Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक- हारिभद्रीया
॥४९२॥
इत्यर्थः, तथाहि-किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायस्तीर्थस्य चोन्नतिकरणं दृष्ट्वा च तं क्रियमाण-| २ चतुावमन्येऽपि प्रतिबुद्ध्यन्त इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षमिति चेतसि निधाय 'द्रव्यस्तवो बहुगुण' इत्यस्यासारता
शतिस्तवाख्यापनायाऽऽह-'अनिपुणमतिवचनमिद'मिति, अनिपुणमतेर्वचनं अनिपुणमतिवचनम् , 'इदमिति यद् द्रव्यस्तवो बहु
दस्तवनिक्षेपः गुण इति, किमित्यत आह-षड्जीवहितं जिना ब्रुवते' षण्णां-पृथिवीकायादीनां हितं जिनाः-तीर्थकरा ब्रुवते, प्रधान मोक्षसाधनमिति गम्यते ॥ किं च षड्जीवहितमित्यत आह
छज्जीवकायसंजमु व्वथए सो विरुज्झई कसिणो। तो कसिणसंजमविऊ पुप्फाईअंन इच्छंति॥१९॥(भा०) __ व्याख्या-'षडूजीवकायसंयम' इति षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः-सङ्घटनादिपरित्यागः षड्जीवकायसंयमः, असौ हितं, यदि नामैवं ततः किमित्यत आह-'द्रव्यस्तवे' पुष्पादिसमभ्यर्चनलक्षणे 'स' षड्जीवकायसंयमः, किं ?-'विरुध्यते' न सम्यक् संपद्यते, 'कृत्स्नः' सम्पूर्ण इति, पुष्पादिसंलुश्चनसङ्घटनादिना कृत्स्नसंयमानुपपत्तेः, यतश्चैवं 'ततः' तस्मात् 'कृत्स्नसंयमविद्वांस' इति कृत्स्नसंयमप्रधाना विद्वांसस्तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणम
॥४९२ कृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थ, ते किम् ?, अत आह-'पुष्पादिक' द्रव्यस्तवं 'नेच्छन्ति' न बहु मन्यन्ते, यच्चो|तं-'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसाय' इत्यादि, तदपि यत्किञ्चिद्, व्यभिचारात्, कस्यचिदल्पसत्त्व-15
स्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीाद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति, शुभाध्यवसायभा| वेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, 'फलप्रधानास्समारम्भा' इति न्यायात् , भावस्तव एव

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 552