Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 11
________________ च सति तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तव एव तस्य सम्यगमरादिभिरपि पूज्यत्वमेन (वात्तमेव च) दृष्ट्वा क्रियमाणमन्ये|ऽपि सुतरां प्रतिबुध्यन्ते शिष्टा इति खपरानुग्रहोऽपीहैवेति गाथार्थः ॥ १९३ ॥ आह-यद्येवं किमयं द्रव्यस्तव एकान्तत एव हेयो वर्तते ? आहोस्विदुपादेयोऽपि ?, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि, तथा चाह भाष्यकार:अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो द्वथए कूवदिढतो ॥१९४॥ (भा०) ___ व्याख्या-अकृत्स्नं प्रवर्तयतीति संयममिति सामर्थ्याद्गम्यते अकृत्स्नप्रवर्तकास्तेषां, 'विरताविरतानाम्' इति श्रावकाणाम् 'एष खलु युक्तः' एष-द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव, किम्भूतोऽयमित्याह-संसारप्रतनुकरणः' संसारक्षयकारक इत्यर्थः, द्रव्यस्तवः, आह-यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्त इत्यत्र कूपदृष्टान्त इति, जहा णवणयराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थ कूपं खणंति, तेसिं च जइवि तण्हादिया वटुंति मट्टिकाकद्दमाईहि य मलिणिजन्ति तहावि तदुब्भवेणं चेव पाणिएणं तेसिं ते तण्हाइया सो य मलो पुवओ य| 3 फिटइ, सेसकालं च ते तदण्णे य लोगा सुहभागिणो हवंति । एवं दवथए जइवि असंजमो तहावि तओ चेव सा परि| णामसुद्धी हवइ जाए असंजमोवज्जियं अण्णं च णिरवसेसं खवेइत्ति । तम्हा विरयाविरएहिं एस दवत्थओ कायबो, १ यथा नवनगरादिसन्निवेशे केचित्प्रभूतजलाभावात् तृष्णादिपरिगतास्तदपनोदार्थ कूप खनन्ति, तेषां च यद्यपि तृष्णादिका वर्धन्ते मृत्तिकाकर्दमादिभिश्च मलिनीयन्ते ( वस्त्रादीनि) तथापि तदुद्भवेनैव पानीयेन तेषां ते तृष्णादिकाः स च मलः पूर्वकश्च स्फिटति, शेषकालं च ते तदन्ये च लोकाः सुखभागिनो भवन्ति । एवं गव्यस्तवे यद्यपि असंयमस्तथापि तत एव सा परिणामशुद्धिर्भवति ययाऽसंयमोपार्जितं अन्यच्च निरवशेष क्षपयति । तस्माद्विरताविरतैरेष द्रव्यस्तवः कर्त्तव्यः, * भावस्तववत एवं GRAMSACCESCALENDARSCIESCREEG

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 552