Page #1
--------------------------------------------------------------------------
________________
सूक्तावली
- सं. नीलांजना :
'सूक्तावली' नामना आ लघु सुभाषित संग्रहने खंभातना शांतिनाथ जैन भंडा ताडपत्रीय हस्तप्रत नं. २६४नी लालभाइ दलपतभाइ विद्यामंदिरनी फोटोस्टेट नकल ३२८७६ ना अंतिम पत्रो नं. २३-२४ परथी तैयार करवामां आव्यो छे.
१
शांतिनाथ जैन भंडारनी ताडपत्रीय हस्तप्रतोना सूचिपत्रना संपादक मुनि पुण्यविजयजीए २६४ नंबरनी हस्तप्रतमां, सूक्तावली, बोधप्रदीप, सुभाषितरत्नकं अने सूक्तसंग्रह - एम चार संग्रहो छे, तेम जणावेलुं पण हस्तप्रतने अंते आवेला संग्रहनो तेमां निर्देश नथी.
आ हस्तप्रतमां वच्चे आ संग्रहनुं नाम 'सूक्तावली' आपेलुं छे आ ताडपत्र हस्तप्रतमां अक्षरो घणा घसाइ गयेला ने वच्चे बच्चे अक्षरो खूटे पण छे. तेमां त्रेप पत्र नथी, तेथी ४३-४९ श्लोको मळता नथी ने ५० मो श्लोक अधूरो मळे छे. ते ज ६७मो श्लोक पण अधूरो छे तेथी कुल ६९ श्लोकोना आ संग्रहमां पूरा श्लोक ६०
छे.
मुनिश्री पुण्यविजयजीए आ हस्तप्रतनो समय विक्रम संवतनी पंदरमी सर्व पूर्वार्ध दर्शाव्यो छे तेथी ई.स. नी चौदमी सदीमां आ हस्तप्रत लखाइ हशे एम
शकाय.
आ संग्रहना कर्ता / संग्राहकनुं नाम पण मळतुं नथी. संग्रहमां मळतां सुभाि परथी तेओ धर्मे जैन हशे एम चोक्कस अनुमान करी शकाय छे. कारणके आ संग्रह शरूआतमां जिनेश्वरने वंदन करवामां आवी छे अने ते उपरांत बीजां सुभाषितोमां धर्मनी प्रशंसा करवामां आंवी छे :
न राज्ञामाज्ञाऽत्र प्रभवति परत्र प्रतिकृतौ
न पुत्रो मित्रं वा भवति न कलत्रं न सुजनः ।
न पतिर्वित्तं वा बहुभिरथवा किं प्रलपितैः
सहाय: संसारे [विमल ? ] जिनधर्मः परमिह ॥ २१ ॥
१. Muni Punyavijayaji, Catalogue of Palm leaf Manuscripts in Śantinātha Jain Bhandara, Cambay, Part two. (Oriental Institu Baroda, 1966), pp. 412 ff.
Page #2
--------------------------------------------------------------------------
________________
आ उपरांत आ संग्रहना ३७ थी ४० श्लोकोमां जैन धर्मने लगती बीजी पण अमुक बाबतोनी समज आपवामां आवी छ :
तदासनाद्यभोगश्च तीर्थे तद्वित्तयोजनम् ।
तबिम्बन्याससंस्कार उर्ध्वदेहक्रियापरा ।।४०|| प्रत्येक धर्म अने खास करीने जैन धर्म जे गुणो पर विशेष भार मूके छे, ते गुणोनी धर्ममां आवश्यकता दर्शावी छ :
यथा चतुर्भिः कनकं परीक्ष्यते निर्घर्षणच्छेदनतापताडनैः। तथैव धर्मो विदुषा परीक्ष्यते
श्रुतेन शीलेन तपोदयागुणैः ।।६१॥ आम आ सुभाषितसंग्रहना कर्तानो झोक जैन धर्म तरफ होवा छतां तेमणे आ संग्रहमां नीति अने धर्मने लगतां मोटाभागनां एवां सुभाषितो आप्यां छे के जे कोइ पण उन्नत जीवन जीववा इच्छनार मनुष्यने उपयोगी थइ पडे. अलबत्त केटलांक सुभाषितोमां व्यावहारिक उपदेश पण व्यक्त थाय छे तो बे-त्रण श्लोको प्रणयने लगता पण आ संग्रहमां जोवा मळे छे.
आ संग्रहमां मळतां सुभाषितोमां नीचेना विषयो पर विचारो रजू थया छे :
सज्जन मनुष्यो, चारित्र्य, सद्गुणोनी समज अने तेमनु महत्व, दुर्जननी खासियतो, कर्मना सिद्धांतनुं सरळ प्रतिपादन, सत्कर्मनुं महत्त्व, वैराग्यमूलक अभिगम अपनाववानी जरूर, जैन धर्मनु महत्त्व, सद्गुरुनां लक्षणो अने तेमनी अनिवार्यता अने संसारनी नश्वरता वगेरे.
नोंधवू घटे के आ सुभाषितो कर्ताए पोते रच्यां होय के तेमने बीजेथी लीधा होय, पण तेमने व्यवस्थित रीते रजू कर्या नथी.. दा.त. प्रणयनी भावनाने व्यक्त करता श्लोको (९, १०, ११) पछी चंद्रने लगता अन्योक्ति अलंकार दर्शावता श्लोको आवे छे (१३, १४), तेज प्रमाणे वैराग्यमूलक श्लोको (२५, २६, २७) पछी वादळने उद्देशीने लखेलो अन्योक्ति श्लोक आवे छे (२८) ने पछी सत्कर्मनुं माहात्म्य प्रतिपादन करतो श्लोक आवे छे.
Page #3
--------------------------------------------------------------------------
________________
94
आ श्लोक संग्रहनी शरूआत जिनेश्वरने वंदनाथी करवामां आवी छे, ज्यारे अंतमां समाप्तिसूचक कोइ श्लोक के लखाण नथी.
आ संग्रहमांना मोटा भागना श्लोको बीजा कोइ सुभाषितसंग्रहमां जोवा मळता नथी. ए हकीकत छे. तेमणे अहीं आपेलो गुणो अंगोनो श्लोक नं. ५२ लक्ष्मणना 'सूक्तिरत्नकोश' मां श्लोक नं. ५०५ तरीके मळे छे. ते ज प्रमाणे आ संग्रहनो श्लोक नं. ६८, भातृहरिना 'शृंगारशतक' मां मळे छे (नं. ५९).
आ संग्रहनां श्लोकोना व्यवस्थित आयोजननी खामी होवा छतां आ लघु संग्रहना केटलाक श्लोकोमां रजू थयेला उमदा अने प्रेरक विचारोने लीधे आ श्लोक संग्रह अगत्यनो बनी रहे छे. आमांना नमूनारूप श्लोको अहीं रजू कर्या छे :
आ संग्रहना कर्तानो सर्वधर्मसमभाव अने पांडित्य नीचेना श्लोकमां केवी सरस ते व्यक्त थाय छे :
अर्हन् हरो हरिरनादिरनाहतश्च बुद्धो बुधो निरवधिर्विधिरव्ययश्च । इत्याद्यनेकविधनिर्मलनामधेयं
शुद्धाशयः परमहंसमहं नमामि ||२४||
मनुष्यो रस्तामां चालतां आगळ मारो निर्वाह केम थशे एनी चिंता करे छे, संसार नामना निःसीम मार्गमां आगळनी चिंता वगर स्वस्थपणे चाले छे !
मार्गे लोकः कति [पय] पदक्षेपसाध्ये पुरस्तात् निर्वाहो मे कथमिति भवेच्चिन्तया व्यग्रचित्तः । संसाराख्ये पुनरिह पथि प्रत्यहं लङ्घनीये निःसीमेऽस्मिन् किमिति कुधियः सुस्थिताः सञ्चरन्ति ||३२||
आ सुभाषितोमां दृष्टांत आपीने विचारनुं समर्थन करवामां आव्युं छे.
विना गुरुभ्यो गुणनीरधिभ्यो
जनोऽभि धर्म न विचक्षणोऽपि
निरीक्षते कुत्र पदार्थसार्थं विना प्रकाश शुभलोचनोऽपि ॥ ४२ ॥
Page #4
--------------------------------------------------------------------------
________________
G
दृष्टांत अलंकार उपरांत कविए अन्योक्ति अलंकार पण सारी रीते प्रयोज्यो छे,
यत्कृष्णानि दिशां मुखानि तनुषे यद्गर्जसि प्रोषितस्त्रीचेतांसि दधासि यद्भयभरं भूयस्तडिद्विभ्रमैः । एतद् वारिद ! बाह्यमेव भवतो मध्ये तु नैसर्गिक
तत्पुष्यत्यमृतं यदत्र जगतां जीवातवे जायते ॥२८॥ आ सुभाषितोमांना मोटाभागना अनुष्टुप् छंदमां रचायां छे अने ते उपरांत बाकीना मार्या, शिखरिणी, शार्दूलविक्रीडित, स्रग्धरा वगेरे जाणीता छंदोमां रचायां छे, जेनो पाल पाछळ आपेली छंदोनी सूचि परथी आवशे. म आ संग्रहनी फोटोस्टेट नकलनो उपयोग करवा देवा बदल ला. द. विद्यामंदिरना नयामक श्रीजितेन्द्रभाइ शाहनो हुं आभार मानुं छु.
सूक्तावली कोऽयं नाथ जिनो भवेत्तव वशी नैवं प्रतापी प्रियो -------- --- शौर्यावलेपक्रियाम् । मोहोऽनेन विनिर्जितः प्रभुरसौ तत्किङ्कराः के वयं इत्थं यो रतिकामजल्पविषयः सोऽयं जिनः पातु वः ॥११॥ अपाया: [हि] प्रतिपद्य पुण्यभाजामुपायताम् । सदा प्रसुवतेऽकस्माद्विपदोऽपि हि संपदः
॥२॥ विद्युद्द्योतैरिवाऽपुण्यैराश्लिष्टाः पुष्पिता अपि । भवन्ति निष्फलाः पुंसामाशाश्थूतलता इव मध्येराजसभं महाजनसभामध्ये वणिग्ममन्दिरे मान्यानां सदने धनाधिपगृहे हh तथा मन्त्रिणाम् । विप्राणां श्रमणा अमेऽमलधियां मध्ये परेषामपि पूज्याः शीलयुजो भवन्ति मनुजाः सर्वत्र [देवाः ] इव ॥४॥
||३||
Page #5
--------------------------------------------------------------------------
________________
96
॥५॥
॥७॥
किं किं नोपकृतं तेन किं न दत्तं महात्मना । प्रियं प्रसन्नवदनेन प्रथमं येन भाषितम् सकृदपि गुणाय महतां महदपि दोषाय दोषिणां सुकृतम् । तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणाम् ॥६॥ उपभोगोऽपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् आत्मा सर्वगतो यदि प्रियतमाविश्लेषदुःखाङ्कितो नित्यश्चेद्विरहज्वरेण महता कि नीयते विक्रियाम् । प्रागासीत् यदि सक्रियोऽयमधुना [किं] निष्क्रियत्वं गतः प्रायो भाग्यविपर्यये मयि (?) मुधा सिद्धान्तसिद्धान्यपि ॥८r यातु क्वाऽपि तव स्वान्तं कान्ते कार्यं त्वया मम । यदेवाऽर्थक्रियाकारि तदेव परमार्थसत्
॥९॥ अपि चण्डान( नि)लोद्भूततरङ्गस्य महोदधेः । शक्यते प्रसरो रोद्धं नाऽनुरक्तस्य चेतसः
॥१०॥ अस्माकं बत मण्डले प्रथमतः पत्या कर: पात्यते काञ्चीकुन्तलदेशमध्यविषयान् हित्वा समिद्धश्रियः । ज्ञात्वेतीव पयोधरौ मृगदृशौ जातौ विकृष्टाननौ नो नीचोऽपि पराभवं विषहते किन्तून्नतौ तादृशौ। कुतस्तस्यास्ति राज्यश्री कुतः सन्ति मृगेक्षणाः । व्यस्य शूरं विनीतं च मित्रं नास्ति विनिश्चितम् ।।१२।। यदिन्दोर्जातयं कथमपि लघुर्लक्ष्मकणिका विधातुर्दोषोऽयं न तु गुणनिधेस्तस्य किमपि । स किं पुत्रो नात्रेनं किमु पह(?)चूडामणिरसौ न कि हन्ति ध्वान्तं जगदुपरि किं वा न वसति ||१३||
॥११॥
Page #6
--------------------------------------------------------------------------
________________
97
यदिन्दोरन्वेति प्रलयमुदयं वा निधिरपामुपाधिस्तत्राऽयं भवति जनिकर्तुः प्रकृतितः । अयं कः संबन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः
यदि क्रियते कर्म तत्परत्रोपतिष्ठति । मूलसिक्तेषु वृक्षेषु फलं शाखासु जायते
क्षिपत्वग्नौ दत्तं जलमथ पयोदे पतिरपामपेक्षन्तेऽर्थित्वं न तु गुणमुदारप्रकृतयः । इदं चिन्त्यं किन्तु क्व च विनिहितं भस्म भवति क्व च न्यस्तं स्वस्ति प्रदिशति समस्तस्य जगतः
वचन मात्रेण माधुर्यं मयूर ! तव जृम्भते । उरगग्रसननिस्त्रिंशकर्मभिर्दारुणो भवान्
महता पुण्यपण्येन क्रीतेऽयं कामि (य) नौस्तवया । पारं दुःखोदधेर्गन्तुं त्वर यावन्न भिद्यते
अत्यार्यमतिदातारमतिशूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति
॥१४॥
॥१५॥
॥१६॥
॥१७॥
॥ १९॥
नाssस्ते मालिन्य भीतेः सकलगुणगणः संनिधानेऽपि येषां येषां संतोषपोषः सततमपि सतां दूषणोद्घोषणे न । तेषामाशीविषा [णा] मिव सकलजगन्निर्निमित्ताहितानां कर्णे कर्णेजपानां विषमिव वचनं कः सकर्ण: करोति ॥ २०॥ लक्ष्मी भ्रष्टोऽपि दैवादुदितविपदपि स्पष्टदृष्टान्यदोषोप्यज्ञावज्ञाहतोऽपि क्षयभृदपि खलालीकवाक्याकुलोऽपि । नैव त्यक्त्वाऽऽर्यचर्यां कथमपि सहजां सज्जनोऽसज्जनः स्यात् किं कुम्भः शातकौम्भः कथमपि भवति त्रापुषो जातुको वा ॥ २१ ॥
॥१८॥
Page #7
--------------------------------------------------------------------------
________________
98
॥२४॥
गुणवानिति प्रसिद्धः संनिहितैरेव भवति गुणवद्भिः ख्यातो मधुर्जगत्यपि सुमनोभिः सुरभिभिः सुरभिः ॥२२।। शिष्टाचार इति (इतीव) विघ्नविहिते शास्तुः प्रमाणीकृतं शास्त्रं स्यादिति संनिरोध इति वा विघ्नस्य संपद्यताम् । शास्त्रादौ कृतबुद्धयो विदधते येनेष्टदेवस्तुति तेनेत्थं भगवानपि प्रववृते प्रज्ञाधनोऽयं कविः ॥२३॥ अर्हन् हरो हरिरनादिरनाहतश्च बुद्धो बुधो निरवधिविधिरव्ययश्च । इत्याद्यनेकविधनिर्मलनामधेयं शुद्धाशयः परमहंसमहं नमामि तत्पाण्डित्यं न पतति पुनर्येन संसारचक्रे सा संप्रीतिर्न पतति पुनर्या कृते वाऽकृते वा । ते किं भोगा रतिषु विदुषां ये न वाच्या परेषां तत्कर्तव्यं किमिह बहुना येन भूयो न भूयः तथ्ये धर्मे ध्वस्तहिंसा[प्रबन्धे देवे रागद्वेषमोहादिमुक्ते। साधौ सर्वग्रन्थसंदर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः
॥२६॥ अजानन् दाहात्म्यं पतति शलभस्तत्र दहने न मीनोऽपि ज्ञात्वा बत बडिशमश्नाति पिशितम् । विजानन्तो ह्येते वयमिह विपज्जालजटिलान् न मुञ्चामः कामानहह गहनो मोहमहिमा
॥२७॥
__॥२५॥
॥२५॥
Page #8
--------------------------------------------------------------------------
________________
99
यत्कृष्णानि दिशां मुखानि तनुषे यद्वाऽर्जसि प्रोषितस्त्रीचेतांसि दधासि यद्भयभरं भूयस्तडिद्विभ्रमैः । एतद्वारिद ! बाह्यमेव भवतो मध्ये तु नैसर्गिकं तत्पुष्यत्यमृतं यदत्र जगतां जीवातवे जायते नमस्यामो देवाननु हतविधेस्तेऽपि वशगाः विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलप्रदः । फलं कर्मायत्तं यदि किममरैः किं च विधिना नमः सत्कर्मेभ्यो विधिरपि न येभ्यः प्रभवति धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां तत्किं यत्र ददाति किं च तनुते स्वर्गापवर्गावपि न राज्ञामाज्ञाऽत्र प्रभवति परत्र प्रतिकृतौ न पुत्रो मित्रं वा भवति न कलत्रं न सुजनः | न पतिर्वित्तं वा बहुभिरथवा किं प्रलपितैः सहाय: संसारे [ विमल ? ] जिनधर्म: परमिह मार्गे लोकः कति [पय] पदक्षेपसाध्ये पुरस्तात् निर्वाहो मे कथमिति भवेच्चिन्तया व्यग्रचित्तः । संसाराख्ये पुनरिह पथि प्रत्यहं लङ्घनीये निःसीमेऽस्मिन् किमिति कुधियः सुस्थिताः सञ्चरन्ति ||३२||
भवति सुभगमूर्तिः खेचरश्चक्रवर्ती धनपतिरवनीशो वासुदेवो विपश्चित् । किमिह बहुभिरुक्तैर्लभ्यते सर्वमेको निरवधिभववाद्ध दुर्लभो जैनधर्मः
॥२८॥
॥२९॥
||३०||
॥३१॥
||३३||
Page #9
--------------------------------------------------------------------------
________________
100
॥३४।।
||३५||
॥३६।।
11३७॥
सभा केयं कोऽहं क इह समय: संप्रति वचः प्रियं किं सर्वेषां सफलमिदमाहोस्विदफलम् । इति प्रेक्षापूर्वं निगदति न यश्चारुवचनं स यद्वादी मूढो व्रजति निपुणं हास्यपदवीम् माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः पूजनं चाऽस्य विज्ञेयं त्रिसन्ध्यं नमनक्रिया । तस्याऽनवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु अल्पस्थानादियोगश्च तदन्ते निभृतासनम् । नामग्रहश्च नाऽस्थाने नाऽवर्ण श्रवणं क्वचित् साराणां च यथाशक्ति वस्त्रादीनां निवेदनम् । परलोकक्रियाणां च कारणं तेन सर्वदा त्यागश्च तदनिष्टानां तदिष्टेषु प्रवर्तनम् ।
औचित्येन त्विदं ज्ञेयमाहुर्धर्माद्यपीडया तदासनाद्यभोगश्च तीर्थे तद्वित्तयोजनम् । तद्विम्बन्यास--संस्कार ऊर्ध्वदेहक्रिया परा समुचितधर्मसमाहितमनुचितपरिहारपूतमुचितज्ञम् । सविनयमविप्रतारकमिति धर्मार्थी गुरुं वदति विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्मं न विचक्षणोऽपि । निरीक्षते कुत्र पदार्थसार्थं विना प्रकाशं शुभलोचनोऽपि
||३८॥
।।३९||
॥४०॥
॥४१॥
॥४२॥
Page #10
--------------------------------------------------------------------------
________________
101
1५१॥
॥५३॥
-- ------------- --------- ति विषयवारितगतिः । बके चान्द्रः सर्वो गुणसमुदयः किञ्चिदधिको गुणाः स्थाने मान्या नरवर ! न हि स्थानरहिताः ॥५०॥ ये काकिणीमपि महापणहिण्डमानरण्डाकरण्डशरणां न गुणा लभन्ते । ते बन्धकोविदकुविन्दकरारविन्दमैत्रीमवाप्य नृपतीनपि लोभयन्ति यत्पयोधरभारेषु मौक्तिकैर्निहितं पदम् । तत्प्रच्छादितरन्ध्राणां [गुणाना]मेव चेष्टितम् ॥५२॥ गुणेष्वादर: कार्यो न वित्तेषु कदाचन । सुलभं गुणिनां द्रव्यं दुर्लभा धनिनां गुणाः गुणिनि गुणज्ञो रमते नाऽगुणशीलस्य गुणिनि परितोषः । अलिरेति वनात्कमलं न दुर्दुरास्त्वेकवासेऽपि वद भो भट ! किं कुर्मः कर्मणां गतिरीदृशी । दुषिधातोरिवाऽस्माकं गुणो दोषाय जायते ॥५५॥ उत्पतति पतति तिष्ठति भूमौ परिलुठति खनति चाऽऽधारम् । कर्दमकूपे घटकः सगुणोऽपि न पूरयत्युदरम् जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुश्रोत्राणि जीर्यन्ति तृष्णैका तरुणायते दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः कायस्याऽशुचिता विरागपदवी संवेगहेतुर्जरा सर्वत्यागमहोत्सवाय मरणं जाति: सुहृत्प्रीतये संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः
॥५४॥
॥५६॥
॥५७॥
॥५८।।
Page #11
--------------------------------------------------------------------------
________________
102
प्राणा मृत्युभयेन यौवनमिदं वृद्धत्वदोषाहतं इष्टानिष्टवियोगसंगममहादुःखैः सुखं पीडितम् ।
एवं नाऽत्र सुखं तथाऽपि विरुपे (विरसे) संसारनिम्बद्रुमे जीवो धर्मरसानभिज्ञहृदयस्तस्मिन् पुनर्धावति
॥५९॥
रहितं महताशोचत (2) रहयति महिमा न जातु कृतमनसः । शोचत् जगदात्मानं यत्रैव रविर्दिनं तत्र ||६०||
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः
य एते शृङ्गाग्रस्थितहरितवृक्षाः शिखरिणः श्रवन्त्यो याश्चैताः प्रचुरसलिलव्याप्तवसुधाः । यदन्यद्वा किञ्चिच्चिरमचिरमप्यस्ति भुवने दिनैः कैश्चिद् यातैस्तदिह खलु सर्वं न भविता शुश्रूष स्वसुधर्ममासगदितं मध्यस्थबुद्ध्या त्वमुं मीमांस स्वगुरून्नमस्कुरु कुरुष्वाऽतुच्छमच्छं मनः । सद्दानं स तु वाञ्छितं ननु सतां तत्त्वं मनुष्व स्फुटं दाक्ष (क्षिण्यं भज सज्जनान् सज यज श्रेयस्यघौघं त्यज ॥६३॥
फलान्वितोऽधर्मः यशोऽर्थनाशनः
भवेदपार्थः स्वशरीरतापनः ।
न चेह नाऽमुत्रहिताय यः सतां मनांसि कोपः स समाश्रयेत्कथम्
मुच्यते बन्धनाद् वृन्तं वृन्तात्पुष्पं प्रमुच्यते । क्लिश्यमानोऽपि दुष्पुत्रैः पिता स्नेहं न मुञ्चति
॥६१॥
॥६२॥
॥६४॥
॥६५॥
Page #12
--------------------------------------------------------------------------
________________
103
शुभेभ्यः स्वेच्छया दद्यात्प्राणान् प्राणी, जयं पुनः । नाऽपि पुत्राय शिष्याय गुरवे प्रतिवादिने
॥६६।। तापं स्तम्वेरमस्य प्रकट[य]ति कर: शीकरैः कुक्षिमुक्षन् । पङ्काकम्पनाऽऽवहति तटतूलपुणपण्याङ्गनादिभिः (?) ॥६७॥ स्त्रीमुद्रां झषकेतनस्य महतीं सर्वार्थसंपत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या[फला]न्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचित्पञ्चशिखीकृताश्च जटिन: कापालिकाश्चाऽपरे ॥६८।। वचनीयमेव मरणं भवति कुलीनस्य लोकमध्येऽस्मिन् । मरणं कालपरिणतिरियं तु जगतोऽपि सामान्यम् ॥६९।।
जानन् दाहात्म्यं. यार्यमति. त्येभ्यः स्वेच्छया. पायाः हि प्रतिपद्य. प चण्डानलोद्भूत. इन् हरो हरि. ल्पस्थानादियोगश्च. स्माकं बत मण्डले. त्मा सर्वगतो. पतति पतति. मोगोऽपायपरो. कि नोपकृतं. तस्तस्यास्ति.
श्लोकानुक्रमणिका
कोऽयं नाथ जिनो. क्षिपत्वग्नौ दत्तं. गुणवानिति प्रसिद्धः. गुणिनि गुणज्ञो. गुणेष्वादरः कार्यो. जीर्यन्ति जीर्यत:. तथ्ये धर्मे ध्वस्त. तदासनाद्यभोगश्च. तापं स्तम्बेरमस्य. त्यागश्च तदनिष्टा. दुःखं दुष्कृतसंक्षयाय. धर्मोऽयं धनवल्लभेषु. नमस्यामो देवान्ननु.
Page #13
--------------------------------------------------------------------------
________________
104
न राज्ञामाज्ञाऽत्र. नाऽऽस्ते मालिन्यभीतेः पूजनं चास्य विज्ञेयं प्राणा मृत्युभयेन. फलान्वितो धर्मः. भवति सुभगमूर्तिः मध्येराजसभं. महता पुण्यपण्येन माता पिता कलाचार्य. मार्गे लोक: कतिपय. मुच्यते बन्धनाद् वृन्तं य एते शृङ्गाग्र. यत्कृष्णानि दिशां यत्पयोधरभारेषु यत्पाण्डित्यं न पतति यथा चतुर्भिः कनकं यदिन्दोरन्वेति यदिन्दोर्जातोऽयं
यदिह क्रियते कर्म . यातु क्वापि तव ये काकिणीमपि रहितं महता लक्ष्मीभ्रष्टोऽपि वचनमात्रेण माधुर्यं वचनीयमेव मरणं वद भो भट ! किं कुर्मः विद्युतैरिव विना गुरुभ्यो गुण. शिष्टाचार इतीव शुश्रूष श्रुत धर्ममा. सकृदपि गुणाय सभा केऽयं कोऽहं समुचितधर्म. साराणां च यथाशक्ति स्त्रीमुद्रां झषकेतनस्य
Page #14
--------------------------------------------------------------------------
________________ 105 छंदसूची 2, 3, 5, 9, 10, 12, 15, 17, 18, 19, 35, 36, 37, 38, 39, 40, 52, 53, 55, 65, 66 6, 7, 22, 23, 41, 54, 56, 57, 60, 69 - 21 26 द्रवज्रा 42 वाक्रान्ता 25, 32 लिनी संततिलका 24, 51 स्थबिल 61, 62, 64 र्दूलविक्रीडित 1, 4, 8, 11, 28, 30, 58, 59, 62, 68 खरिणी 13, 14, 16, 27, 29, 31, 34, 50 घरा 20, 21, 67 min