Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ मंगल 12- अभिधानराजेन्द्रः - भाग 6 मंगल तदर्थशून्यत्वाद् -मङ्गलार्थशून्यत्वात्, पापवदिति / भावमङ्गलग्राहिणो ह्यमी कथं द्रव्यमङ्गलमिच्छन्ति ? इति भावः। इति गाथाऽर्थः / / 4 / / तदेवं विचारितं नयैर्द्रव्यमङ्गलम् तथा च सति समर्थितमागमतो द्रव्यमङ्गलम्। अथ नो आगमतस्तदभिधीयते। तच्च ज्ञशरीरभव्यशरीरतदव्यतिरिक्तभेदात् त्रिधा। तत्र ज्ञशरीरभव्यशरलक्षणभेदद्वयमाह - मंगलपयत्थजाणय-देहो भवस्स वा सजीवो त्ति। नोआगमओ दवं, आगमरहिओ त्तिजं भणिअं॥४४।। 'नोआगमओ दव्वं ति' नो आगमतो ज्ञशरीरं द्रव्यमङ्गलमित्यर्थः। कः? इत्याह-मङ्गलपदार्थज्ञस्य देहः इदमुक्तं भवति-इह मङ्गलपदार्थः पूर्वं येन स्वयं सम्यग् विज्ञातः, परेभ्यश्च प्ररूपितः तस्य सम्बन्धी जीवविप्रमुक्तः सिद्धशिलातलाऽऽदिगतो देहोऽतीतकालनयानुवृत्त्याऽतीतमङ्गलपदार्थज्ञानाऽऽधारत्वाद् नोआगमतो द्रव्यमङ्गलमुच्यते। नोशब्दस्येह सर्वनिषेधवचनत्वात्, आगमस्य च सर्वथाऽत्राऽभावाद् नोआगमता द्रष्टव्या, अतीतमङ्गलपदार्थज्ञानलक्षणाऽऽगमपर्यायकारणत्वात्तु द्रव्यमङ्गलता, यथाऽतीतघृताऽऽधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटतेति / 'भवस्स वत्ति' वाशब्दो द्वितीयपक्षसमुच्चये, भव्यस्य च मङ्गलपदार्थज्ञानयोग्यस्य सम्बन्धी 'देहः' इति वर्त्तते, स जीवः सचेतनो नोआगमतो भव्यशरीरद्रव्यमङ्गलमित्यर्थः / इदमत्र हृदयम्- य इदानीं मङ्गलपदार्थन जानीते, भविष्यति तु काले ज्ञास्यति; तस्य सम्बन्धी सचेतनो देहो भविष्यत्कालनयाऽनुवृत्त्या भविष्यन्मङ्गलपदार्थज्ञानाऽऽधारत्वाद् नोआगमतो भव्यशरीरद्रव्यमङ्गलमिति। अत्राऽपि नोशब्दस्य सर्वनिषेधपरत्वात्; आगमस्य चेदानीमभावाद् नोआगमता समवसेया। भविष्यत्काले मङ्गलपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणत्वात् तुद्रव्यमङ्गलता, यथा भविष्यद्धृताऽऽधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटता। नोआगमत इत्थेतद्, विवृण्वन्नाह-'आगमरहिओ' इत्यादि, नोशब्दस्य सर्वनिषेधवचनत्वाद्नोआगमत इत्यनेनैतदुक्तं भवति, किम् ? इत्याहमङ्गलपदार्थज्ञस्य भव्यस्य च सम्बन्धी अचेतनः सचेतनश्च देहो वर्तमानकाले सर्वयैवाऽऽगमरहितः। इति गाथाऽर्थः / / 44 // तदेवं सर्वनिषेधवचनत्वेनोशब्दस्यैवमुदाहरणमुपदर्शितम्, यदिवादेशनिषेधपरेऽपिनोशब्दे एतत् सम्बध्यत एवेति दर्शयन्नाहअहवा नो देसम्मी, नोआगमओ तदेगदेसाओ। भूयस्स भाविणो वा-ऽऽगमस्स जं कारणं देहो // 5|| अथवा 'नो' इति नोशब्दः 'देसम्मि ति देशनिषेधवचनो विवक्ष्यत इत्यर्थः / ततश्च नोआगमत इति कोऽर्थः ? इत्याह-तदेकदेशादागमैकदेशादागमैकदेशमाश्रित्य द्रव्यमङ्गलमित्यर्थः। किं पुनस्तत् ? इति चेत्। मङ्गलपदार्थज्ञस्याऽचेतनः, भव्यस्य तु सचेतनो देह इत्यनुवर्तमानं सम्बध्यते। कः पुनरिहाऽऽगमस्येकदेशो यमाश्रित्य नोभागमतो द्रव्यमगलमिदं स्यात् ? इति / अत्रोच्यते-यथोक्तो ज्ञभव्यशरीररूपो देह एवाऽत्राऽऽगमेकदेशः। ननु जडस्य देहस्य कथमागमेकदेशता ? इति। अत्राऽऽह-भूयस्से' त्यादि, यद्-यस्माद चेतनो देहो भूतस्याऽतीतस्य मङ्गलपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणं हेतुः, सचेतनस्तु भव्यदेहो भाविनो यथोक्तस्याऽऽगमस्य कारणम्, तस्माद् निजकार्यस्याऽऽगमस्यैकदेशेवर्तत एव, कारणं हि कार्यस्येकदेशे वर्तत एव, यथा मृत्ति का घटस्य। अभेद एव घट-मृत्तिकयोरिति चेत्। नैवम्, भेदयोरेव जैनैरिष्टत्यात्, यद्वक्ष्यति सम्मतौ-"नत्थिपुढवीविसिट्ठो, घडो त्तिजंतेण जुज्जइ अणण्णो। जंपुण घडो त्ति पुव्वं, नासी पुढवी तओ अण्णो॥५२॥" आहननु मङ्गगलपदार्थज्ञानस्य परिणामिकारणं जीव एव, ततस्तस्य स्वकार्यकदेशे वृत्तिरस्तु, यथा मृत्तिकायाः, शरीरं त्वागमस्य परिणामिकारणं न भवति, अतः कथं तस्य तदेकदेशवृत्तिता? सत्यम्, किन्तु"अण्णण्णाणुगयाणं, इमंचतंच त्ति विभयणमजुत्तं / जह खीरपाणियाणं" इत्यादिवचनात् संसारिणो जीवस्य शरीरेण सहाऽभेद एव व्यवहियते, अतो जीवस्य परिणामिकारणत्वे शरीरस्याऽपि तद् विवक्ष्यते, इत्यस्याऽऽगमैकदेशता न विरुध्यते। भवत्वेवम्, तथाऽप्यागमतो द्रव्यमङ्गलम् प्राग यदुक्तं तेन सहाऽस्य को भेदः ? तत्रापि हि- "आगमकारणमाया देहो सहो य” इति वचनाच्छरीरमेव द्रव्यमङ्गलमुक्तम्, अत्राऽपि च तदेव; इति कथं नैकत्वम् ? सत्यम्, किन्तु-प्रागुपयोगरूप एवाऽऽगमो नास्ति, लब्धितस्तु विद्यत एव, अत्र तूमयस्वरूपोऽपि नास्ति, कारणमात्रस्यैव सत्त्वात्। इति गाथार्थः / / 4 / / तदेवं दर्शितं ज्ञशरीर-भव्यशरीरलक्षणं नोआगमतो द्रव्यमङ्गलभेदद्वयम्। साम्प्रतं ज्ञशरीर-भव्यशरीरव्यतिरिक्तस्यरूपं तत्तृतीयभेदं दर्शयन्नाह - जाणय-भवसरीरराऽइरित्तमिह दध्वमंगलं होइ। जा मंगल्ला किरिआ, तं कुणमाणो अणुवउत्तो।।४६|| इह तावद् भावतः-परमार्थतो मङ्गलं द्विविधम्-जिनप्रणीत आगमः, तत्प्रणीता मङ्गल्या प्रत्युपेक्षणाऽऽदिक्रिया च / इतश्च पूर्वमागमतो नोआगमतश्च यद् द्रव्यमङ्गलमुक्तं तत्सर्वमागममङ्गलापेक्षमेव, ज्ञशरीरभव्यशरीरव्यतिरिक्तंतुद्रव्यमङ्गलं मङ्गल्यक्रियामेवाऽऽश्रित्य भणिष्यतइति परिभावनीयम्। अथ गाथार्थो व्याख्यायते-तत्र ज्ञशरीरभव्यशरी-राभ्यां व्यतिरिक्तमिह द्रव्यमङ्गलं भवति। कः ? इत्याह-अनुपयुक्तः तांकुर्वाणोया। किम् ? इत्याह-या प्रत्युपेक्षणप्रमार्जनाऽऽदिका मङ्गल्या क्रिया / इदमुक्तं भवति-योऽनुपयुक्तो जिनप्रणीतां मङ्गलरूपांप्रत्युपेक्षणाऽऽदिक्रियां करोति, स नोआगमतोज्ञशरीरभव्यशरीरातिरिक्तंद्रव्यमङ्गलम्, उपयोगरूपोऽत्राऽऽगमो नास्तीति नोआगमता।ज्ञशरीरभव्यशरीरयोञ्जनापेक्षा द्रव्यमङ्गलता, अत्र तु क्रियापेक्षा, अतस्तद्व्यतिरिक्तत्वम्, अनुपयुक्तस्य क्रियाकरणात्

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 ... 1492