Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ स्थान-१, उपोद्घातः वृत्तिः च स्थानाभिप्रायेण स्थाप्यमाना स्थामप्यभिधीयते, ततः स्थापनैव स्थानं स्थापनास्थानं, तथा द्रव्यं-सचित्ताचित्तमिश्रभेदंस्थानं गुणपर्यायाश्रयत्वात्, ततःकर्मधारयइति, तथा क्षेत्रम्-आकाश, तच्चतत्स्थानंचद्रव्याणामाश्रयत्वात् क्षेत्रस्थानं, तथा अद्धा-कालः, सच स्थानं, यतोभवस्थितिः कायस्थितिश्चभवकालः कायकालश्चाभिधीयते, स्थितिश्चस्थानमेवेति, 'उद्दत्तिऊर्ध्वतयास्थानम्अवस्थानं पुरुषस्य ऊर्ध्वस्थान-कायोत्सर्ग इति, इह स्थानशब्दः क्रियावचनः, एवंनिषदनत्वग्वर्तनादिस्थानमपिद्रष्टव्यम्, ऊर्ध्वशब्दस्योपलक्षणत्वादिति, तथा उपरतिः-विरतिः सैव स्थानं विविधगुणानामाश्रयत्वात्, विशेषार्थो वेह स्थानशब्दः, ततो विरतेः स्थान-विशेषो विरतिस्थानं, तच्च देशविरतिः सर्वविरतिति, तथा वसतिः स्थानमुच्यते,स्थीयतेतस्मिन्नितिकृत्वेति,तथासंयमस्यस्थानंसंयमस्थानम, इह स्थानशब्दो भेदार्थः, संयमस्य शुद्धिप्रकर्षापकर्षकृतो विशेषः संयमस्थानं, तथा प्रगृह्यते-उपादीयते आदेयवचनत्वाद्यःसप्रग्रहो-ग्राह्यवाक्यो नायक इत्यर्थः, सचलौकिको लोकोत्तरश्चेति, तत्रलौकिको राजयुवराजमहत्तरामात्यकुमाररूपो, लोकोत्तरश्चाचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकरूप इति, तस्य स्थान-पदं प्रग्रहस्थानमिति, तथा योधानां स्थानम्-आलीढप्रत्यालीढवैशाखमण्डलसमपादरूपं शरीरन्यासविशेषात्मकं योधस्थानं, तथा 'अचल'त्ति अचलतालक्षणो धर्मः सादिसपर्यवसितादिरूपः स्थानमचलतास्थानं, तथा 'गणण'त्ति गणनाविषयं स्थानमेकल्यादिशीर्षप्रहेलिकापर्यन्तं गणनास्थानं, तथा सन्धानं द्रवल्यतश्छिन्नस्य कञ्चुकादेरच्छिन्नस्य तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावतस्तु छिन्नस्य प्रशस्ताप्रशस्तभावस्य पुनः सन्धानमच्छिन्नस्यत्वपरापरोत्पद्यमानस्यप्रशस्ताप्रशस्तभावस्य सन्धानं तदेवस्थान-वस्तुनः संहतत्वेनावस्थानंसन्धानस्थानं, 'भावे'त्तिभावानाम्-औदयिकादीनां स्थानम्अवस्थितिरितिभावस्थानमिति एवमिहस्थानशब्दोऽनेकार्थः, इहच वसतिस्थानेनगणनास्थानेन वाऽधिकार इति दर्शयिष्यते ।।इदानीमङ्गनिक्षेप उच्यते, तत्र गाथा॥१॥ "नामंग ठवणंगं दव्वंगं चेव होइ भावंगं । सो खलु अंगस्सा निक्खेवो चउब्विहो होइ" त्ति तत्र नामस्थापनेप्रसिद्धे, द्रव्याङ्गपुनर्द्रव्यस्य-मद्यौषधादेरङ्ग-कारणमवयो वेतिद्रव्याङगं, भावस्य-क्षायोपशमिकादेरेवमेवाझं भावाङ्गमिति, इह भावाङ्गेनाधिकार इत्यपि दर्शयिष्यते, तत्र तिष्ठन्त्यासतेवसन्ति यथावदभिधेयतयैकत्वादिभिर्विशेषिताआत्मादयः पदार्थायस्मिंस्तत्स्थानम्, अथवा स्थानशब्देनेहैकादिकः सङ्ख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम्, आचाराभिधायकत्वादाचारदिति,स्थानञ्च तत्प्रवचनपुरुषस्य क्षायोपशमिकभावरूपस्याङ्गमिवाङ्ग चेति स्थानाङ्गमिति समुदायार्थः ४। । तत्रच दशाध्ययनानि, तेषुप्रथममध्ययनमेकादित्वात् सङ्ख्यायाएकसङ्ख्योपेतामादिपदार्थप्रतिपादकत्वात्एकस्थानम्, तस्य च महापुरस्येवचत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमोनयश्चेति, तत्रअनुयोजनमनुयोगः,-सूत्रस्यार्थेन सहसम्बन्धनम्, अथवाअनुरूपोऽनुकूलो वा यो योगो-व्यापारः सूत्रस्यार्थप्रतिपादनरूपः सोऽनुयोग इति, आह च॥१॥ "अनुजोजनमनुजोगो सुयस्स नियएण जमभिधेयेण। वावारो वा जोगो जो अनुरूवोऽनुकूलो वा" इति, For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 596