Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानं - उद्देशक:
तथा प्रमाणं द्रव्यादिभेदाच्चतुर्विधं, तत्र क्षायोपशमिकभावरूपत्वादस्य भाचप्रमाणे अवतारो,
यत आह-
॥१ ॥
"दव्वादि चउब्भेयं पमीयते जेण तं पमाणंति । इणमज्झयणं भावोत्ति भावमाणे समोयरति "त्ति, भावप्रमाणंच गुणनयसङ्ख्याभेदतस्त्रिधा, तत्रास्य गुणप्रमाणसङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु न सम्प्रति, यदाह
189 11
“मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । अहुत्ते समोयारो नत्थ पुहुत्ते समोयारी "त्ति,
गुणप्रमाणं तु द्विधा- जीवगुणप्रमाणमजीवगुणप्रमाणंच, तत्र अस्य जीवोपयोगरूपत्वात् जीवगुणप्रमाणेऽवतारः, तस्मिन्त्रपि ज्ञानदर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानागमात्मके प्रकृताध्ययनस्याप्तोपदेशरूपत्वादागमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि तथा चाह11911 जीवाणण्णत्तणओ जीवगुणे बोहभावओ नाणे । लोगुत्तरसुत्तत्थोभयागमे तस्स भावाओ "
तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधेऽर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तु गणधरतच्छिष्यतप्रशिष्यानपेक्ष्य यथाक्रममात्मानन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमन्यत्र प्रपञ्चितं तत एवावधारणीयं तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुतदृष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां कालिक श्रुतपरिमाणसङ्ख्यायां, कालिकश्रुतत्वादस्येति, तत्रापि शब्दापेक्षया सङ्घयेयाक्षरपदाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायां, अनन्तगमपर्यायत्वादागमस्य, तथा चाह- 'अनंता गमा अनंता पजवा' इत्यादि । तथा वक्तव्यता स्वसमयेतरोभवक्तव्यताभेदात् त्रिधा, तत्रेदं स्वसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात्, तदुक्तम्
119 11
"परसमओ उभयं वा सम्मद्दिट्ठिस्स समओ जेणं । ता सव्वज्झयणाई ससमयवत्तव्वनिवयाई " ति
तथा अधिकारो वक्तव्यताविशेष एव स चैकत्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति । तथा समवतारः - प्रतिद्वारमधिकृताध्ययनसमवतारणलक्षणः, स चानुपूव्यादिषु लाघवार्थमुक्त एवेति न पुनरुच्यते, तथाहि
॥ १ ॥
|| 9 ||
119 11
"अहुणा य समोयारो जेण समोयारियं पइद्दारं । गाणमनुगओ सो लाघव ओ न पुण वच्चो
71
-- निक्षेपस्त्रिधा ओघनामसूत्रालापकनिष्पन्नभेदात्, आह च - “भण्णइ धेप्पइ व सुहं निक्खेवपयानुसारओ सत्यं । ओहो नामं सुत्तं निखेत्तव्वं तओऽवस्सं " - तत्रौघः - सामान्यमध्ययनादि नाम, उक्तञ्च - “ओहो जं सामन्नं सुयाभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/58998495844efc745e19dd0ba631b81349131bcfb87de21c7fb1a8e5230a49cb.jpg)
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 596