Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 846
________________ आगम (०२) “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७९], निर्युक्ति: [ २०५ ] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - तसा पाणा जेहिं समणोबासगस्स आयाणसो आमरणंताए दंडे णिक्खिते, तओ आई विप्पजहंति विप्पजहिता तत्थ आरेणं चैव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव तेसु पचायति, जेहिं समणोवासगस्स सुपचक्खायं भवइ, ते पाणावि जाव अयंपि भेटे से० ॥ ( सूत्रं ७९ ) ॥ पुनरपि गौतमस्वाम्युदकं प्रतीमाह - तद्यथा - बहुभिः प्रकारखससद्भावः संभाव्यते, ततथाशून्यस्तैः संसारः, तदशून्यत्वे निर्विषयं श्रावकस्य सवधनिवृत्तिरूपं प्रत्याख्यानं । तदधुना बहुप्रकारत्रससंभूत्याशून्यतां संसारस्य दर्शयति भगवानाह 'सन्ति' विद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति तेषां चेदमुक्तपूर्व भवति - संभाव्यते च श्रावकाणामेवंभूतस्य वचसः संभव इति, तद्यथा- न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुं, किंतु १ वयं णमिति वाक्यालङ्कारे चतुर्द्दश्यष्टमीपौर्णमासीषु संपूर्ण पौषधमाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधं सम्यगनुपालयन्तो विहरिष्यामः, तथा स्थूलप्राणातिपातमृषावादादचादानमै धुनपरिग्रहं प्रत्याख्यास्यामो 'द्विविध' मिति कृतकारितप्रकारद्वयेन अनुमतेः श्रावकस्याप्रतिषिद्धत्वात् तथा 'त्रिविधेने 'ति मनसा वाचा कायेन च, तथा 'मा' इति निषेधे 'खलु' इति वाक्यालङ्कारे मदर्थं पचनपाचनादिकं पौषधस्यस्य मम कृते मा र्काष्ट, तथा परेण मा कारयत तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूतकृत प्रतिज्ञाः सन्तः श्रावकाः अभुक्त्वाऽपीसाऽखासा च पौषधोपेतत्वादासन्दीपीठिकातः प्रत्यारुद्य अवतीर्य सम्यक् पौषधं गृहीला कालं कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्यक्कृतकाला उतासम्यगिति १, कथं वक्तव्यं खादिति १, एवं पृष्टैर्निर्ग्रन्थैरव| श्यमेवं वक्तव्यं स्यात् सम्यकालगता इति, एवंच कालगतानामवश्यंभावी तेषां देवलोके पूत्पादः, तदुत्पन्नच त्रस एव ततव कथं Eucation Interation For Parts Only ~ 845~

Loading...

Page Navigation
1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860