SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥४९६॥ वन्नरसगंधसंठाणफासट्ठाणगइवन्नभेए अ । परिणामे अ बहुविहे पज्जवलोगं विआणाहि ॥ २०३॥ (भा०) २चतुा___ व्याख्या-वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदाश्च, चशब्दाद् रसादिभेदपरिग्रहः, अयमत्र भावार्थः-वर्णादयः शतिस्तवासभेदा गृह्यन्ते, तत्र वर्णः कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात्पश्चधा, गन्धः सुरभिरित्यादिभेदाद् द्विधा, ध्यलोक| संस्थानं परिमण्डलादिभेदात्पञ्चधव, स्पर्शः कर्कशादिभेदादष्ट धा, स्थानमवगाहनालक्षणं तदाश्रयभेदादनेकधा, गतिः स्पर्श निक्षेपः वद्गतिरित्यादिभेदा द्विधा, चशब्द उक्तार्थ एव अथवा कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाधनेकभेदोपसङ्घहार्थ इति, अनेन किल द्रव्यगुणा इत्येतद्व्याख्यातं । परिणामांश्च बहुविधानित्यनेन तु चरमद्वारं, शेषं द्वारद्वयं स्वयमेव भावनीयं, तच्च भावितमेवेत्यक्षरगमनिका । भावार्थस्त्वयम्-परिणामांश्च बहुविधान् जीवाजीवभावगोचरान् , किं ?-पर्यायलोकं विजानीहि इति गाथार्थः ॥२०३ ॥ अक्षरयोजना पूर्ववदिति द्वारं, साम्प्रतं लोकपर्यायशब्दान्निरूपयन्नाहआलुक्कइ अ पलुकइ लुक्कइ संलुक्कई अ एगट्ठा । लोगो अट्ठविहो खलु तेणेसो वुचई लोगो॥१०५८॥ व्याख्या-आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलोक्यत इति च संलोकः, एते एकार्थिकाः शब्दाः, लोकः अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम् , अत एवाऽऽह-तेनैष उच्यते लोको 3 येनाऽऽलोक्यत इत्यादि भावनीयं, गाथार्थः॥ १०५८ ॥ व्याख्यातो लोकः, इदानीमुद्योत उच्यते, तत्राह ४ ॥४९॥ दुविहो खलु उज्जोओ नायब्वो व्वभावसंजुत्तो। अग्गी दवुजोओ चंदो सूरो मणी विजू ॥ १०५९ ॥ व्याख्या-'द्विविधः' द्विप्रकारः खलूद्योतः, खलुशब्दो मूलभेदापेक्षया न तु व्यक्त्यपेक्षयेति विशेषणार्थः, उद्योत्यते
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy