Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 7
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||||| दीप अनुक्रम [8] “पिण्डनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः + वृत्तिः) ●→ “निर्युक्तिः [१] + भाष्यं [-] + प्रक्षेपं [-]" FO आगमसूत्र - [ ४१/२], मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः मूलं [१] मुनि दीपरत्नसागरेण संकलित चणा ग्रासैषणा च तत्र गवेषणे - अन्वेषणे एषणा - अभिलाषो गवेषणैषणा, एवं ग्रहणैषणा ग्रासैपणाऽपि भावनीये, तत्र गवेषणैषणा उद्गमोत्पादनाविषयेति तद्ग्रहणेनैव गृहीता द्रष्टव्या, ग्रासैपणा त्वभ्यवहारविषया ततः संयोजनादिग्रहणेन सा ग्रहीष्यते, तस्मादिह पारि | शेष्यादेषणाशब्देन ग्रहणैषणा गृहीता द्रष्टव्या, ग्रहणैषणाग्रहणेन च ग्रहणैपणागता दोषा वेदितव्याः, तथाविवक्षणात्, ततोऽयं भावार्थ:उत्पादनादोषाभिधानानन्तरं ग्रहणैषणागता दोषाः शङ्कितम्रक्षितादयोऽभिधातव्याः, ततः संयोजना वक्तव्या, तत्र संयोजनं संयोजनागृदध्या रसोत्कर्षसम्पादनाय सुकुमारिकादीनां खण्डादिभिः सह मीलनं, सा द्रव्यभावभेदाद् द्विधा, वक्ष्यति च 'दब्बे भावे संयोजणा य' इत्यादि, ततः प्रमाणं कालसङ्ख्यालक्षणं वक्तव्यं, चकारः समुचये, स च भिन्नक्रमत्वात्कारणशब्दानन्तरं द्रष्टव्यः, ततः, 'इंगाल धूम' त्ति अङ्गारदोषो धूमदोपश्च यथा भवति तथा वक्तव्यं तदनन्तरं 'कारण' ति यैः कारणैराहारो यतिभिरादीयते यैस्तु न तानि कारणानि च वक्तव्यानि सूत्रे च विभक्तिलोप आर्षत्वात्, तदेवम् 'अष्टविधा' अष्टमकारा अष्टभिरर्याधिकारैः सम्बद्धेति भावार्थः, पिण्डनिर्युक्ति:पिण्डैषणानिर्युक्तिः ॥ स्यादेतद्, एतेऽष्टावप्यर्थाधिकाराः किं कुतश्चित्सम्बन्धविशेषादायाताः उत यथाकय शिक्तव्या:, ? उच्यते, सम्बन्धविशेषादायाताः तथाहि — पिण्डैपणाऽध्ययननिर्युक्तिर्वतुमुपक्रान्ता, पिण्डेषणाऽध्ययनस्य चत्वार्यनुयोगद्वाराणि तद्यथा— उपक्रमो निक्षेपोऽनुगमो नयथ, तत्र नामनिष्यन्ने निक्षेपे पिण्डेपणाऽध्ययनमिति नाम, ततः पिण्ड इति अध्ययनमिति च व्याख्येयं तत्राध्ययनमिति प्रागेव द्रुमपुष्पिकाऽध्ययने व्याख्यातम्, इह तु पिण्ड इति व्याख्येयं तत एव एपणा, एपणा च गवेषणैषणा ग्रहणैषणा ग्रासैषणा च गवेषणैषणादयश्च उद्मादिविषयास्ततस्ते वक्तव्याइत्यष्टौ पिण्डादयोऽधिकाराः ॥ तत्र प्रथमतः पिण्ड इति व्याख्यायते, व्याख्या च तच्च भेदपर्यायैः, अतः प्रथमतः पिण्डशब्दस्य पर्यायानभिधित्सुराद Ja Eucation into For Parts Only ~6~ >********Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 364