________________
अस्यैव शेषधर्मोपदर्शनायाऽऽह - नित्यानित्यं च यद् द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थः ॥ १९५ ॥ साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाह -
गइ १ सिद्धा २ भविआया ३ अभविअ ४-१ पुग्गल १ अणागयद्धा य २ ।
तीअद्ध ३ तिन्नि काया ४-२ जीवा १ जीव २ डिई चउहा ।। १९६ ॥ ( भाष्यम् )
व्याख्या - अस्याः सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः साद्यपर्यवसानाः अनादिसपर्यवसाना अनाद्यपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः । द्वारम् ॥ अधुना क्षेत्रलोकः प्रतिपाद्यते, तत्र - आगासम्स पएसा उडुं च अहे अ तिरियलोए अ । जाणाहि खित्तलोगं अनंत जिणदेसिअं सम्मं ॥ १९७॥ (भा०)
व्याख्या - आकाशस्य प्रदेशाः - प्रकृष्टा देशाः प्रदेशास्तान् 'ऊर्ध्व च' इत्यूर्ध्वलोके च 'अधश्च' इत्यधोलोके च तिर्यग्लोके च किं ? - जानीहि क्षेत्रलोकं, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'जिनदेशितम्' इति जिनकथितं 'सम्यकू' शोभनेन विधिनेति गाथार्थः ॥ १९७ ॥ साम्प्रतं काललोकप्रतिपादनायाहसमयावलिअमुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छर जुगपलिआ सागरओसप्पिपरिअट्टा ॥ १९८ ॥ ( भा० )
व्याख्या—इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्ख्य समयमाना त्वावलिका द्विघटिको मुहूर्तः षोडश मुहूर्ता दिवसः द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षौ मासः द्वादश मासाः संवत्सरमिति पञ्चसंवत्सरं युगं पल्यो