________________
तिब्बो रागो अदोसो अ, उइन्नाजस्स जंतुणो। जाणाहि भावलोअं, अणंतजिणदेसिअंसम्म ॥२०१॥ (भा०) । व्याख्या-तीव्र' उत्कटः रागश्च द्वेषश्च, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेष इति, एतावुदीणों 'यस्य जन्तोः' यस्य प्राणिन इत्यर्थः, तं प्राणिनं तेन भावेन लोक्यत्वाजानीहि भावलोकमनन्तजिनदेशितम्-एकवाक्यतया:नन्तजिनकथितं 'सम्यग्' इति क्रियाविशेषणम् , अयं गाथार्थः ॥ २०१॥ द्वारं, साम्प्रतं पर्यायलोक उच्यते, तत्रौषतः पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधं पर्यायलोकमाह
व्वगुण १ खित्तपज्जव २ भवाणुभावे अभावपरिणामे ४ जाण चउब्विहमेअं, पजवलोगं समासेणं २०२ (भा०) | व्याख्या-द्रव्यस्य गुणाः-रूपादयः, तथा क्षेत्रस्य पर्यायाः-अगुरुलघवः भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावः-तीव्रतमदुःखादिः, यथोक्तम्-"अच्छिणिमिलीयमेत्तं णत्थि सुहं दुक्खमेव अणुबंधं । णरए णेरइआणं अहोणिसिं पच्चमाणाणं ॥१॥ असुभा उबियणिज्जा सद्दरसा रूवगंधफासा य । णरए णेरइआणं दुक्कयकम्मोवलित्ताणं ॥२॥” इत्यादि, एवं शेषानुभावोऽपि वाच्यः, तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलालोहितमित्यादिप्रकारेण भवनमित्यर्थः, 'जानीहिं' अवबुध्यस्व चतुर्विधनमोघतः पर्यायलोकं 'समासेन' संक्षेपेणेति गाथार्थः ॥ २०२॥ तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन निगमयन्नाह
अक्षिनिमीलनमानं नास्ति सुखं दुःखमेवानुबद्धम् । नरके नैरयिकाणामहर्निशं पच्यमानानाम् ॥१॥ भशुभा उद्वेजनीयाः शब्दरसा रूपगन्धस्पश्चि । नरके नैरयिकाणां दुष्कृतकोपलिप्तानाम् ॥२॥