Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Author(s): Abhayshekharsuri Publisher: Divya Darshan Trust View full book textPage 6
________________ यत्किञ्चिद् वक्तव्यता अन्येषु च शताधिकस्थानेषु टिप्पनकानि ग्रन्थेऽस्मिन् आलेखितानि येषु अदृष्टपूर्वाः स्वयमनुप्रेक्षिताः पदार्थाः विद्यन्ते, तथाऽपि तान् दृष्ट्वा न कोऽपि संमोहः कर्त्तव्यः, यतोऽ कर्त्तारो मार्गस्थतर्कविशुद्धक्षयोपशमाः सन्ति, तथा पूज्यपादसिद्धांतदिवाकर - गीतार्थमूर्धन्यवर्तमानगच्छाधीशा श्रीविजयजयघोषसूरीश्वरा अस्य संशोधयितारः सन्ति । अपरं च टिप्पनककृतामपरा अपि कृतयस्सप्तभंगीविंशिका, निक्षेपविंशिकादयः सन्ति या अतिगभीरदुर्गमविषये प्रवेशाय तारिकाकल्पा भवेयुः । किं बहुना ? स्वानुप्रेक्षाफलं नूनं ग्रन्थेऽस्मिन् यत्प्रपञ्चितम् । तर्कपुष्टमहोभावजनकं विदुषां कुले ।। सङ्घसमक्षं नवीनमुपस्कर्तॄनाचार्यान् शतशः वन्दे, अन्यरचनाद्वारा सङ्घमुपकुर्वन्तु चेति प्रार्थये । यावद् स्वर्भानुः समयक्षेत्रं प्रकाशते तावदयं सटिप्पनकग्रन्थभानुरागमक्षेत्रं दीपयतु । शुभं भवतु श्री श्रमणसङ्घस्य । Jain Education International मुनि हृदयवल्लभविजयः पोषशुक्लपूर्णिमा, वि.सं. २०६३ घोघातीर्थ- सौराष्ट्र. આ ગ્રન્થ પ્રકાશનનો સંપૂર્ણ લાભ પોતાના જ્ઞાનનિધિમાંથી લેવા બદલ શ્રી જૈન શ્વેતાંબર મૂર્તિપૂજક સંઘ ઈસ્લામપુર ને લાખ લાખ ધન્યવાદ For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 372