________________
आवश्यक - ५ हारिभद्रीया
॥४९५॥
पममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयं, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, 'परावर्तः' पुद्गलपरावर्तः, स चानन्तोत्सर्पिण्यवसर्पिणी प्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्त एवैष्यन्निति गाथार्थः ॥ १९८ ॥ उक्तः काललोकः, लोकयोजना पूर्ववद् । अधुना भावलोकमभिधित्सुराह— रइअदेवमणुआ तिरिक्खजोणीगया य जे सत्ता । तंमि भवे वहंता भवलोगं तं विआणाहि ॥ १९९॥ (भा० ) व्याख्या - नारक देवमनुष्यास्तथा तिर्यग्योनिगताश्च ये 'सत्त्वाः' प्राणिनः 'तंमि'त्ति तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति भवलोकं तं विजानीहि लोक योजना पूर्ववदिति गाथार्थः ॥ १९९ ॥ साम्प्रतं भावलोकमुपदर्शयतिओदइए १ ओवसमिए २ खइए अ ३ तहा खओवसमिए अ ४ ।
परिणामि ५ सन्निवाए अ ६ छव्विहो भावलोगो उ ॥ २०० ॥ ( भाष्यम् )
व्याख्या - उदयेन निर्वृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निर्वृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यं ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकश्च एवं षड्विधो भावलोकस्तु, तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति उक्तं च- "ओदइअखओवसमे परिणामेक्वेक्को (कु) इचउक्केऽवि । खयजोगेणवि चउरो तदभावे उवसमेपि ॥ १ ॥ उवसमसेढी एक्को केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइयभेया एमेव पण्णरस ॥ २ ॥ "त्ति गाथार्थः ॥ २०० ॥
१ औदयिकः क्षायोपशमिकः पारिणामिक एकैको गतिचतुष्केऽपि । क्षययोगेनापि चत्वारः तदभावे उपशमेनापि ॥ १ ॥ उपशमश्रेणावेकः केवलिनोऽपि च तथैव सिद्धस्य | अविरुद्धसान्निपातिकभेदा एवमेव पञ्चदश ॥ २ ॥
२ चतुर्वि शतिस्तवाध्यलोकनिक्षेपः
॥४९५॥