SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ SAHARSAURUSROSSRO लोगस्सुज्जोयगरे, धम्मतित्थयरे जिणे । अरिहन्ते कित्तइस्सं, चउवीसंपि केवली ॥१॥ (सूत्रम्) __व्याख्या अस्य, तल्लक्षणं चेदं-'संहिता चेत्यादि पूर्ववत् , तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिकर्ष इति,४i सा चेय-'लोगस्सुजोयगरे'इत्यादि पाठः। अधुना पदानि, लोकस्य उद्योतकरान धर्मतीर्थकरान् जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिनः। अधुना पदार्थः-लोक्यत इति लोकः, लोक्यते-प्रमाणेन दृश्यत इति भावः, अयं चेह तावत्पश्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं ?-उद्योतकरणशीला उद्योतकरास्तान , केवलालोकेन तत्पूर्वकप्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-"दुर्गतिप्रसृतान् जीवा" नित्यादि, तथा तीर्यतेऽनेनेति तीर्थ धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थ तत्करणशीलाः धर्मतीर्थकरास्तान् , तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकारकर्मजेतृत्वाजिनास्तान्, तथा अशोकाद्यष्टमहापातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तानहतः, कीर्तयिष्यामीति स्वनामभिः स्तोष्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवलज्ञानमेषां विद्यत इति केवलिनस्तान् केवलिन इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाञ्जि पदानि तेषु दर्शित एव । साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सूत्रस्पर्शिका नियुक्तिरेवोच्यते, स्वस्थानत्वाद्, उक्तं च-"अक्खलियसंहियाई वक्खाणचउक्कए दरिसियंमि । सुत्तप्फासियणिज्जुत्तिवित्थरत्थो इमो होइ ॥१॥' चालनामपि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाऽऽह अस्खलितसंहितादौ व्याख्यानचतुष्के दर्शिते । सूत्रस्पर्शिकनियुक्तिविस्तरार्थोऽयं भवति ॥ १॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy