Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 787
________________ ७७६ सूबकृताचे ___ छाया- भगवांश्च खलु उदाह आयुष्मन् उदक ! यः खलु श्रमणं वा मानं वा परिभाषते मैत्री मन्यते, आगम्य ज्ञानम् आगम्य दर्शनम् आगम्य चारित्रं पापानां कर्मणामकरणाय स खलु परलोकमन्थनाय तिष्ठति । यः खलु श्रमणे वा माहनं वा न परिभाषते मैत्री मन्यते आगम्प ज्ञानम् आगम्य दर्शनम् आगम्य चारित्रं पापानां कर्मणामकरणाय स खल परलोकविशुदया तिष्ठति, ततः खलु स उदक: पेढालपुत्रो भगवन्तं गौतममनादियमाणः यस्या एव दिशः प्रदुर्भूतः तामेव दिशं प्रधारितवान् गमनाय । भगांव खल्लु उदाह-आयुष्मन् उदक ! यः खलु तथाभूतस्य श्रमणस्य वा माहन स्य वा अन्तिके एकमपि आर्य धार्मिकं सुवचनं श्रुत्वा निशम्य आत्मनश्चैव सूक्ष्मया प्रत्युपेक्ष्य अनुत्तरं योगक्षेमपदं लम्भितः सन् सोऽपि तावत् तमाद्रियते परिजानाति, वन्दते नमस्यति सत्कारयति समानयति यावत् कल्याणं मङ्गले देवतं चैत्यं पर्युपास्ते । ततः खलु स उदकः पेढालपुत्रः भगवन्तं गौतममेवमवादीत् । एतेषां खलु भदन्त ! पदानां पूर्वमज्ञानाद् अश्रणतयाऽबोध्याऽनभिगमेन अदृष्टाना. मश्रुतानामस्मृतानामविज्ञातानामव्युत्कृतानामनिगूढानामविच्छिन्नानामनिसृष्टाना - मनियूढानामनुपधारितानामेवोऽर्थो न श्रद्धितः न प्रतीतः न रोचितः एतेषां खलु भदन्त ? पदानामिदानी ज्ञाततया श्रवणतया बोध्या यावदुपधारणतया एतमर्थ श्रद्दधामि प्रत्येमि रोचयामि एवमेव तद्यथा यूयं वदथ । ततः खलु भगवान् गौतम उदकं पेठाळपुत्रमेवमवादीत्-श्रद्दधत्स्व खलु अर्य ! प्रतीहि खलु आर्य ! रोचय खलु आर्य ! एवमेतद् यथा खलु वयं वदामः । ततः खलु स उदकः पेढालपुत्रः भगवन्तं गौतममेवमवादीत्, इच्छामि खलु भदन्त ! युष्माकमन्तिके चातुर्यामाद्धर्मात् पश्चमहावतिकं सप्रतिक्रमणं धर्ममुपसम्पद्य खलु विहर्तुम् । ततः खल भगवान् गौतम उदकं पेढालपुत्रं गृहीत्वा यत्रैव श्रमणो भगवान महावीर स्तत्रैव उपागच्छति । उपागत्य ततः खलु स उदकः पेढालपुत्रः श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणां प्रदक्षिणां कृत्वा वन्दते नपस्यति, वन्दित्वा नमः स्थित्वा एवमवादीत्, इच्छामि खलु भदन्त ! तबान्ति के चतुर्यामाद्धर्मात् पञ्च. महाव्रतिकं समतिक्रमणं धर्ममुपसंपच खलु विहर्तुम् ततः खलु श्रमणो भगवान् महावीर उदकमेवमवादीत् यथासुखं देवानुप्रिय ! मा प्रतिबन्धं कुरु, ततः खलु स उदकः पेढालपुत्रः श्रमणस्य भगवतो महावीरस्य अन्तिके चतुर्यामाद्धर्मात् पञ्च. महाव्रतिकं सप्रतिक्रमणं धर्ममुपसंपद्य खलु विहरतीति ब्रवीमि ॥मू०१४-८१॥ ॥ इति नालन्दाख्यं सप्तमम् अध्ययनं समाप्तम् ।। सूत्रकृताङ्गसूत्रस्य द्वितीय श्रुतस्कन्धः समाप्तः ॥२-७॥ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795