SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ स्थानं - उद्देशक: तथा प्रमाणं द्रव्यादिभेदाच्चतुर्विधं, तत्र क्षायोपशमिकभावरूपत्वादस्य भाचप्रमाणे अवतारो, यत आह- ॥१ ॥ "दव्वादि चउब्भेयं पमीयते जेण तं पमाणंति । इणमज्झयणं भावोत्ति भावमाणे समोयरति "त्ति, भावप्रमाणंच गुणनयसङ्ख्याभेदतस्त्रिधा, तत्रास्य गुणप्रमाणसङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु न सम्प्रति, यदाह 189 11 “मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । अहुत्ते समोयारो नत्थ पुहुत्ते समोयारी "त्ति, गुणप्रमाणं तु द्विधा- जीवगुणप्रमाणमजीवगुणप्रमाणंच, तत्र अस्य जीवोपयोगरूपत्वात् जीवगुणप्रमाणेऽवतारः, तस्मिन्त्रपि ज्ञानदर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानागमात्मके प्रकृताध्ययनस्याप्तोपदेशरूपत्वादागमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि तथा चाह11911 जीवाणण्णत्तणओ जीवगुणे बोहभावओ नाणे । लोगुत्तरसुत्तत्थोभयागमे तस्स भावाओ " तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधेऽर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तु गणधरतच्छिष्यतप्रशिष्यानपेक्ष्य यथाक्रममात्मानन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमन्यत्र प्रपञ्चितं तत एवावधारणीयं तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुतदृष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां कालिक श्रुतपरिमाणसङ्ख्यायां, कालिकश्रुतत्वादस्येति, तत्रापि शब्दापेक्षया सङ्घयेयाक्षरपदाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायां, अनन्तगमपर्यायत्वादागमस्य, तथा चाह- 'अनंता गमा अनंता पजवा' इत्यादि । तथा वक्तव्यता स्वसमयेतरोभवक्तव्यताभेदात् त्रिधा, तत्रेदं स्वसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात्, तदुक्तम् 119 11 "परसमओ उभयं वा सम्मद्दिट्ठिस्स समओ जेणं । ता सव्वज्झयणाई ससमयवत्तव्वनिवयाई " ति तथा अधिकारो वक्तव्यताविशेष एव स चैकत्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति । तथा समवतारः - प्रतिद्वारमधिकृताध्ययनसमवतारणलक्षणः, स चानुपूव्यादिषु लाघवार्थमुक्त एवेति न पुनरुच्यते, तथाहि ॥ १ ॥ || 9 || 119 11 "अहुणा य समोयारो जेण समोयारियं पइद्दारं । गाणमनुगओ सो लाघव ओ न पुण वच्चो 71 -- निक्षेपस्त्रिधा ओघनामसूत्रालापकनिष्पन्नभेदात्, आह च - “भण्णइ धेप्पइ व सुहं निक्खेवपयानुसारओ सत्यं । ओहो नामं सुत्तं निखेत्तव्वं तओऽवस्सं " - तत्रौघः - सामान्यमध्ययनादि नाम, उक्तञ्च - “ओहो जं सामन्नं सुयाभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy