Book Title: Aatmanushasanam
Author(s): Parshvanaggani
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 4
________________ Scanned by CamScanner न गर्न हयैर्न रथे-र्न भटैन धनैर्न साधनेर्बहुभिः । न च बन्धुभिषग्देवै-भृत्योः परिरक्ष्यते प्राणी॥३३॥ आत्मानु विषयव्याकुलितमना, यस्य निकृष्टस्य कारणे वपुषः । पीडयसे प्राणगणं, तदपि न तव शास्वतं मन्ये३४ शासनम्। ॥२॥ | तारुण्ये नलिनीदल,-संस्थितजलबिन्दुगत्वरे दृष्टे । वाताहतदीपशिखा--तरलतरे जीवितव्ये च ॥३५॥ विभवे च मत्तकरिवर-कर्णचले चञ्चले शरीरेऽपि । पापमशर्मकरं ते, क्षणमपि नो युज्यते कर्तुम् ॥३६॥ जननी जनको भ्राता, पुत्रो मित्रं कलत्रमितरो वा । दूरीभवन्ति निधने, जीवस्य शुभाशुभं शरणम्॥३७॥ यत्परलोकविरुद्धं, यल्लज्जाकरमिहेव जनमध्ये । अन्त्यावस्थायामपि, तदकरणीयं न करणीयम् ॥३८॥ संप्राप्ते नरजन्मनि, सदुर्लभे निजहितं परित्यज्य । किं कल्मषाणि कुरुषे दृढानि निजबन्धनानीह ॥३९॥ भवकोटीष्वपि दुर्लभ-मिदमुपलभ्येह मानुषं जन्म । येन न कृतमात्महितं, निरर्थक हारितं तेन ॥४०॥ मा चिन्तय परिहारान्, परविभवं माभिवाञ्छ मनसापि । मा ब्रूहि परुषवचनं परस्य पीडाकरंकटुकम्४१०। पैशन्यं मात्सर्य, निघृणतां कुटिलतामसन्तोषम् । कपट साहंकारं, ममत्वभावं च विजहीहि ॥४२॥ ये विदधन्युपतापं, परस्य लुब्धा धने कृतान्यायाः। जीवितयौवनविभवा-स्तेषामपि शास्वता नेव॥४ IRI इष्टं सर्वस्य सुखं, दुःखमनिष्टं विभाव्य मनसीदम् । मा चिन्तय परपापं, क्वचिदप्यात्मनि यथा तद्वत् ॥४४॥ कायेन मानसेन च, वचनेन च तहदेव कर्त्तव्यम् । येन भवे वैराग्यं. प्रशान्तता तापशमनं च ॥४५॥

Loading...

Page Navigation
1 2 3 4 5 6 7