Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
८
119 11
"पंचविहं आयारं आयरमाणा तहा पयासंता । आयारं दंसंता आयरिया तेण वुचंति ॥
अथवा आ-ईषद् अपरिपूर्णा इत्यर्थः, चारा हेरिका ये ते आचाराः, चारकल्पा इत्यर्थः । युक्तायुक्तविभागनिरूपणनिपुणा विनेयाः अतस्तेषु साधवो यथावच्छस्त्रार्थोपदेशकतया इत्याचार्या अतस्तेभ्यः, नमस्यता चैषामाचारोपदेशकतयोपकारित्वात् ।
'नमो उवज्झायाणं' ति उप-समीपमागत्याधीय 'इङ अध्ययने' इतिवचनात् पठ्यते 'इण गता' वितिवचनाद्वा अधि-आधिक्येन गम्यते, 'इक्स्मरणे' इति वचनाद्वा स्मर्यते सूत्रतो जिनप्रवचनं येभ्यस्ते उपाध्यायाः, यदाह
119 11
"बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं तं - उवइति जम्हा उवझाया तेण वुच्चति ॥
-अथवा उपाधानमुपाधि-संनिधिस्तेनोपाधिना उपाधौ वा आयो- लाभः श्रुतस्य येषामुपाधीनां वा विशेषणानां प्रक्रमाच्छेभवनानामायो-लाभो येभ्यः । अथवा उपाधिरेव संनिधिरेव आयम्-इष्टफलं दैवजनितत्वेन अयानाम् इष्टफलानां समूहस्तदेकहेतुत्वाद्येषाम् ।
अथवा आधीनां मनः पीडानामायो - लाभ आध्यायः अधियां वा नञः कुत्सार्थत्वात् कुबुद्धीनामायोऽध्यायः 'ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगान्नञः कुत्सार्थत्वादेव च दुध्यान वाऽध्यायः उपहत आध्यार्यः अध्यायो वा यैस्ते उपाध्याया अतस्तेभ्यः, नमस्यता चैषां सुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति ।
'नमो सव्वसाहूण' मिति, साधयन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः समतां वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह
119 11
-
भगवती अङ्गसूत्रं १/-/9/9
"निव्वाणसाहए जोए, जम्हा सार्हेति साहुणो ।
समाय सव्वभूएस, तम्हा ते भावसाहुणो ।।
साहायकं वा संयमकारिणां धारयन्तीति साधवः, निरुक्तेरेव, सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकयथालन्दकल्पिकपरिवाहारविशुद्धिकल्पिकस्थविरस्थितकल्पि (कास्थितकल्पि) कस्थितास्थितकल्पिक क्पातीतभेदाः प्रत्येकबुद्ध- स्वयम्बुद्धबुद्धबोधितभेदाः भारतादिभेदाः सुषमदुष्षमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणं च सर्वेषां गुणवतामविशेषनमनीयताप्रतिपादनार्थम्, इदं चार्हदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति ।
Jain Education International
अथवा सर्वेभ्यो जीवेभ्यो हिताः सार्वास्ते च ते साधवश्च सार्वस्य वा अर्हतो न तु बुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् साधयन्ति-कुर्वन्ति सार्व्वान् वा अर्हतः साधयन्तितदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्व्वसाधवः सार्वसाधवो वा अथवा श्रव्येषु श्रवणार्हेषु वाक्येषु, अथवा सव्यानि दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः ।
'नमो लोए सव्यसाहूणं' ति क्वचित्पाठः, तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1096