Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ मंगल 7 - अभिधानराजेन्द्रः - भाग 6 मंगल मधुरशीतलस्नेहाऽऽदिद्रव्याणां परिग्रहः। एवमिहापि द्वयोर्मङ्गलयोरेकीभूतयोः सुष्टुतरो मङ्गलभावः / स्यादेतत् / एवमपि प्रसजत्यनवस्था, तृ तीयाऽऽदिमङ्गलोपादाने सुछुतरमङ्गलभावोपपत्तेः, न प्रसज ति, प्रयोजनाभावात्तथालोकव्यवहारदर्शनात् / तथाहि-लोके कस्यचिदातुरस्य शर्करापलद्वयमौषधं केनाऽपि भिषग्वरेणोपादेशि, तत्र यद्यपि तृतीयाऽऽदिशर्करापलप्रक्षेपे विशिष्टतमो मधुरभावो भवति, तथाऽपि तन्न प्रक्षिप्यते, प्रयोजनाभावात्, एवमिहाप्यन्यस्तृतीयाऽऽदिक मङ्गलं नोपादीयतेप्रयोजनाभावदिति। वृ०१ उ०१ प्रक०। अथ तृतीय मङ्गलद्वारमधिकृत्याऽऽह - बहुविग्धाइँ सेयाई, तेण कयमंगलोवयारेहिं / घेत्तव्यो सो सुमहा-निहि व्व जह वा महाविज्जा / / 12 / / "श्रेयांसि बहुविघ्नानि भवन्ति महतामपि।" इति वचनाद्येन बहुविघ्नानि श्रेयांसि भवन्ति, तेन कारणेन परमश्रेयोरूपत्वात् कृतमङ्गलोपचारैव स आवश्यकानुयोगो ग्रहीतव्यः / किंवत् ? इत्याह-शोभनमहारत्नाऽऽदिनिधिवद महाविद्यावद् वा / इति गाथाऽर्थः / / 12 / / कपुनस्तन्मङ्गलं शास्त्रस्येष्यते ? इत्याह - तं मंगलमाईए, मज्झे पज्जंतए य सत्थस्स। पढमं सत्थत्थाऽवि-ग्घपारगमणाय निद्दिटुं।१३।। तद् मङ्गलं शास्त्रस्याऽऽदौ क्रियते, तथा मध्ये, पर्यन्ते चेति। अथैकैकस्य करणफलमाह-प्रथममङ्गलं तावच्छास्त्रार्थस्याऽविघ्नेन पारगमनाय निर्दिष्टम् / इति गाथाऽर्थः / / 13 / / तस्सेव य थेञ्जत्थं, मज्झिमयं अंतिम पि तस्सेव। अव्वोच्छित्तिनिमित्तं, सिस्सपसिस्साइवंसस्स॥१४॥ तस्यैव शास्त्रस्य प्रथममङ्गलकरणाऽनुभावादविघ्नेन परम्परामुपागतस्य स्थैर्यार्थ स्थिरताऽऽपादनार्थ मध्यमं मङ्गलम्, निर्दिष्टमिति वर्तते, 'अन्तिम पीति' अन्त्यमपि मङ्गलं तस्यैव शास्त्रार्थस्य मध्यममङ्गलसाम येन स्थिरीभूतस्याऽव्यवच्छित्तिनिमित्तम्, कस्य, योऽसौ शास्त्रार्थः ? इत्याहशिष्यप्रशिष्याऽऽदिवंशगतस्येत्यर्थः / शिष्यपशिष्याऽऽदिवशे शास्त्रार्थस्याऽव्यवच्छेदनिमित्तं चरममङ्गलमिति भावः। इति गाथार्थः / / 14 / / अवाऽऽहमंगलकरणा सत्थं, न मंगलं अह च मंगलस्सावि। मंगलमओऽणवत्था, न मंगलममंगलत्ता वा / / 15 / / प्रेरकः प्राह-भो आचार्य ! त्वदीयं शास्त्रं न मङ्गलं प्राप्नोति / कुतः? इत्याह-मङ्गलकरणात् अमङ्गले हिमङ्गलमुपादीयते, यत्तु स्वयमेव मङ्गलं तत्र किं मङ्गलविधानेन ? न हि शुक्लीक्रियते, नापि स्निग्धं स्नेह्यते; तस्मात् तन्मङ्गलोपादानान्यथाऽनुपपत्तेः शास्त्रं न मङ्गलम्। अथ मङ्गल शास्त्रम्, मङ्गलस्याऽपि सतस्तस्याऽन्यद् मङ्गलं क्रियत इत्यभ्युपगम्यते; अत एवं सति तर्खनवस्थामङ्गलानामवस्थानं न क्वचित् प्राप्नोति। तथाहि-यथा मङ्गलस्याऽपि सतः शास्त्रस्याऽन्यद् मङ्गलमुपादीयते, / तथा मङ्गलस्याऽपि तद्रूपस्य सतोऽन्यद् मङ्गलमुपादेयम् . तस्याऽप्यन्यत्, अपरस्याप्यन्यत, इत्येवमनवस्था आपतन्ती केन वार्यते ? अथ शास्त्र यदुपात्तं मङ्गलं तस्यान्यमङ्गलकरणाभावत इयं नेष्यते / तत्र दूषणमाह- (न मंगलमिति) शास्त्रमङ्गलीकरणार्थमुपात्तमङ्गलस्याऽनवस्थाभयेनाऽन्यमङ्गलाकरणेन तद् मङ्गलं न स्यात्, अन्यमङ्गलाभावात्, शास्त्रवत्। इत्यर्थः / इदमुक्तं भवति यदि मङ्गलस्याऽपरमङ्गलविधानाभावेनाऽनवस्था नेष्यतेतर्हि यथा मङ्गलमपि शास्त्रमन्यमङ्गलेऽकृते मङ्गलं न भवति, तथा मङ्गलमप्यन्यमङ्गलेऽविहिते मङ्गलं न भवेत्, न्यायस्य समानत्वात् / तथा च किमनिष्ट स्यात् ? इत्याह-अमङ्गलता मङ्गलाभावः-शास्त्रे यमङ्गलमुपात्तं तदन्य, मङ्गलशन्यत्यादनमङ्गलम, तस्य च मङ्गलवाभावे शास्त्रमपि न मङ्गलम्, इति व्यक्त एव मङ्गलाभाव इति भावः / वाशब्दः पक्षान्तरसूचकः, अनवस्था, मङ्गलाभावो येत्यर्थः / इति गाथाऽर्थः॥१५॥ अत्रोत्तरमाहसत्थत्थन्तरभूय-म्मि मंगले होज कप्पणा एसा। सत्थम्मि मंगले किं, अमंगलं काऽणवत्था वा ? ||16|| शास्त्राऽऽदावावश्यकाऽऽदेरान्तरभूते भेदवति मङ्गले उपादीयमाने भवेद्-घटेत परेण विधीयमाना 'मंगलकरणा सत्थं न मंगलं' इत्यादिका कल्पनादोषोत्प्रेक्षालक्षणा; शास्त्रे त्वावश्यकाऽदिके परममङ्गलस्वरूपेऽभ्युपंगम्यमाने, तद्भिन्ने मङ्गले चाऽनुपादीयमाने हन्त ! किममङ्गलम्, का वाऽनवस्था त्वया प्रेर्यते ? तस्मादाकाशरोमन्थमेव परस्य दोषोद्भावनमिति भावः। आह-यदिशास्त्रं स्वयमेव मङ्गलम् , तर्हि 'तं मंगलमाईए० (13) इत्यादि (भाष्य) वचनात् मङ्गलंतत्र किमित्युपादीयते? सत्यम्, किन्तु 'सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं / ' इत्यादिना वक्ष्यते सर्वमत्रोत्तरम्, मा त्वरिष्ठाः / इति गाथार्थः // 16 // अथ समर्थवादितयाऽर्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य समर्थयन्नाहअत्यंतरे वि सइ मंगलम्मि नामंगलाऽणवत्थाओ। सपराणुग्गहकारिं, पईव इव मंगलं जम्हा // 17 // शास्त्रादर्थान्तरे भेदवत्यपि मङ्गलेऽभ्युपगम्यमाने सति नाऽमङ्गलता शास्त्रस्य, नाप्यनवस्था। कुतः ? इत्याह-यस्मात् स्वपरानुग्रहकारि मङ्गलम्, प्रदीपवत्, यथाहि प्रदीप आत्मानप्रकाशयानः स्वस्याऽनुग्राहको भवति, गृहोदरवर्तिनस्तुघटपटाऽऽद्यर्थानाविष्कुर्वाणः परेषामनुग्राहकः संपद्यते, न तु स्वप्रकाशे प्रदीपान्तरमपेक्षते, यथा च लवणं रसवत्यामात्मनि च सलवणतामुपदर्शयत् स्वपरानुग्राहकं भवति, न त्वात्मनः सलवणतायां लवणान्तरमपेक्षते। एवमर्थान्तरभूतं मङ्गलमपि निजसामर्थ्याच्छास्त्रे स्वाऽऽत्मनि च मङ्गलता व्यवस्थापयत्स्वपरानुग्राहकं भवति / ततो मङ्गलाद् मङ्गलरूपताप्राप्तौ शास्त्रस्य तायद् नाऽमङ्गलता / यदा च मङ्गगलमात्मनो मङ्गलरूपतायां मङ्गलान्तरं नाऽपेक्षते, तदाऽनवस्थाऽपि दूरोत्सारितैव / इति गाथार्थः / / 17 / /

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 ... 1492