Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
समयार्थचोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७४५ महाकायास्ते चिरस्थितिकास्ते बहुतरकाः आदानशः इति, तस्य महतो येषु यूर्य वदथ तच्चैव अयमपि भेदः स नो नैयायिको भवति । भगवांश्च खलु उदाहसन्त्येकतये मनुष्या भवन्ति तद्यथा अनारम्भाः अपरिग्रहाः धार्मिकाः धर्मानुगाः यावत् सर्वेभ्य परिग्रहेभ्यः पतिविरताः यावज्जीवनं येषु श्रमणोपासकस्य आदानशः आमरणान्तं दण्डो निक्षितः, ते तत! आयुर्विप्रजहति ते ततो भूयः स्वकमादाय सद्भतिगामिनो भवन्ति ते पाणा अप्युच्यन्ते ते सा अप्युच्यन्ते यावनो नैया. यिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये मनुष्या भवन्ति तद्यथा-अल्पे च्छाः अल्पारम्भाः अल्पपरिग्रहाः धार्मिकाः धर्मानुगाः यावदेकतः परिग्रहाद् अप्रतिविरता येषु श्रमणोपासकस्य आदानशः आमरणान्तं दण्डो निक्षिप्तः ते ततः आयुर्विप्रजहति ततो भूयः स्वकमादाय स्वर्गगतिगामिनो भवन्ति । ते पाणा अप्युच्यन्ते वसा अपि यावनो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये मनुष्या भवन्ति तद्यथा-आरण्यकाः आवसथिकाः ग्रामनियन्त्रिकाः क्वचिः द्राहसिकाः येषु श्रमणोपासकस्य आदानशः आमरणान्ताय दण्डो निक्षिप्तो भवति नो बहुसंयताः नो बहुप्रतिविरताः, प्राणभूतजीवसत्त्वेभ्यः आत्मना सत्यानि मृषा एवं विप्रतिवेदयन्ति अहं न हन्तव्योऽन्ये हन्तव्याः यावत् कालमासे कालं कृत्वा अन्यतरेषु आसुरिकेषु किल्विषिकेषु यावद् उपपत्तारो भवन्ति । ततो विप्रमुच्य. मानाः भूयः एलमूकत्वाय तमोरूपत्वाय प्रत्यायान्ति । ते माणा अप्युच्यन्ते असा अप्युच्यन्ते यावन्नो नैयायिको भवति ! भगवांश्च खलु उदाह-सन्त्येकतये प्राणिनो दीर्घायुषः येषु श्रमणोपासकस्य आदानशः आमणान्ताय यावद् दण्डो निक्षिप्तो भवति । ते पूर्वमेव कालं कुर्वन्ति, कृत्वा पारलौकिकत्वाय प्रत्यायान्ति । ते माणा अप्युच्यन्ते ते असा अप्युच्यन्ते ते महाकायास्ते चिरस्थितिका स्ते दीर्घा युषः ते बहुतरकाः प्राणाः, येषु श्रमणोपासकस्य सुपत्याख्यातं भवति । यावत्रो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये प्राणाः समायुषः येषु श्रमणोपासकस्य आदानशः आमरणान्ताय यावद् दण्डो निक्षिप्तो भवति । ते स्वयमेव कालं कुर्वन्ति कृत्वा पारलौकिकत्वाय प्रत्यायान्ति ते प्राणा अप्युच्यन्ते ते त्रसा अप्युच्यन्ते ते महाकायास्ते समायुषः ते बहुतरकाः येषु श्रमणोपासकस्य सुपत्याख्यातं भवति यावन्नो नैयायिको भवति। भगवांश्च खलु उदाह सन्तेकतये माणा अल्पायुषो येषु श्रमणोपासकस्य आदानशः आमरणान्ताय यावद् दण्डो निक्षिप्तो भवति ते पूर्वमेव कालं कुर्वन्ति कृत्वा पारलौकिकत्वाय प्रत्यायान्ति ते प्राणा अप्युच्यन्ते ते त्रसा अप्युच्यन्ते ते महाकायास्ते अल्पायुषः ते बहुतरकाः प्राणाः येषु श्रमणोपासकस्य सुप्रत्याख्यातं भवति । यावन्नो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये श्रमणोपासका भवन्ति तैश्च खलु एवमुक्तपूर्व
श्री सूत्रता सूत्र : ४
Loading... Page Navigation 1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795