Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ स्थानाङ्ग सूत्रम् -1-1 अथवाअथपिक्षया अणोः-लधोः पश्चाजाततया वाअनुशब्दवाच्यस्य सूत्रस्ययोऽभिधेये योगो-व्यापारस्तेन सम्बन्धो वा सोऽनुयोगोऽनुयोगो वेति, आह च॥१॥ “अहवा जमत्थओ थोवपच्छभावेहि सुयमनुतस्स। अभिधेये वावारो जोगो तेणं व संबंधो"त्ति, तस्य द्वाराणीवद्वाराणि-तप्रवेशमुखानि, एकस्थानकाध्ययनपुरस्याधिगमोपाया इत्यर्थः, नगरद्दष्टान्तश्चात्र, यथा हिअकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपिदुरधिगमकार्यातिपत्तये च, चतुर्मूलद्वारंतुप्रतिदावारानुगतंसुखाधिगमं कार्यतिपत्तयेच, एवमेकस्थानकाध्ययनपुरमपप्यधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्धारानुद्वारानुगतं तु सुखाधिगममित्यतः फलवान् द्वारोपन्यासइति ५ तानिचद्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तभेदाः ६। निरुक्तिस्तु उपक्रमणमुपक्रम इतिभावसाधनः शास्त्रस्यन्यासदेशसमीपीकरणलक्षणः, उपक्रम्यतेवाऽनेन गुरुवायोगेनेत्युपक्रमइतिकरणसाधनः, उपक्रम्यतेऽस्मिन्निति वाशिष्यश्रवणभावेसतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादितिवाविनीतविनेयविनयादित्युपक्रम इत्यपादान इति, एवं निक्षेपणं निक्षिप्यते वाऽनेनास्मिन्नास्मादिति वा निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगमः अनुगम्यतेऽनेनास्मिनस्मादितिवाऽनुगमः-सूत्रस्य न्यासानुकूलः परिच्छेदः, एवं नयनं नयः नीयतेऽनेनास्मिन्नास्मादिति वा नयः-अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः७।अथैषामुपरक्रमादिद्वाराणामित्थंक्रमेकिंप्रयोजनमिति?, अत्रोच्यते, नह्यनुपक्रान्तंसदसमीपीभूतं निक्षिप्यते, नचानिक्षिप्तंनामादिभिरर्थतोऽनुगम्यते, नचार्थतोऽननुगतं नयैर्विचार्यते इत्ययमेव क्रम इति, उक्तञ्च॥१॥ “दारक मोऽयमेव उ निखिप्पइ जेण नाप्समीवत्थं । अनुगम्मइ नानत्यं नानुगमो नयमयविहूणो "त्ति ॥८॥ तदेवं फलादीन्युक्तानि।साम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमुचिन्त्यतेतत्रोपक्रमो द्विविधो-लौकिकः शास्त्रीयश्च, तत्र लौकिकः षोढा-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात, तत्र नामस्थापने क्षुण्णे, द्रव्योपक्र मो वैधा-सचेतनाचेतनमिद्विपदचतुष्पदापदरूपस्यद्रव्यस्य परिकर्म विनाशश्चेति, तत्र परिकर्म-गुणान्तरोत्पादनविनाशः-प्रसिद्ध एव, एवं क्षेत्रस्य-शालिक्षेत्रादेः कालस्य त्वपरिज्ञातस्वरूपस्य नाडिकादमिः परिज्ञानं, भावस्य चगुर्वादिचित्तलक्षणस्यानवगतस्येषितादिभिरवगम इति, शास्त्रीयोऽपि षौढेव-आनुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारभेदात्, - -तत्रानुपूर्वी दशधाऽन्यत्रोक्ता, तत्र चोत्कीर्तनगणनानुपूर्कोरिदमवतरति, उत्कीर्तनञ्च एकस्थानं द्विस्थानं त्रिस्थानमित्यादि, गणनंतुपरिसङ्घयानं-एक द्वेत्रीणिइत्यादि, साचगणनानुपूर्वी त्रिप्रकारा-पूर्वानुपूर्वीपश्चानुपूर्व्यानानुपूर्वी चेति, पूर्वानुपूव्येदं प्रथमं सद्व्याख्यायते पश्चानुपूर्व्या दशममनानुपूर्व्या त्वनियतमिति, तथा नाम दशधा-एकादि दशान्तं, तत्र षड्नाम्न्यस्यावतारः, तत्रापि क्षायोपशमिके भावे, क्षायोपशमिकभावस्वरूपत्वात् सकलश्रुतस्येति, उक्तञ्च॥१॥ "छबिहनामे भावे खओवसमिए सुयं समोयरति। जंसुयनाणावरणक्खओवसमजं तयं सव्वं " ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 596