Book Title: Aavashyaksutram Part 03 Author(s): Haribhadrasuri, Publisher: Agamoday Samiti View full book textPage 9
________________ नामं ठवणा दविए भावे अ थयस्स होइ निक्खेवो । दव्वथओ पुप्फाई संतगुणुक्त्तिणा भावे ॥१९१॥ भा०) व्याख्या - तत्र 'नामे' ति नामस्तवः 'स्थापने'ति स्थापनास्तवः 'द्रव्य' इति द्रव्यविषयोः द्रव्यस्तवः, 'भावे चे 'ति भावविषयश्च भावस्तव इत्यर्थः इत्थं स्तवस्य भवति 'निक्षेपो' न्यासः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यस्तवभावस्तव - स्वरूपमेवाह - ' द्रव्यस्तवः पुष्पादि रिति, आदिशब्दाद् गन्धधूपादिपरिग्रहः, कारणे कार्योपचाराच्चैवमाह, अन्यथा द्रव्य - स्तवः पुष्पादिभिः समभ्यर्चनमिति, तथा 'सद्गुणोत्कीर्तना भाव' इति सन्तश्च ते गुणाश्च सद्गुणाः, अनेनासद्गुणोत्कीर्तनानिषेधमाह, करणे च मृषावाद इति, सद्गुणानामुत्कीर्तना उत्-प्राबल्येन परया भक्त्या कीर्तना-संशब्दना यथा - " प्रकाशितं यथैकेन त्वया सम्यग् जगत्रयम् । समग्रैरपि नो नाथ !, परतीर्थाधिपैस्तथा ॥ १ ॥ विद्योतयति वा लोकं, यथैकोsपि निशाकरः । समुद्गतः समग्रोऽपि किं तथा तारकागणः १ ॥ २ ॥" इत्यादिलक्षणो, 'भाव' इति द्वारपरामर्शो भावस्तव इति गाथार्थः ॥ १९१ ॥ इह चालितप्रतिष्ठापितोऽर्थः सम्यग्ज्ञानायालमिति, चालनां च कदाचिद्विनेयः करोति कदाचित्स्वयमेव गुरुरिति, उक्तं च- 'कत्थइ पुच्छर सीसो कहिचपुट्ठा कहेंति आयरिया' इत्यादि, यतश्चात्र वित्तपरित्यागा| दिना द्रव्यस्तव एव ज्यायान् भविष्यतीत्यल्पबुद्धीनामाशङ्कासम्भव इत्यतस्तद्व्युदासार्थं तदनुवादपुरस्सरमाह| दव्वथओ भावथओ दव्वथओ बहुगुणत्ति बुद्धि सिआ । अनिउणमइ वयणमिणं छज्जीवहिअं जिणा विंति ॥ १९२॥ व्याख्या - द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तवो 'बहुगुणः' प्रभूततरगुण 'इति' एवं बुद्धिः स्यादू, एवं चेत् मन्यसे १ कचित्पृच्छति शिष्यः कुत्रचिदृष्पृष्टाः कथयन्त्याचार्याःPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 552