SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥४९३॥ सुभाणुबंधी पभूयतरणिज्जराफलो यत्ति काऊणमिति गाथार्थः ॥ १९४ ॥ उक्तः स्तवः, अत्रान्तरे अध्ययनशब्दार्थों निरूपणीयः, स चानुयोगद्वारेषु न्यक्षेण निरूपित एवेति नेह प्रतन्यते । उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा - सूत्रानुगमो निर्युक्त्यनुगमश्च तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिक निर्युक्त्यनुगमश्चेति, तत्र निक्षेपनि युक्त्यनुगमोऽनुगतो वक्ष्यति च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा - 'उद्देसे निदेसे' इत्यादि, 'किं कइविह' मित्यादि । सूत्रस्पर्शिक नियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति स चावसरप्राप्त एव युगपच्च सूत्रादयो व्रजन्ति, तथा चोक्तम् - " सुत्तं सुत्ताणुगमो सुत्तालावयकओ यणिक्खेवो । सुत्तफासियणिज्जुत्ति णया य समगं तु वञ्चति ॥ १ ॥" विषयविभागः पुनरमीषामयं वेदितव्यः- “होइँ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावयणासो णामाइण्णास विणिओगं ॥ १ ॥ सुत्तप्फासियणिज्जुत्तिणिओगो सेसओ पयत्थाई । पायं सोच्चिय णेगमणयाइमयगोयरो भणिओ ॥ २ ॥” अत्राऽऽक्षेपपरिहारा न्यक्षेण सामायिकाध्ययने निरूपिता एव नेह वितन्यत इत्यलं विस्तरेण, तावद् यावत्सूत्रानुगमेऽरखलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रम् १ शुभपरिणामानुबन्धी प्रभूत तर निर्जरा फलश्चेतिकृत्वा । २ सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिकनिर्युक्तिः नयाश्च युगपदेव व्रजन्ति ॥ १ ॥ ३ भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥ १ ॥ सूत्रस्पर्शिक निर्युक्तिनियोगः शेषः पदार्थांदिः । प्रायः स एव नैगमनयादि मतगोचरो भणितः ॥ २ ॥ २ चतुर्विं शतिस्तवाध्यस्तवाधिकारः ॥४९३॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy