________________
आवश्यक
हारिभ
द्रीया
॥४९४॥
णामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ भवे अ ६ भावे अ ७ । पज्जवलोगे अ ८ तहा अट्ठविहो लोगणिक्खेवो ॥ १०५७ ॥
व्याख्या–नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोको भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो | लोकनिक्षेप इति गाथासमासार्थः॥ व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराहजीवमजीवे रूवमरूवी सपएसमप्पए से अ । जाणाहि दव्वलोगं णिचमणिच्चं च जं दव्वं ॥ १९५ ॥ ( भा० )
व्याख्या - जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ- रूप्यरूपिभेदाद्, आह च- 'रूप्यरूपिणाविति, तत्रानादिकर्मसन्तानपरिगता रूपिणः - संसारिणः, अरूपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकायाः रूपिणस्तु परमाण्वादय इति एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह - 'सप्रदेशाप्रदेशावि 'ति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्रदेश प्रदेशत्वं सकलास्तिकायानामेव भावनीयं, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षते - जीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति, एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यं, पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा - द्रव्यतः परमाणुरप्रदेशो द्व्यणुकादयः सप्रदेशाः, क्षेत्रत एक| प्रदेशावगाढोऽप्रदेशो द्व्यादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकानेक समयस्थितिर्भावतोऽप्येकानेक गुणकृष्णादि-रिति कृतं विस्तरेण, प्रकृतमुच्यते - इदमेवम्भूतं जीवाजीवनातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा,
२ चतुर्वि शतिस्तवा
ध्यलोकनिक्षेपः
॥४९४ ॥