Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभद्रीया
॥४९३॥
सुभाणुबंधी पभूयतरणिज्जराफलो यत्ति काऊणमिति गाथार्थः ॥ १९४ ॥ उक्तः स्तवः, अत्रान्तरे अध्ययनशब्दार्थों निरूपणीयः, स चानुयोगद्वारेषु न्यक्षेण निरूपित एवेति नेह प्रतन्यते । उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा - सूत्रानुगमो निर्युक्त्यनुगमश्च तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिक निर्युक्त्यनुगमश्चेति, तत्र निक्षेपनि युक्त्यनुगमोऽनुगतो वक्ष्यति च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा - 'उद्देसे निदेसे' इत्यादि, 'किं कइविह' मित्यादि । सूत्रस्पर्शिक नियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति स चावसरप्राप्त एव युगपच्च सूत्रादयो व्रजन्ति, तथा चोक्तम् - " सुत्तं सुत्ताणुगमो सुत्तालावयकओ यणिक्खेवो । सुत्तफासियणिज्जुत्ति णया य समगं तु वञ्चति ॥ १ ॥" विषयविभागः पुनरमीषामयं वेदितव्यः- “होइँ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावयणासो णामाइण्णास विणिओगं ॥ १ ॥ सुत्तप्फासियणिज्जुत्तिणिओगो सेसओ पयत्थाई । पायं सोच्चिय णेगमणयाइमयगोयरो भणिओ ॥ २ ॥” अत्राऽऽक्षेपपरिहारा न्यक्षेण सामायिकाध्ययने निरूपिता एव नेह वितन्यत इत्यलं विस्तरेण, तावद् यावत्सूत्रानुगमेऽरखलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रम्
१ शुभपरिणामानुबन्धी प्रभूत तर निर्जरा फलश्चेतिकृत्वा । २ सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिकनिर्युक्तिः नयाश्च युगपदेव व्रजन्ति ॥ १ ॥ ३ भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥ १ ॥ सूत्रस्पर्शिक निर्युक्तिनियोगः शेषः पदार्थांदिः । प्रायः स एव नैगमनयादि मतगोचरो भणितः ॥ २ ॥
२ चतुर्विं शतिस्तवाध्यस्तवाधिकारः
॥४९३॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 552