Book Title: Aavashyaksutram Part 03 Author(s): Haribhadrasuri, Publisher: Agamoday Samiti View full book textPage 7
________________ अथ विलुर्विशतिस्तवाख्यं द्वितीयमध्ययनम्. BESCHICHI साम्प्रतं सामायिकाध्ययनानन्तरं चतुर्विशतिस्तवाध्ययनमारभ्यते, इह चाध्ययनोदेशसूत्रारम्भेषु सर्वेष्वेव कारणाऽभिसम्बन्धौ वाच्याविति वृद्धवादः, यतश्चैवमतः कारणमुच्यते, तच्चेदम् -जात्यादिगुणसम्पत्समन्वितेभ्यो विनयेभ्यो गुरु-16 रावश्यकश्रुतस्कन्धं प्रयच्छति सूत्रतोऽर्थतश्च, स च अध्ययनसमुदायरूपो वर्तते, यत उक्तम्-'एत्तो एक्केकं पुण, अज्झयणं कित्तइस्सामि' प्रथमाध्ययनं च सामायिकमुपदर्शितम् , इदानी द्वितीयावयवत्वाद् द्वितीयावयवत्वस्य चाधिकारोपन्यासेन सिद्धिः आचार्यवचनप्रामाण्याद्, उक्तं च-'सावजजोगविरई उकित्तणे' त्यादि, अतो द्वितीयमुपदय॑ते, यथा हि किल युगपदशक्योपलम्भपुरुषस्य दिदृक्षोः क्रमेणाङ्गावयवानि दयन्ते एवमत्रापि श्रुतस्कन्धपुरुषस्येति कारणम्, इदमेव चोद्देशसूत्रेष्वपि योजनीयम् , इदमेव सर्वाध्ययनेष्वपि कारणं द्रष्टव्यं, न पुनर्भेदेन वक्ष्याम इत्यलं विस्तरेण । सम्बन्ध उच्यते-अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सावद्ययोगविरतिलक्षणं सामायिकमुपदिष्टम् , इह तु तदुपदेष्टुणामहतामुत्कीर्तनं कर्तव्यमिति प्रतिपाद्यते, यद्वा सामायिकाध्ययने तदासेवनात्कर्मक्षय उक्तः, यत उक्तं निरुक्तिद्वारे'सम्महिहि अमोहो सोही सब्भाव दंसणं बोही । अविवजओ सुदिठित्ति एवमाई निरुत्ताई॥१॥ति, इहापि चतुर्विंश|तिस्तवेऽर्हद्गुणोत्कीर्तनरूपाया भक्तेस्तत्त्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च-भत्तीऍ जिणवराणं खिजंती पुवसचिया अतोऽनन्तरमेकैकं पुनरध्ययन कीर्तयिष्यामि । २ उपदर्यते इत्यनेन संबन्धः ३ सावद्ययोगविरतिरुत्कीर्तनं ४ भवान्तरावयवभूतेषु ५ सम्यग्दृष्टिरमोहः शोधिः सद्भावो दर्शनं बोधिः । अविपर्ययः सुदृष्टिरिति एवमादीनि निरुक्तानि ॥१॥ ६ कर्मक्षयः, . भक्तेर्जिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि GANGANAGAR RISASSUOSPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 552