________________
102
प्राणा मृत्युभयेन यौवनमिदं वृद्धत्वदोषाहतं इष्टानिष्टवियोगसंगममहादुःखैः सुखं पीडितम् ।
एवं नाऽत्र सुखं तथाऽपि विरुपे (विरसे) संसारनिम्बद्रुमे जीवो धर्मरसानभिज्ञहृदयस्तस्मिन् पुनर्धावति
॥५९॥
रहितं महताशोचत (2) रहयति महिमा न जातु कृतमनसः । शोचत् जगदात्मानं यत्रैव रविर्दिनं तत्र ||६०||
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः
य एते शृङ्गाग्रस्थितहरितवृक्षाः शिखरिणः श्रवन्त्यो याश्चैताः प्रचुरसलिलव्याप्तवसुधाः । यदन्यद्वा किञ्चिच्चिरमचिरमप्यस्ति भुवने दिनैः कैश्चिद् यातैस्तदिह खलु सर्वं न भविता शुश्रूष स्वसुधर्ममासगदितं मध्यस्थबुद्ध्या त्वमुं मीमांस स्वगुरून्नमस्कुरु कुरुष्वाऽतुच्छमच्छं मनः । सद्दानं स तु वाञ्छितं ननु सतां तत्त्वं मनुष्व स्फुटं दाक्ष (क्षिण्यं भज सज्जनान् सज यज श्रेयस्यघौघं त्यज ॥६३॥
फलान्वितोऽधर्मः यशोऽर्थनाशनः
भवेदपार्थः स्वशरीरतापनः ।
न चेह नाऽमुत्रहिताय यः सतां मनांसि कोपः स समाश्रयेत्कथम्
मुच्यते बन्धनाद् वृन्तं वृन्तात्पुष्पं प्रमुच्यते । क्लिश्यमानोऽपि दुष्पुत्रैः पिता स्नेहं न मुञ्चति
Jain Education International
॥६१॥
For Private & Personal Use Only
॥६२॥
॥६४॥
॥६५॥
www.jainelibrary.org