श्रुतमर्हन्तो।
'नमस्तीर्थाये'ति भणनात्, तीर्थं च श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात्, तदाधारत्वेनैव च सङ्घस्य तीर्थशब्दाभिधेयत्वात्, तता सिद्धानपि मङ्गलार्थमहन्तो नमस्कुर्वन्त्येव । ॥३॥"काऊण नमोक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे'' इति वचनादिति ॥ एवं तावप्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततश्च 'यथोद्देशं निर्देश' इति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 1096