Book Title: Aatmanushasanam
Author(s): Parshvanaggani
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 6
________________ आत्मानु 113 11 त्यज हिंसां कुरु करुण, सम्यक् सर्वज्ञशासनेऽभिहिताम् । विजहीहि मानमाया -लोभानृतरागविद्वषान् ॥५१ धर्मणां पुंसां जीवितमरणे सदैव कल्याणम् । इह जीवतां बहुतपः, सद्गतिगमनं मृतानां च ॥६०॥ | यहदुडूनां शशभृत्, शैलानां मेरूपर्वतो यद्वत् । तद्वद्धर्माणामिह, धर्मप्रवरो दयासारः ॥६१॥ अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । नहि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्म्मः ॥६२॥ लाङ्गलसहस्त्रभिन्नेऽपि नास्ति धान्यं यथोखरे क्षेत्रे । तद्वज्जन्तूनामिह धर्मेण विना कुतः सौख्यम् ६३ ॥ यन्न तृपः शान्तिर्जलं विना क्षुधो विना च नान्नेन । जलदं विना न सलिलं न, शर्म धर्मादृते तद्वत् ॥६४॥ सत्स्वामी सन्मित्रं, सबन्धुः सत्सुतः सत्कलत्रं च । स त्वजनः सभृत्यो. धर्मादन्यदपि सत्सर्वम् ॥६५॥ अतिनिर्मला विशाला, सकलजनानन्दकारिणी प्रवर । कीर्त्तिर्विद्या लक्ष्मी धर्मेण विजृम्भते लोके ॥६६॥ आरोग्यं सौभाग्यं, धनाढ्यता नायकत्वमानन्दः । कृतपुण्यस्य स्यादिह, सदा जयो वाञ्छिता वाप्तिः ॥६७॥ सरभससुरगणसहितः, सुरयोषिज्जनितहर्षसङ्गीतः । सुरलोके सुरनाथो, भवति हि पुण्यानुभावेन ॥६८॥ न करिष्यसि चेद्धम्मै पुनराप्स्यसि दुर्गतौ विशेषेण दहनच्छेदनभेदन --ताडनरूपाणि दुःखानि ॥ ६९ ॥ गच्छद्भिरपि प्राणैर्बुद्धिमतां तन्न युज्यते कर्त्तुम् । उभयत्र यद्विरुद्धं, दीर्घभवभ्रमणकृदपथ्यम् ॥७०॥ aaafnai aari, पुनरिह जननं पुनर्भवे मरणम् । कुर्वन्ति पण्डितास्तद् भूयोरपि न भूयते येन७१ ॥ १ मी वेगाति- विश्वः । = शासनम् । ३ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 4 5 6 7