________________
प्रकाश्यतेऽनेनेत्युद्योतः, 'ज्ञातव्यः' विज्ञेयो, द्रव्यभावसंयुक्त इति-द्रव्योद्योतो भावोद्योतश्चेत्यर्थः, तत्राग्निद्रव्योद्योतः घटाद्युद्योतनेऽपि तद्गतायाः सम्यक्प्रतिपत्तेरभावात्सकलवस्तुधर्मानुद्योतनाच, न हि धर्मास्तिकायादयः सदसन्नित्यानित्याद्यनन्तधर्मात्मकस्य च वस्तुनः सर्व एव धर्मा अग्निना उद्योत्यन्त इत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, ततश्च स्थितमिदम्-अग्निद्रव्योद्योतः, तथा चन्द्रः सूर्यो मणिर्विद्युदिति, तत्र मणिः-चन्द्रकान्तादिलक्षण परिगृह्यत इति गाथार्थः ॥१०५९ ॥ नाणं भावुज्जोओ जह भणियं सव्वभावदंसीहिं । तस्स उवओगकरणे भावुजो विआणाहि ॥१०६०॥ ___ व्याख्या-ज्ञायतेऽनेन यथावस्थितं वस्त्विति ज्ञानं तज्ज्ञानं भावोद्योतः, घटाद्युद्योतनेन तद्गतायाः सम्यक्प्रतिपत्ते|विश्वप्रतिपत्तेश्च भावात् , तस्य तदात्मकत्वादेवेति भावना, एतावता चाविशेषेणैव ज्ञानं भावोद्योत इति प्राप्तम् , अत3
आह-यथा भणितं सर्वभावदर्शिनिस्तथा यज्ज्ञानं, सम्यग्ज्ञानमित्यर्थः, पाठान्तरं वा 'यद्भणितं सर्वभावदर्शिभि'रिति, तदपि नाविशेषेणोद्योतः, किन्तु तस्य-ज्ञानस्योपयोगकरणे सति, किं ?, भावोद्योतं विजानीहि, नान्यदा, तदैव तस्य वस्तुतः ज्ञानत्वसिद्धेरिति गाथार्थः ॥१०६० ॥ इत्थमुद्योतस्वरूपमभिधाय साम्प्रतं येनोद्योतेन लोकस्योद्योतकरा जिनास्तेनैव युक्तानुपदर्शयन्नाहलोगस्सुज्जोअगरा दव्वुज्जोएण न हु जिणा हुंति । भावुजोअगरा पुण हुंति जिणवरा चउव्वीसं ॥१०६१॥
* न ह्यग्निः स्वं जानाति नवा नियमेन सम्यक्प्रतिपतिद्रष्टृणां सर्वपर्यायाणमप्रकाशात् स्थूलद्रव्यपर्यायप्रकाशनाद्वा
SAHAKARENA