________________
स्थानाङ्ग सूत्रम् -1-1
अथवाअथपिक्षया अणोः-लधोः पश्चाजाततया वाअनुशब्दवाच्यस्य सूत्रस्ययोऽभिधेये योगो-व्यापारस्तेन सम्बन्धो वा सोऽनुयोगोऽनुयोगो वेति, आह च॥१॥ “अहवा जमत्थओ थोवपच्छभावेहि सुयमनुतस्स।
अभिधेये वावारो जोगो तेणं व संबंधो"त्ति, तस्य द्वाराणीवद्वाराणि-तप्रवेशमुखानि, एकस्थानकाध्ययनपुरस्याधिगमोपाया इत्यर्थः, नगरद्दष्टान्तश्चात्र, यथा हिअकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपिदुरधिगमकार्यातिपत्तये च, चतुर्मूलद्वारंतुप्रतिदावारानुगतंसुखाधिगमं कार्यतिपत्तयेच, एवमेकस्थानकाध्ययनपुरमपप्यधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्धारानुद्वारानुगतं तु सुखाधिगममित्यतः फलवान् द्वारोपन्यासइति ५ तानिचद्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तभेदाः ६।
निरुक्तिस्तु उपक्रमणमुपक्रम इतिभावसाधनः शास्त्रस्यन्यासदेशसमीपीकरणलक्षणः, उपक्रम्यतेवाऽनेन गुरुवायोगेनेत्युपक्रमइतिकरणसाधनः, उपक्रम्यतेऽस्मिन्निति वाशिष्यश्रवणभावेसतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादितिवाविनीतविनेयविनयादित्युपक्रम इत्यपादान इति, एवं निक्षेपणं निक्षिप्यते वाऽनेनास्मिन्नास्मादिति वा निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगमः अनुगम्यतेऽनेनास्मिनस्मादितिवाऽनुगमः-सूत्रस्य न्यासानुकूलः परिच्छेदः, एवं नयनं नयः नीयतेऽनेनास्मिन्नास्मादिति वा नयः-अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः७।अथैषामुपरक्रमादिद्वाराणामित्थंक्रमेकिंप्रयोजनमिति?, अत्रोच्यते, नह्यनुपक्रान्तंसदसमीपीभूतं निक्षिप्यते, नचानिक्षिप्तंनामादिभिरर्थतोऽनुगम्यते, नचार्थतोऽननुगतं नयैर्विचार्यते इत्ययमेव क्रम इति, उक्तञ्च॥१॥ “दारक मोऽयमेव उ निखिप्पइ जेण नाप्समीवत्थं ।
अनुगम्मइ नानत्यं नानुगमो नयमयविहूणो "त्ति ॥८॥ तदेवं फलादीन्युक्तानि।साम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमुचिन्त्यतेतत्रोपक्रमो द्विविधो-लौकिकः शास्त्रीयश्च, तत्र लौकिकः षोढा-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात, तत्र नामस्थापने क्षुण्णे, द्रव्योपक्र मो वैधा-सचेतनाचेतनमिद्विपदचतुष्पदापदरूपस्यद्रव्यस्य परिकर्म विनाशश्चेति, तत्र परिकर्म-गुणान्तरोत्पादनविनाशः-प्रसिद्ध एव, एवं क्षेत्रस्य-शालिक्षेत्रादेः कालस्य त्वपरिज्ञातस्वरूपस्य नाडिकादमिः परिज्ञानं, भावस्य चगुर्वादिचित्तलक्षणस्यानवगतस्येषितादिभिरवगम इति, शास्त्रीयोऽपि षौढेव-आनुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारभेदात्, -
-तत्रानुपूर्वी दशधाऽन्यत्रोक्ता, तत्र चोत्कीर्तनगणनानुपूर्कोरिदमवतरति, उत्कीर्तनञ्च एकस्थानं द्विस्थानं त्रिस्थानमित्यादि, गणनंतुपरिसङ्घयानं-एक द्वेत्रीणिइत्यादि, साचगणनानुपूर्वी त्रिप्रकारा-पूर्वानुपूर्वीपश्चानुपूर्व्यानानुपूर्वी चेति, पूर्वानुपूव्येदं प्रथमं सद्व्याख्यायते पश्चानुपूर्व्या दशममनानुपूर्व्या त्वनियतमिति, तथा नाम दशधा-एकादि दशान्तं, तत्र षड्नाम्न्यस्यावतारः, तत्रापि क्षायोपशमिके भावे, क्षायोपशमिकभावस्वरूपत्वात् सकलश्रुतस्येति, उक्तञ्च॥१॥ "छबिहनामे भावे खओवसमिए सुयं समोयरति।
जंसुयनाणावरणक्खओवसमजं तयं सव्वं " ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org