Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ मंगल 8 - अभिधानराजेन्द्रः - भाग 6 मंगल पुनरन्यथा परः प्रेरयति - मंगलतियंतरालं, न मंगलमिहत्थओ पसत्तं ते। जइ वा सव्वं सत्थं, मंगलमिह किं तियग्गहणं? ||18|| इह मङ्गलविचारप्रक्रमे, अर्थतोऽर्थापत्त्या एतत् (त) तव आचार्थ ! प्रसक्त-प्राप्तम् / किं तत् ? इत्याह-मङ्गलानामादिमध्यावसानलक्षण त्रिकं मङ्गलत्रिक तस्याऽन्तरालद्वयलक्षणमपान्तरालं न मलमिति / यदाहि-तं मंगलमाईए मज्झे पजंतएय सत्थस्स।' इत्यादिवचनादादिमध्यावानलक्षणेषु विष्वेव नियतस्थानेषु मङ्गलमुपादीयते, तदा तदध्यापमन्तरालद्वयमर्थापत्त्यैवाऽमङ्गलं प्राप्नोतीति भावः / पर एवा ह-यविना-सिद्धान्तवादिन् ! एवं ब्रूयारत्वं यदुतसर्वमेव शास्त्र महलमिति प्रायोक्तान, अतः किमेवं प्रेर्यते ? हन्स तर्हि 'तं मंगलमाईए०' इत्यादिना फिमिह मङ्गलत्रिकग्रहणं कृतम् ? न हि सर्वस्मिन्नपि शास्त्रे मन आदी मध्येऽवसाने चमङ्गलम्' इत्युच्यमानं युक्तियुक्तत्वमनुभवति। तस्मादपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रतिपद्यस्व, मङ्गलत्रयग्रहणं वा मा कृश इति भावः / इति गाथार्थः / / 18 // आचार्यः प्राऽऽहसत्थे तिहा विहत्ते, तदन्तरालपरिकप्पणं कत्तो ? सव्वं च निज्जरत्थं, सत्थमओऽमंगलमजुत्तं / / 16 / / बुझ्या शास्त्रे त्रिधा विभक्ते तस्य शास्त्रस्यान्तरालं तदन्तराल तस्य परिकल्पनं कुतः संभवति ? न कुतश्चिदित्यर्थः / यथा हि-संपूर्ण मादकाऽऽदिवस्तुनि विखण्डे विकल्पितेऽन्तरालन संभवति, तथाऽत्रापि, इति कस्याऽमगलता स्यात् ? इति / यदि नाम शास्त्रं त्रिधा विभक्तम्, तथापि कथं तस्य सर्वस्यापि मङ्गलता? इत्याह-सर्वं चाऽऽवश्यकाऽऽदि शास्त्रं निर्जरार्थ कर्मापगमरूपा निर्जरा अर्थः प्रयोजनमरयेति निर्जरार्थम्, तथा च सतितपोवत् स्वयमेव मङ्गलमिदमिति सामदिवगम्यते। यदि नाम निर्जरार्थत्वात् तपोयत् स्वयमेवाऽऽवश्यकाऽऽदिशास्त्र मङ्गलम् , ततः किम् ? इत्याह-अतोऽमङ्गलमयुक्तम् , यतः सर्वमेव शास्त्रमङ्गलम्, अता मङ्गलाऽऽत्मनितस्मिंस्त्रिधा विभक्ते यदुच्यते-'अपान्तरालद्वयममडलम, तदयुक्तमित्यर्थः / यदि हि शास्त्रं स्वयं मङ्गलं न भवेत् तदाऽन्यमङ्गलाऽव्याप्तत्वात् वापि तदमङ्गलं भवेत, यदा तु सर्वमपि स्वयमेव तद् महलम, तदा कापि तस्याऽमगलतान युक्तेतिभावः। इतिगाथार्थः / / 16 / / __ अथ प्रेरकः प्राऽऽहजइ मंगलं सयं चिय, सत्थं तो किमिह मंगलग्गहणं ? सीसमइमंगलपरि-गहत्थमेत्तं तदमिहाणं // 20 // यदि हि रवयमेव शास्त्रं मङ्गलमिष्यते तदा त मङ्गलमाईए मज्झे०' इत्यादि वचनात् किमिह मङ्गलग्रहणं क्रियते ? स्वत एव मनले मङ्गलविधानस्याऽनर्थकत्वादिति भावः / इति परेण प्रेरिते गुरुराह-'सीसे' त्यादि, शिष्यस्य मतिः शिष्यमतिस्तस्या मङ्गलपरिग्रहः सोऽर्थःप्रयोजनमस्य तत् तथा तदर्थमेव शिष्यमतिमङ्गलपरिग्रहार्थमात्रं तदभिधान मङ्गलाभिधानमित्यर्थः। इदभुक्तं भवति-शास्त्रादनान्तरभूतमेव गगलमुपादीयते, नाऽर्थान्तरमिति प्रागेवोक्तम्, नन्दिहिं मगलत्वेनाऽभिधास्यते, सा च पशज्ञानाऽऽत्मिका, ततः शास्त्राण्यावश्यकाःऽदीनि सर्वाण्यपि श्रुतज्ञानरूपतया नन्द्यन्तर्गतान्येव, नन्दिरपि श्रुतरूप येनाऽऽवश्यकाऽऽदिशास्त्रान्तर्गतैव / तस्माद नन्देल वेनाऽभिधाने शास्त्रान्तर्गतमेव मङ्गलमभिहित भवति / तत्रापि नाऽमङ्गलस्र. सतः शास्त्रस्य मङ्गलताऽऽपादनार्थं तदभिधानम, किन्तु-शिष्यमति इलपरिग्रहार्थम्, शिष्यो हि तस्मिन्नभिहिते 'मङ्गलमेतच्छास्त्रम्' इत्येव स्वमतौ तन्मङ्गलतापरिग्रह करोतीति भावः। इति गाथार्थः ॥२ना आह-कि मङ्गलमपि मङ्गगलबुद्ध्या गृहीतमेव स्वकार्य करोति, नान्यथा? एवमेतत्, इत्याह - इह मंगलं पि मंगल-बुद्धीए मंगलं जहा साहू / मंगलतियबुद्धिपरिग्गहे वि नणु कारणं भणि।।२१।। इहलोके, मङ्गलमपि सवस्तु मङ्गलबुद्ध्या गृह्यमाणमभिनन्धमान वा मङ्गलं भवति। यथा साधुः, साधुर्हि स्वयं मङ्गलभूतोऽपि तद्वद्ध्या गृह्यमाण एव प्रशस्तचेतोवृत्ते व्यस्य मङ्गलकार्य करोति, अमङ्गलबुद्ध्या तु गृह्यमाण मङ्गलमपि तत्कार्य न करोति, यथा रा एव साधुः कालुष्यपह तचतोवृत्तेरभव्यस्या अत्राऽऽह कश्चित्- नन्वेषं सत्यऽमङ्गलमप्यसाध्यादिक मङ्गलबुद्ध्या गृहामाणं तत्कार्य करिष्यति, न्यायस्य समान पात्। तदयुक्तम्, असाधोः स्वतो मगलरूपताया अभावात, सत्यम णिर्हि सत्यमणितया गृह्यमाणो ग्रहीतुर्गारवमापादयति, न त्वसत्यमणिः स्त्यमणितया, इत्यल प्रसङ्गेना आह-यद्येवम्, त:कमेव मङ्गलमस्तु, तेनापि हि शिष्यमतिमङ्गलपरिग्रहः सेत्स्यति, कि मङ्गलत्रयकरणेन? इत्याह'मंगलतिये' त्यादि, मगलत्रये हि कृते शिष्यस्य बुद्धी तत्परिग्रहो भवति / तेनाऽपि किमिति चेत् ? इत्याह-ननु तत्रापि 'पढम सत्थत्थाविग्ध पार - गमणाय निट्टि' इत्यादिना कारण-निमित्त प्रागेव भणितं किमिति विस्मार्यते ? न च वक्तव्यमेकेनैव मङ्गलेन तत् कारणत्रयं से स्थति, यतो यथैव शास्त्र मङ्गलमपि सद् मङ्गलबुद्धिपरिग्रहमन्तरेण महलं न भवति साधुवत्, तथा शास्त्रस्याऽऽदि-मध्याऽवसानानि मङ्गलरूपाण्यपि मङ्गलबुद्धिपरिग्रह विना नमङ्गलकार्य कुर्वन्ति, इति मङ्गलबाभिधानम्। इति गाथार्थः // 21 // तदेव मङ्गलाभिधानमुपपत्तिभिर्व्यवस्थाप्यमङ्गलशब्दार्थ निरूपयितुमाहमंगिज्जएऽधिगम्मइ, जेण हि तेण मंगलं होइ। अहवा मंगो धम्मो, लाइ तयं समादत्ते // 22 // 'अगि-रगि-लगि-वगि-मगि' इत्यादौ मगिर्गत्यर्थों धातुः, अतस्तस्याऽलचप्रत्ययान्तरय मञ्यतेऽधिगम्यते साध्यते यतो हितमनेन तेन कारणेन मङ्गल भवति। अथवा-मङ्ग इति धर्मस्याऽऽख्या, 'ला' आदाने धातुः, ततश्च मङ्ग लाति समादत्ते इति मङ्गलं धर्मोपादानहेतुरित्यर्थः / इति गाथार्थः / / 22 / /

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 ... 1492