Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 20
________________ श्रीअनुयोगद्वारसूत्रम् [सू०१] मनोनिमित्तो बोध इत्यर्थः । श्रवणं श्रुतम् अभिलापप्लावितार्थग्रहणस्वरूप उपलब्धिविशेष:, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम्, अथवा श्रूयत इति श्रुतं शब्दः, स चासौ कारणे कार्योपचाराद् ज्ञानं च श्रुतज्ञानम्, शब्दो हि श्रोतु: साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते। अवधानमवधि: इन्द्रियाद्यनपेक्षमात्मन: साक्षादर्थग्रहणम्, अवधिरेव ज्ञानमवधिज्ञानम् । अथवा अवधि: मर्यादा, तेनावधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानम् । संज्ञिभिर्जीवै: काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि द्रव्याणि मनासीत्युच्यन्ते, तेषां मनसां पर्याया: चिन्तनानुगुणा: परिणामाः, तेषु ज्ञानं मन:पर्यायज्ञानम्, अथवा यथोक्तस्वरूपाणि मनांसि पर्येति अवगच्छतीति मन:पर्यायमिति कर्मण्यण् (पा० ३।२।१), तच्च तद् ज्ञानं च मन:पर्यायज्ञानम् । केवलं संपूर्णज्ञेयविषयत्वात् संपूर्णम्, तच्च तद् ज्ञानं च केवलज्ञानमिति । अवग्रहादिभेदचिन्ता त्वेषां ज्ञानानामत्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वात् नन्द्यादिषु विस्तरेणोक्तत्वाच्चेति । अनेन च शास्त्रस्यादावेव ज्ञानपञ्चकोत्कीर्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेदहेतुत्वेन ज्ञानस्य परममङ्गलत्वात् । अभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनाम्न एव सकाशात् प्रतीयते, उपक्रमाद्यनुयोगद्वाराणामेवेहाभिधास्यमानत्वात् । प्रयोजनं तु प्रकरणकर्तृ-श्रोत्रो: प्रत्येकमनन्तर-परम्परभेदाच्चिन्तनीयम्, तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रह: प्रयोजनम्, श्रोतुश्च प्रकरणार्थपरिज्ञानम्, परम्परं तु द्वयोरपि परमपदप्राप्ति:, इदं तु यद्यपीह साक्षान्नोक्तं तथापि सामर्थ्यादवसीयते, तथाहि- सत्त्वानुग्रहप्रवृत्ता एव परमगुरव इदमुपदिशन्ति, तदनुग्रहे च क्रमेण परमपदप्राप्ति: प्रतीतैव, श्रोताऽपि गुरुभ्य: प्रस्तुतप्रकरणार्थं विजानाति, तत्परिज्ञाने च सकलजिनवचनानुयोगकरणे कुशलतामासादयति, तत्कुशलतायां च विप्रहाय हेयान्, उपादाय उपादेयान्, संप्राप्य प्रकर्षवच्चरणकरणम्, कृत्वाऽतिदुष्करतपश्चरणम्, अनुभूय विशदकेवलालोकत: सकलत्रिलोकीतलसाक्षात्करणम्, प्रविश्य सकलकर्मविच्छेदकर्तृ शैलेशीकरणम्, सकलमुक्तजनशरणं परमपदमधिगच्छतीति । सम्बन्धोऽप्युपायोपेयलक्षणो गम्यत एव - वचनरूपापन्नं २. सम्बन्धोऽप्यु... एव । अयञ्च तर्कानुसारिणं प्रति, श्रद्धानुसारिणं प्रति तु गुरुपर्वक्रमलक्षणः सम्बन्धोऽपि नैकेषु शास्त्रेषु प्रतिपादितो वर्तते। वस्तुतस्तु प्रेक्षावान् तर्कानुसारी वा भवतु, श्रद्धानुसारी वा, तस्य प्रवृत्त्यर्थं सर्वत्र द्वयोरपि सम्बन्धयोरावश्यकत्वमेव । तथाहि- सर्वज्ञोक्तं सर्वज्ञमूलमेव वा वचनं प्रमाणमित्यस्मद्दर्शने स्वीकृतम्, अत एव गणधरैर्गुम्फिता द्वादशाङ्ग्यपि सर्वज्ञतीर्थकृद्दत्तयानुज्ञयैव प्रमाणं भवति । अत एव सर्वेऽपि ग्रन्थकर्तारः स्वकीये ग्रन्थे सर्वज्ञमूलकत्वं प्रयत्नपूर्वं प्रस्थापयन्ति । स च प्रयत्न ईदृशो भवति-अस्माभिरस्मद्गुरुपादमूल एतच्छ्रुतं, तैस्तु स्वकीयगुरुपादमूले, तैरपि गुरुभिः स्वकीयगुरुपादमूले... इत्येवं गुरुपरम्परयाऽस्य ग्रन्थस्य मूलं सर्वज्ञ एवेति । अयमेव च गुरुपर्वक्रमलक्षणः सम्बन्धः। प्रस्थापितश्चायं सम्बन्धो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 372