Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
SAHARSAURUSROSSRO
लोगस्सुज्जोयगरे, धम्मतित्थयरे जिणे । अरिहन्ते कित्तइस्सं, चउवीसंपि केवली ॥१॥ (सूत्रम्) __व्याख्या अस्य, तल्लक्षणं चेदं-'संहिता चेत्यादि पूर्ववत् , तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिकर्ष इति,४i सा चेय-'लोगस्सुजोयगरे'इत्यादि पाठः। अधुना पदानि, लोकस्य उद्योतकरान धर्मतीर्थकरान् जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिनः। अधुना पदार्थः-लोक्यत इति लोकः, लोक्यते-प्रमाणेन दृश्यत इति भावः, अयं चेह तावत्पश्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं ?-उद्योतकरणशीला उद्योतकरास्तान , केवलालोकेन तत्पूर्वकप्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-"दुर्गतिप्रसृतान् जीवा" नित्यादि, तथा तीर्यतेऽनेनेति तीर्थ धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थ तत्करणशीलाः धर्मतीर्थकरास्तान् , तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकारकर्मजेतृत्वाजिनास्तान्, तथा अशोकाद्यष्टमहापातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तानहतः, कीर्तयिष्यामीति स्वनामभिः स्तोष्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवलज्ञानमेषां विद्यत इति केवलिनस्तान् केवलिन इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाञ्जि पदानि तेषु दर्शित एव । साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सूत्रस्पर्शिका नियुक्तिरेवोच्यते, स्वस्थानत्वाद्, उक्तं च-"अक्खलियसंहियाई वक्खाणचउक्कए दरिसियंमि । सुत्तप्फासियणिज्जुत्तिवित्थरत्थो इमो होइ ॥१॥' चालनामपि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाऽऽह
अस्खलितसंहितादौ व्याख्यानचतुष्के दर्शिते । सूत्रस्पर्शिकनियुक्तिविस्तरार्थोऽयं भवति ॥ १॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 552