Page #1
--------------------------------------------------------------------------
________________
३६
अनुसन्धान-५५
उपाध्याय संवेगसुन्दरगणि-विरचिता शीलोदातिकल्पवल्ली॥
- शी.
वडतपागच्छ एटले के तपागच्छनी वृद्धशाला - वडी पोशालना आचार्य जिनरत्नसूरि शिष्य वा. जयसुन्दरशिष्य वा. संवेगसुन्दरे रचेल आ लघु काव्यरचना, शील अर्थात् ब्रह्मचर्यनो महिमा वर्णवती संस्कृत पद्यात्मक रचना छे. अपवादरूप वसन्ततिलका तथा उपजातिने बाद करतां आखं काव्य शार्दूलविक्रीडित तथा स्रग्धरा छन्दोमां रचायेलुं छे.
आ वा. संवेगसुन्दरे सं. १५४८मां मानुष्यपुर (माणसा?)मां 'सारशीखामणरास' रच्यो हतो. सं. १५१९मां तेमणे चोरवाडपुरमा चिन्तामणि पार्श्वचैत्यनी प्रतिष्ठा करावी हती, तेवो उल्लेख 'जैन साहित्यनो संक्षिप्त इतिहास'मां प्राप्त छे.
आ काव्यमां, तेना नामनां सूचवायुं छे तेम, शीलविषयक उदाहरणो वर्णववामां आव्यां छे. शील-पालनना उत्तम लाभोनुं वर्णन करीने तेना पालन माटे तेमणे प्रेरणा आपी छे. शीलविहोणा जीवननी निन्दा पण तेमणे भरपेट करी छे. प्रथमनां ४० पद्यो आ ज प्रतिपादनमा रोकायां छे. त्यार पछी ते विषयनां उदाहरणो प्रारम्भाय छे, तेमां नेमिनाथ, मल्लिनाथ, स्थूलभद्रमुनि, जम्बूस्वामी, वज्रस्वामी वगेरे महापुरुषोनां नामो लीधां पछी, सुनन्दा (वज्रस्वामीनी माता), नारदमुनि, सुदर्शन शेठ, मनोरमा (सुदर्शन शेठनां पत्नी), ब्राह्मी, सुन्दरी, सीता, दमयन्ती, सुभद्रा, सुलसा, द्रौपदी, मदनरेखा, नर्मदासुन्दरी, मन्दोदरी, ऋषिदत्ता, मृगावती, अंजनासुन्दरी, चेल्लणा, गङ्गा, वंकचूल, शीलवती, अगडदत्त, कलावती, इत्यादि शीलसम्पन्न जनोनां नाम तथा व्रतदृढतानुं वर्णन करेल छे.
७०मा पद्यथी शील-विराधना करनारानां उदाहरण आरंभाय छे. तेमां - आर्द्रकुमार, रथनेमि, नन्दिषेण, कूलवालक, इन्द्र, द्वीपायन, इत्यादि नामो आलेख्यां छे. ते पछी पुनः शील-प्रशंसा अने कुशील-निन्दानो दोर चाले छे.
एकंदरे शीलनो महिमा गाती आ खूब मजानी, उपकारक रचना छे.
Page #2
--------------------------------------------------------------------------
________________
मई २०११
३७
कर्तानो सदाचार प्रत्येनो गाढ पक्षपात अने दुराचरण प्रति तीव्र अरुचि, काव्यना पदे पदे प्रगट थाय छे. दुःशील जनोने पण शील-पालननी रुचि जागे तेवी बोधदायक-प्रेरक रचना.
काव्य क्यांक त्रुटित छे. पाटणना हेमचन्द्राचार्य भण्डारमाथी सत्तरेक वर्ष पूर्वे मेळवेल झेरोक्स-प्रति परथी आ सम्पादन कर्यु छे. ते प्रत अनुमानतः कर्ताना पोताना समयनी होय तेम जणाय छे. जोके निश्चित कहेवू जरा कठिन छे. आ कृतिनी बीजी प्रतिओ पण क्यांक होवी जोईए. ते मळे तो त्रुटित अंश पूरी शकाय.
उपाध्याय संवेगसुन्दरगणि-विरचिता
शीलोदाहृतिकल्पवल्ली ॥ स्तुत्वा वाचमनेकशास्त्रलहिरीगङ्गोपमा तीर्थकृद्वक्त्रावासनिवासिनी भगवतीं प्रोद्यत्प्रभावाञ्चिताम् । प्राप्य श्रीस्वगुरोः पदाम्बुजभवां स्फोर(?ट?)प्रपत्तिं परां शीलोदाहृतिकल्पवल्लिमतुलां कुर्वे सतां तुष्टये ॥१॥ जितो येनाऽरातिर्भुवनविदितः सम्बररिपुमहारागाहियँ व्यथयितुमलं न स्म भवति । शिशुत्वादारभ्य प्रचुरशमसङ्गैकरसिकः । स शैवेयो देवोऽवतु जिनपतिः प्रौढमहिमा ॥२॥ सुसंस्थानादानातिशयनिधयः सत्तमधियः सदा भव्या दिव्याऽमलगुणगणानामवधयः । सुरा यो(ये)दीर्घायुस्कलितवपुषः सत्सुखजुषो नराः शीलाल्लीलाललितगतयः स्युः सुगतयः ॥३॥ अथ वसन्ततिलकाच्छन्दसा द्वे वृत्तेतं नो जहाति विपुला कमला कदाचित् कान्तं कुलोत्थवनितेव विवेकभाजम् ।
Page #3
--------------------------------------------------------------------------
________________
३८
अनुसन्धान-५५
तं स्वीकरोति सुगतिर्निपुणं यथाधीर्योऽजस्रमाश्रयति शीलगुणं प्रथिष्टम् ॥४॥ शीलं सुधाकरकराऽमलमादरेण ये पालयन्ति भविका रसिकाः सुधर्मे । तेषामशेषसुखसन्ततिरङ्गमुच्चैन श्रीरिव त्यजति सद्म विवेकभाजाम् ॥५॥ वासोऽस्वप्ननिकेतने नरजनुश्चाचारशुद्धं कुलं पद्मा सद्मनि नीरजन्मनि यथा केलिं विधत्ते त्वलम् । माधुर्यामृतजित्वरं च वचनं नीरोगमङ्गं च यत् । तत् शीलाऽमरशाखिनः फलमिदं जानन्तु भो भूस्पृशः ! ॥६।। पापध्वान्तनिराकृताविह रविर्यद् वै सुधादीधितिः कल्याणावलिकैरवाकरसमुल्लासप्रदाने च यत् । यद्वाऽनेकमनोऽभिवाञ्छितसुखापूर्ती सुरानोकुहस्तन्नित्यं परिपालनीयमकलं शीलं सतां मण्डनम् ॥७॥ यः शीलमङ्गीकुरुते स धन्यो निजं स एवात्र जनुः पुनीते । सौभाग्यभाग्याभ्युदयैविशिष्टां स एव लोके लभते प्रतिष्ठाम् ॥
इन्द्रवज्रेयम् ॥ कर्मानोकुहपंक्तिकृन्तनविधौ यत् तीक्ष्णपशूपमं यच्चानेकभवौघसञ्चिततमोध्वान्तांशुमन्मण्डलम् । यच्च प्रौढकषायतापशमनश्वेताश्वबिम्बं परं तत् शीलं विमलीकरोति नहि कं संपालितं यत्नतः ॥९॥ व्यावलात्तु(?)रगद्विपादिका(क)बलोन्मत्ता अपि क्षोणिपास्तस्मै मानमनिन्दिताय ददते शीलेष्टदेवो हि यः । प्रोत्सर्पद्विषवेगदर्पकलिताः प्रौढाः पुनः पन्नगास्तं नैवात्र तुदन्ति यस्य सततं शीलामृतं सन्निधौ ॥१०॥ देवः श्लाध्यतमः स एव सुगुरुर्धर्मः स एवाऽनघो वंशः सोऽमलतामितो व्रतमलं सद्भिः प्रशस्यं हि तत् ।
Page #4
--------------------------------------------------------------------------
________________
मई २०११
तज्ज्ञानं मतिरत्र सा च विमला तद्दर्शनं तत्तपो यच्चाऽन्यद् वरशीलसंयुतमहो ! तद्धि प्रमाणं जने ॥११॥ वदनकुहुरनिर्यद्वह्नयोऽप्रत्नभीतिप्रदनयननिवेशा भीषणाकारनासाः । व्यथयितुमसमर्था एव तं यातुधाना यदुरसि शुचिशीलाख्यौषधी सुप्रधाना
॥१२॥
तावन्नुः प्रसरीसरि (री) ति सुयशः सच्चन्दनामोदवत् तावत् श्रीश्चरिकर्ति चात्र चरटेवाऽब्जेऽङ्गके खेलनम् । लोकाग्रे नरिनति तावदपि गी रङ्गे यथा नर्तकी यावत् शीलमिदं सुमित्रवदलं नो सन्निधिं संत्यजेत् ॥१३॥ शीलं स्वर्गधुनीसमुत्थजलवद् विश्वं पुनीतेऽमलं शीलं पापमपाकरोति निबिडं तापं यथा चन्दनम् । शीलं सर्वमलङ्करोति नियतं वर्ष्णेव सन्मण्डनं शीलं कामितमातनोति सुतरामर्घ्यं घुसद्रत्नवत् ॥१४॥ निर्मर्यादविवादसादनिधनाद्यानेकदुःखप्रदं वैरातङ्ककलङ्किताप्रभृतिकानर्थाय यत् केवलम् । तत् सन्त्यज्य कुशीलमुत्तमजनाः ! शीलं श्रयध्वं सदा यद्ध्यानादपि निर्वृतेः सुखमलं हस्त [स्थ ? ] वल्लभ्यते ॥१५॥ यत् (यः)शीलं न जहाति तद्धन इव प्राप्तं प्रयत्नाद्धनं शीलं पुष्यति यस्तु निर्वृतिकरं बीजी यथाऽपत्यकम् (?) । शीलं यः स्ववशीकरोति निजकं त्वध्यात्मविद्वन्मनः स स्तुत्यः सुधियां भवेद् यदि जगत्यत्राऽद्भुतं किं तदा ? ॥१६॥ यद् दु:पालमनुत्तराद् व्रतगणाद् यद्दानतो दुष्करं
यत्तूग्रात् तपसोऽधिकं यदपि च स्वर्णाचलादुन्नतम् । आदर्शप्रतिबिम्बितादपि हि यद् दुर्ग्राह्यमाकारत
स्तत् शीलं परिपालयेद्धि विरलः कश्चिद् भवेऽत्राङ्गवान् ॥१७॥ ये शीलं प्रविहाय सौख्यसदनं संसाररोगाऽगदं कृष्णव्यालकरालभोगविषमं वाञ्छन्ति भोगं भवे । मन्ये ते सुरपादपं प्रवितरन्निःशेषकामं परं हित्वा निन्द्यगराश्रयं हि कनकाभिख्यं भजन्ते द्रुमम् ॥१८॥
३९
Page #5
--------------------------------------------------------------------------
________________
अनुसन्धान-५५
ये शीले हिमवालुकाकुमुदिनी कन्दप्रभाजित्वरे लीनास्ते किमसारसंसृतिभवे सौख्ये रताः स्युः पुनः । गाङ्गे वारिणि हारिणि प्रतिदिनं ये मज्जनं कुर्वते ते किं कुत्सितकर्दमाकुलकुशे बध्नन्ति चेतोरतिम् ? ॥१९॥ ते दूरं लिहतेऽप्यशेय(?)विषमामाः शीलतोयऽन्वहं (?) प्रौद्वैरप्युपचारतन्त्रकुशलैः साध्यानवैद्यैरहो ! । शीलाच्चोत्कटशत्रवः समधिकं वैरानुबन्धोद्यता नश्यन्त्याशु तमोभरा इव रवेर्धर्मा इवाऽम्भोदतः ॥२०॥ क्षाराब्धेः क्षीरनीरं सकि(क?)लवनहुताशात् पुनस्तोयवर्षं कल्याणं पीतलोहाल्ललितगतिविलासं नितान्तं बकोटात् । पावित्र्यं पङ्कतोऽहेर्लपनकुहुरतः पुण्यपीयूषयूषं प्रेयः श्रेयः कुशीलादनवरतममन्दं समीहेत यो वै ॥२१॥ ये कुर्वन्ति सुराद्युपासनविधिं तेषां सुखं चैहिकं ये भूपावलिसेवनैककुशलास्ते शं लभन्ते नवा । ये रायं समुपार्जयन्ति च ततः सौख्यं न तेषां चिरं शीलादत्र परत्र चापि सुखिनः सर्वेऽङ्गिनः स्युः सदा ॥२२॥ तादृग् ना(नो)भावतंसैरविरलविलसद्रत्नरोचिविचित्रै! तादृक् कुण्डलैर्वा कनकसुघटितैर्हारिहारैर्न तादृक् । केयूराद्यैरशेषैरपि बहुरचितैर्मण्डनैर्नैव तादृक् शीलालङ्कारकेणात्र भवति भविनां यादृशी सा समन्तात् ॥२३।। ख्याता सा जडसङ्गिनी सुमनसां सेवालिनी सर्वतः सोऽप्येवामृतदीधितिर्निगदितो लोकैः कलङ्कीति वै । क्रूरैश्चन्दनभूरुहालिरपि साऽप्रत्नद्विजिलैर्वृता तत् किं वस्तु जगत्यनुत्तरमहो ! यत् शीलतुल्यं भवेत् ? ॥२४॥ नो तत्राऽऽमयसंचया न कुनयास्तिष्ठन्ति नैवाऽऽधयोनाऽपि ध्वान्तचयोपमान्यपयशोमुख्यानि दुःखान्यहो !! शीले देहिनमाश्रितेऽद्भुतसुखाधारे सुधाभेऽधिकं किं तार्थे वसति स्थितिं विदधते प्रोत्सर्पिदर्पाहयः ?॥२५॥
Page #6
--------------------------------------------------------------------------
________________
मई २०११
दौर्गन्ध्यं नहि चन्दनेन सममंशौ(शो)स्तेजसा दुस्तमः सौजन्येन [च] दुर्जनत्वमपि नो वैश्य(ज्येन) मौढ्यं यथा । दैन्यं तूत्तमपुण्यजेन धरणीपालादिमानेन नो कौशील्यं कलुषेतरेण हि तथा शीलेन नो संमिलेत् ॥२६॥ वृत्तं नीरसमस्तवारि तु सरो भोज्यं निराज्यं पुनः निःपुण्यं जननं निरंहतिधनं वै निर्विचारं वचः । निर्नाथं सदनं निरक्षि वदनं निर्हेलि यद्वन्नभस्तद्वत् शीलविवजितं नहि विबाभात्यङ्गिनामङ्गकम् ॥२७॥ दौःशील्यान्न मतिः शुभेषु सुगतिर्नो नैव तत्त्वे रतिनँवाऽथाऽपरतिर्न चाऽपि विरतिर्लोल्यान्न तृष्णाक्षितिः । न श्लोकोन्नतिरुत्तरायतिरपि श्रेयो न सत्सन्ततिः किं कुत्राऽपि सुखं श्रुतं विषफलास्वादाद् बत प्राणिनाम् ? ॥२८॥ कपूरे हिमदीधितौ हलधरे हारे हरे सिन्धुरे सौरे चापि हये तुषारनिचय(ये) गौरीगुरौ शौक्तिके । गाने चाऽम्भसि चन्दने त्वुडुगणे कुन्दे च डिण्डीरके दीप्ति ह्येषु दधाति सन्ततमहो ! शीलस्य धर्तुर्यशः ॥२९॥ उग्रव्याघ्राकुरङ्गन्त्यतिविकटकरट्युत्करा वै तुरङ्गन्त्यौद्वत्यैकाग्रचिता निखिलखलजनाः सज्जनन्त्येव विष्वक् । अद्रीन्द्रा ग्रावखण्डन्त्यलघुजलधयो गोष्पदन्त्यग्नयोऽपि स्वैरं नीरन्ति शीलातिशयपरिणतेः प्राणभाजामजस्रम् ॥३०॥ ग्रावा लेखमणिः सुधाशनतरुः काष्टं पशुः कामधुक् सिन्धुश्चाऽपि जडात्मकः सरसिजं पङ्कोद्भवं श्रीश्चला । किट्ट धातुषु पुष्पजातिषु परिम्लानिर्विचाराऽसहं सर्वं वस्त्विति चैकमेव विशदं शीलं वयं मन्महे ॥३१॥ स स्तुत्यः स च माननीयवचनः सोऽनेकलब्ध्यास्पदं सोऽर्हत्शासनकज्जलध्वजसमः सोऽनिन्द्यविद्यानिधिः । सोऽगण्यामलसद्गुणैकजलधिः सोऽवाप्तधीशेवधिर्यः श्वेताम्बुजमध्यगां भगवती शीलाख्यलक्ष्मीं स्मरेत् ॥३२॥
Page #7
--------------------------------------------------------------------------
________________
४२
अनुसन्धान-५५
उद्यच्चण्डमरीचिमण्डलरुचिप्रोद्दण्डपिण्डाधरीकारैकक्षमसर्वविश्वविलसत्प्रौढप्रतापाञ्चितम् । यल्लोकेऽत्र सुमाहिनं चिरतरं ह्यासाद्यते सम्पदा
साकं तत् खलु शीलकल्पतरुजं जानीत दिव्यं फलम् ॥३३॥ पाति प्रौढकषायवायुविचलन्नक्रेऽघकल्लोलके संसाराम्बुनिधौ पतज्जनभरान् यद् यानपात्रं यथा । यत् कैवल्यपुराऽध्वदर्शनविधौ सार्थोपमेयं च सत् तत् शीलं परिहृत्य को नु विभवी दुःशीलतामाश्रयेत् ?||३४|| ध्यायन्त्वादृतमानसाः सुमनसस्तं शीलमन्त्रं परं
यस्मान्नश्यति दुष्टदुर्जनकृतक्षुद्रप्रयोगादिकम् । यस्मात् तानि भवन्ति यानि सुखमाशालीनि सौख्यानि वै सिद्ध्याख्या वनिता स्वयं च वशगा यस्मात् समृद्ध्या समम् ॥३५॥ यः शैलोपमसामयोनिजयनप्रख्यातिमाप्तः क्षितौ
यः पञ्चाननदर्पपाटनपटुत्वेनाऽपि शोभामितः ।
यो वा वाजिगजादिसंकुलरणक्षोणीविजेताऽधिकं सोऽपीह व्रतराजिमुख्यमतुलं शीलं न धर्तुं प्रभुः ||३६|| श्रीसार्वागमशास्त्रसारकलनाकेलीगृहाः केऽप्यहो ! केचिदुर्दमवादिकुञ्जरकुलोन्माथैककण्ठीरवाः । छन्दोनाटककाव्यवित्तमजनोत्तंसास्तु केचिन्नरा ये शीलं हृदि धारयन्त्यनुदिनं ते सन्ति वै पञ्चषाः ॥३७॥ संख्यावत्संसदुर्वी तमनणुसुगुणावासमाशिश्रियेत त्वष्टारं पद्मिनीवद्दयितमिव सती कोकिलेवाम्रसालम् । हंसीवन्मानसं सन्मतिरिव विनयं श्रीरिवेन्द्रानुजं वै यः शीलं चिन्तितार्थप्रदमनुवदलं चिन्तयेदेकचित्तः ॥३८॥ वेत्ता सोऽत्राऽवसेयः स च विशदमतिः सोऽर्हतां पर्युपास्ते: कर्ता स प्राणिवग्रा (र्गा) द्यवनविधिपटुः सोऽमलध्यानधर्ता । उद्धर्ता वंशजानां स सकलशशभृज्ज्योतिराभप्रकीर्तिर्यः शीलावासमध्यात् क्षणमपि न बहिर्याति संत्यक्तलौल्यः ॥३९॥
Page #8
--------------------------------------------------------------------------
________________
मई २०११
गर्जन्तस्तावदुच्चैर्विषयकरटिनः संस्थितिं कुर्वतां वै चित्तारामेऽभिरामेऽशमदमनिशितोद्दामदंष्ट्रोत्कटास्यं (स्यम् ? ) । रागद्वेषादिकश्वापदततिविजयावाप्तकीर्त्याह्ननादं
तन्वन् श्रीशीलनामा मृगपतिरसमो नैति यावज्जिगीषुः ॥४०॥ सुन्दर्योऽपि सुधाभुजां हि यकया रूपश्रियाऽधः कृता राज्यद्धर्ज्या सममुग्रसेनतनुजां यस्त्यक्तवांस्तामपि । अब्दं दानमदात्तु रैवतनगेऽलासीत्तपस्यां च यो धुर्यः शीलवतां स नेमिजिनपो वः श्रेयसे भूयसे ॥४१॥ दद्यात् कस्य मुदं न चेतसि परां सा धारिणीकुक्षिभूर्यात्ताऽर्हन्नियमस्थितिं रथपदान्नेमिं दरीस्थं मुनिम् । दुर्ध्यानाम्बुधिनीरपूरनिपतन्तं प्रोद्दधाराऽऽशु वै स्वेरायुक्त्यभिधाननावमिव सत् शस्यां ददन्ती किल ॥४२॥ रक्षत्वत्र स वः शिवो नवतमः श्रीकुम्भभूपाङ्गभूर्मल्लिर्यः कमनं समूलमवधीद् रोषास्त्ररिक्तोऽपि हि । यस्तु प्राग्भवमित्रषट्कमतनौ मज्जत्कुरागाम्बुधौ पाति स्म प्रवरः सुशीलकलितानां विश्वभूमीस्पृशाम् ॥४३॥ अब्दद्वादशकं यथेच्छमनुभूतं येन वारस्त्रिया साकं
प्रोक्तो दुष्करकृत्त्विति स्वगुरुभिस्तं स्थूलभद्रं स्तुमः ॥४४॥ दस्यूनां पञ्चशत्या प्रभव इति पुमान् प्राप यस्मात् प्रबोधं स्वर्णानां कोटिभिर्यो नवनवतिमिताभिर्जहौ चाऽष्ट बालाः । योऽलासीद् वाँजिपंक्षाशुगैमितमनुजैः साकमर्हत्तपस्यां
स श्री जम्बुप्रभुर्नो कथमिह लभते शीलदृष्टान्तभावम् ? ॥४५॥ मात्रा यस्तु सुनन्दया धनगिरेः क्रन्दन् ददे खिन्नया बाल्येऽप्यागमपारगोऽत्र समभूद् श्रीसिंहगिर्यादरात् । श्यामाभिः प्रतिघस्रमुत्तमसमृद्ध्या प्रार्थमानो निजं शीलं नो विजहौ स वज्रगणभृद् भूयात् सतां समुदे ॥४६॥ १. पादद्वयं लेखकदोषात् पतितम् । प्रत्यन्तरादुपलब्धव्यम् ।
४३
Page #9
--------------------------------------------------------------------------
________________
४४
अनुसन्धान-५५
यत्कुक्षाववतीर्णवान् गुणनिधिः श्रीवज्रनामा विभुया भ्रागसम्मितेषु जिनपाद् वर्षेषु वीराभिधात् । कान्तभ्रातृसुतेष्वितेषु चरणं या स्वीचकार व्रतं स(सा)वो यच्छेनुद्गच्छस्य (? यच्छतु.... ) जयिनी श्रेयः सुनन्दा सती ॥४७॥ ख्यातो यः कलिकेलिमन्दिरमहो सर्वासुमद्ध्वंसकृद्
यश्चाऽत्युग्रतरोरुपाप्मनिचयासङ्गैकबद्धस्पृहः । कामासक्तजनप्रपक्षकरणे दक्षो मुनिर्नारदः
प्राप्नोत्यक्षरसम्पदं स यदि तत् शीलस्य लीलायितम् ॥४८॥ यो गाढं कपिलाख्यया त्वभयया संपीड्यमानो रहः शीलाद्वै निजकात् सुराद्रिवदहो नो चालितो वात्यया । क्रुद्धस्याऽपि कदर्थनान्न नृपतेः खेदं मनाक् चाऽऽप्तवांस्तं को वर्णयितुं सुदर्शनमिहेशः स्याच्च सद्दर्शनम् ॥४९॥ भर्तुर्यात्रिकचत्वारादिषु विगानं प्रोच्यमानं जनैः श्रुत्वाऽऽरक्षिक (क्षक) पीडनास्तु (तु) बहुधोत्सर्गं व्यधाद्वेश्मनि । यत्शीलप्रतिपालनेन विपदां नाशो बभूवाऽऽशु सा जीयादत्र मनोरमाह्ववनिता साध्वीजनैरानुता ॥५०॥ या श्रीनाभिजतीर्थनाथविलसद्वंशश्रियोऽलंकृतिर्या शीलेन निजेन चाऽपि धवलीचक्रेऽखिलं या बाल्येऽपि ललावशेषसुखदां जैनीं तपस्यां परां सा ब्राह्मी विदितोत्तमैर्गुणगणैः केनोपमेया भवेत् ? ॥५१॥ संप्राप्तामलकेवलाज्जिनपतेरादीश्वरात् संयमं
जगत् ।
लान्ती वै विनिवार्य दिग्जयकृते याते नृपे त्वार्षभौ । या शीलावननिष्ठधीश्चिरतरं तेपे तपो दुश्चरं स्वीचक्रे व्रतमागतेऽपि भवतात् सा सुन्दरी वो मुदे ॥५२॥ प्राज्याद् राज्यपदाच्च्युताऽतिगहनाद् या काननाद् रावणेनाऽऽनीताऽपि निजां पुरीं नहि मनाक् तत्याज शीलं स्वकम् । यस्या वह्निरपि ज्वलन् जलमिवाऽभूत् शीलसम्पर्कतो भर्त्रा साकमवाप सौख्यमपि सा सीतासती नन्दतात् ॥५३॥
Page #10
--------------------------------------------------------------------------
________________
मई २०११
ध्यायन्त्यार्हतधर्ममात्महृदये या संचचाराऽवनौ दुःसञ्चारवनस्य विश्वविदितेन प्रोज्झिता स्वामिना । भुक्त्वा द्वादशवत्सरीं तु विपदं शीलेन सौख्यं पुनः प्राप्सीत् सा दमयन्त्यशेष भुवनस्तुत्या सती नन्दतु ॥५४॥ सिक्त्वा चालनिकाजलेन यकया चम्पाभिधायाः पुरोद्वाराणामुदघाटि वै त्रिकमहो ! शीलानुभावात् स्वात् । चक्रे श्रीजिनशासनोन्नतिरशेषेलास्पृशां साक्षिकं सा विश्वे जयतात् समग्रवनितामौलिः सुभद्रा सती ॥५५॥ देवः श्रीत्रैशलेयस्त्रिदशपतिमुखाऽस्वप्नकोटीभिरर्थ्यो यस्याः शीलव्रतस्याऽधिकमनणुतरां वै चकार प्रशंसाम् । यां च श्रीधर्मलाभाशिषमपि सुखदां प्राहिणोत् किं न सा स्यान्नुत्या सर्वत्र साध्वीसदसि हि सुलसोपासिका सर्वकालम् ॥५६॥ पूर्वे जन्मनि या गृहीतचरणाऽप्यालोक्य भोगे रतान् पुंसः पञ्च निदानमेव कृतवत्याप्तुं सुखं तत् ततः । लेभे पञ्च धवांस्तु पाण्डुतनयानग्रेसरत्वं सतीनां तस्यै द्रुपदाधिराजतनयायै श्रेयसं स्तात् सदा ॥५७॥ या नाऽभूद् युगबाहुमग्रजहतं वीक्ष्याऽपि सुव्याकुला याऽत्याक्षीत् पुरमप्यहो सुखपदं शीलं स्वकं रक्षितुम् । या माता च नमेर्नृपस्य जगति ख्याता ललौ सद्व्रतं सा रेखा मदनेति पूर्वपदयुग् देयान्मुदं वोऽतुलाम् ॥५८॥ वसुर्भर्तुरगारतस्तु समभूद् भ्रष्टा ययौ दुर्वनं पश्चाद् वारवधूगृहं पुनरकार्षीद् वैकलीं स्वां दशाम् । शीलं रक्षितुमाप्तवत्यपि सुखं भूयः सुधासोदरं सा श्रेयांसि तनोतु विश्वविदिता श्रीनर्मदासुन्दरी ॥५९॥ नैतन्नैतदनुष्ठितं समुचितं कृत्यं त्वया सर्वथा यत् श्रीमैथिलभूमिपालतनयां सीतामिहानीतवान् । दौःशील्याचरणात् सुखानि न भवन्तीति प्रियं याऽब्रवीत् सा ब्रह्मव्रतमौलिमण्डननिभा मन्दोदरी शं क्रियात् ॥६०॥
४५
Page #11
--------------------------------------------------------------------------
________________
४६
अनुसन्धान-५५
प्रच्छन्नं सुलसाकृतात् कपटतो याऽऽप्तापि दुर्व्यापदं कृत्वा तापसरूपमप्यतितरां घोरे वनेऽस्थादहो !। स्वं शीलं हि जुगोप चाऽऽप बहुलं सौख्यं पुनः पेशलं सा भूयादृषिदत्तिका मुनिजनैर्नुत्या मुदे वः सती ॥६१॥ यस्या रूपं पटस्थं प्रचुरतरगुणं वीक्ष्य लाम्पट्यदोषाच्चण्डप्रद्योतभूपे प्रबलबलवृतेऽप्यागते प्रार्थनार्थम् । कान्ते जाते परासावपि निजतनयऽणै(यं वै?) ररक्षैव या स्वं शीलं धीसंप्रयोगाद् भवतु बहुमुदे सा मृगावत्यजस्रम् ॥६२॥ प्रच्छन्नं कटकात् समेत्य दयिते रन्त्वा पुनः प्रस्थितेऽभिज्ञानेऽपि च दर्शिते श्वसुरकोऽरण्ये मुमोचैव याम् । तातेनाऽऽपि हि नाऽऽदृता गिरिनिकुञ्जेऽसूत पुत्रं हि या सौख्यं चाऽऽप शुभाय सा भवतु वः सत्यञ्जनासुन्दरी ॥६३।। किं कुर्वन् स भविष्यतीति बहुले शीते स्वदेव्या वचः श्रुत्वा श्रेणिकराड् रुषाऽऽकुलमनाः पप्रच्छ वीरं जिनम् । साध्वी चेटकभूपभूरथ नवेति स्वाम्यपि प्रोचिवान् सत्येवेति हि यां सदाऽस्तु सुमुदे सा चिल्लणा सुव्रता ॥६४॥ स्वामिंस्त्वं मृगयारसं खलु विमुञ्चेति स्वकीयं वचोऽकुर्वाणे सति शान्तनौ नरपतौ याऽगात् पुनः स्वं पदम् । अस्थाद् विंशतिवत्सराणि च चतुर्युक्तान्यहो कानने शीलं पालयति स्म निर्मलतमं गङ्गा सुखायाऽस्तु सा ॥६५॥ बह्वन्यायरतोऽपि चौरगणमुख्योऽपि प्र[म]त्तोऽपि च क्षोणीनायककान्तया निधुवनार्थं यः समभ्यर्थितः । दत्तान् सद्गुरुणा विमृश्य नियमांश्चित्ते स्वशीलव्रताद् भ्रष्टो नैव बभूव सोऽत्र जयतु श्रीवङ्कचूलो गृही ॥६६॥ यां मोक्तुं पितृमन्दिरे श्वसुरकोऽचालीन्निवेद्याऽग्रतः सूनो रात्रिभवं स्वरूपमखिलं मार्गे पुनर्निर्मलाम् । ज्ञात्वाऽऽगात् स्वगृहं शशंस च महन(त्)शीलं यया जिग्यिरे चत्वारः सचिवा जयत्वनुदिनं सा शीलवत्यङ्गना ॥६७॥
Page #12
--------------------------------------------------------------------------
________________
मई २०११
नार्यः कदाचन मनाग् मनसः स्वकीयान्नैसर्गिकीं कुटिलतां न परित्यजन्ति । ज्ञात्वेति तत्र न भवन्ति हि सक्तचित्ता: सत्पूरुषा य (ह्य) गडदत्तमुखा यथेह ||६८|| संत्यक्ताऽवनिजानिनाऽतिगहनेऽरणे गता दुर्दशां संछिन्नं पुनरेव हस्तयुगलं प्राप्सीन्नवं पेशलम् । भेजे भूरिसुखानि सर्वजगति ख्याता कलावत्यहो शीलस्याऽतिशयेन विस्मयकरं किं किं न सम्भाव्यते ? ॥६९॥
अथ ब्रह्मव्रताराधकेतरोदाहृतयः । तत्र तेषां (केषां) चिदभव्यानामपि स्वीकृत-सर्वविरतीनामपि व्रतखण्डना जायते सा तदधिकारे प्रोच्यतेपूर्वं यो नियमस्थितिं गुरुसकाशादग्रहीद् दुष्कलां निर्वेदात् कुशलत्वमाप सकलस्याऽर्हत्क्रियौघस्य च । सोऽपि ह्यार्द्रकुमारको व्रतविधिं हित्वा चतुर्विंशतिं वर्षाणां गृहसौख्यभाक् पुनरभूद् धिक् पुष्पचापोद्गतिम् ॥७०॥ श्रीशैवेयजिनस्य बन्धुरपि यः स्वीकृत्य जैनं व्रतं
दर्यां रैवतभूधरस्य विशदध्यानं प्रपन्नः परः (रम्) । सोऽपीक्ष्याऽऽवरणप्रमुक्ततनुकां राजीमतीं रागवा
४७
नासाश्त (?)त्र तु चेत्तदा खलु भवेदन्यस्य का सङ्कथा ? ॥७१॥ यः शिष्योऽन्तिमतीर्थपस्य नृपतिश्री श्रेणिकस्याऽऽत्मभूरप्यत्युग्रतपोनिधिर्बहुतमव्याख्यानलब्ध्या सदा । जन्तून् बोधयति स्म यो दश दश श्रीनन्दिषेणो मुनिः सोऽप्यासीत् पणयोषिता सह रतो धिक् कामविस्फूर्जितम् ॥७२॥ सम्पर्कं स्वगुरोर्विमुच्य तटिनीतीरे तपोभिर्घनैः पार्श्वस्थांस्त्रिदशांश्चकार वशगान् यो वै सहेलं वशी । सोऽपि प्रालभताऽत्र निन्द्यनरकं सङ्गेन वारस्त्रिया संत्यक्तव्रतसंस्थितिर्वृजिनवान् द्राक् कूलवालो यतिः ॥७३॥ विद्यन्ते नहि किं सुपर्ववनितास्तारुण्यराढाञ्चिता लेखानामधिपोऽपि गौतमऋषेर्भेजे सि (?) यत् प्रेयसीम् ।
Page #13
--------------------------------------------------------------------------
________________
४८
अनुसन्धान-५५
पुष्पेषुज्वलने घने ज्वलति हृत् तृण्याकुटीरे महान् रक्षोऽपि प्रविमुह्यतीह यदि कः स्याद् विस्मयो वै तदा ॥७४॥ कष्टैः काननवासजैर्बहुविधैरुयैस्तपोभिर्व्रतैर्योगैरङ्गसमन्वितैरपि(ति)तरां यै रञ्जितं भूतलम् । श्रूयन्ते यदि तेऽपि तापसवरा द्वीपायनाद्याश्च्युताः सत्शीलात् तदहो ! रिपोरिव कलाकेलेर्हि दुश्चेष्टितम् ॥७५॥ भ्रष्टोऽष्टश्रवणः पुराणपुरुषश्चोमापतिस्तापनः
स्कन्दः सोऽपि हिमद्युतिस्तु निजकात् शीलादहो ! श्रूयते । अन्ये चाऽप्यमरा यदीह वनितानां कर्मकृत्त्वं घनं कुर्वन्त्येव तदा स्मरो हि विरलैः शक्येत जेतुं परैः ॥७६॥ येऽरातीन् रणभुव्यनुत्तरबलान् निघ्नन्ति वै हेलया मत्तं कुञ्जरमानयन्ति वशमत्युग्रं च कण्ठीरवम् । तेऽप्यानङ्गरसाकुला गतबला नार्यंहिपद्मेष्वहो ! शूरा ह्यत्र नरा लुठन्ति विषमं धिग् मान्मथं चेष्टितम् ॥७७॥ सम्प्राप्ते निधनेऽपि कातरवचो धीरा न जल्पन्ति ये कष्टां चापि दशां गता अपि निजं मानं न मुञ्चन्ति ये । कुर्वन्तः खलु तेऽपि दास्यमवशाः स्त्रीणामनङ्गानलज्वालाभिः परितप्यमानवपुषो दृश्यन्त एवाऽवनौ ॥७८॥ अद्यापि क्षितिमण्डलेऽत्यपयशो ध्वान्तोच्चयश्यामलं निन्द्यं नूपुरपण्डिताप्रभृतिकानामङ्गनानां महत् । शीलं स्थापयितुं कुशीलचरितज्ञातच्छलात् सन्ततं दक्षैरप्युपदिश्यते मुनिजनैः सर्वत्र शान्तैरहो ! ॥७९॥ किं कुर्मो वयमत्र चेदनियमा नूनं नराश्चाऽर्गलामुक्ताः शीलगुणं बलादपहरन्त्यस्मत्सकाशाद् ध्रुतं (ध्रुवम् ? ) । मा भूत् कस्यचनापि नि (वि) श्ववलये निन्द्या पराधीनता काश्चित् सत्त्वविवर्जिता यितितरां नार्यः प्रजल्पन्त्यहो ! ||८०|| दुःशीलतादिबहुदूषणतत्पराणामाख्यामि पाप्मपदमत्र वदन्ति दक्षाः । तत्सङ्गतिस्तु घनदुःखपरम्पराणां हेतुः कथं न भवति प्रविचार्यतां भोः ! ॥ ८१ ॥
Page #14
--------------------------------------------------------------------------
________________
मई २०११
दारिद्यं क्लीबता रुक्ततिरि(र) मतिरपाण्डित्यमल्पायुरापत्कौरूप्यं नारकाणां गतिरधममनुष्यत्वमाशाविनाशः । तिर्यक्त्वं चेन्द्रियाणामपहतिरशुभ श्रेणिरित्यादि दुःखं दुःशीलैरत्र पुंभिः प्रबल भयचयैः साकमासाद्यते वै ॥८२॥ यद्दोर्दण्डविमुक्तबाणनिकरत्रस्ताः कुरङ्गा इव प्रत्यर्थिपृथिवीभुजो वनभुवं ह्याशिश्रियुः सर्वदा । लङ्का यन्नगरी बिभीषणमुखा यस्योद्भुताः सोदराः सोऽप्याप्तो निधनं गतस्तु नरकं दौः शील्यतो रावणः ||८३ || पराङ्गनासङ्गजुषां नराणां भवेद् यदा दुर्भगताऽपकीर्तिः ।
४९
तदा न चित्रं हृदि चिन्तनीयं मषी न कायय निषेविता किम् ? ॥८४॥ परिस्त्रियं पुण्यततेर्निहन्त्रीं सुखाशया येऽत्र भजन्ति मूढाः । शङ्के स्पृशन्त्युग्रविषोद्भुतां ते प्राणेच्छया क्रूरतरीं (रां) भुजङ्गीम् ॥८५॥ त्यक्त्वा निजं या दयितं विलज्जा परेषु रागं तनुते नरेषु । विद्युल्लताचञ्चलमानसायां रमेत कस्तत्र पराङ्गनायाम् ? ॥८६॥ मोक्षद्रुमे तेन कुठारघातो ददे च देहे च रणाभिधौकः । उन्मूलिता चारुगुणालिवल्ली येनाऽन्यनारीषु रतिः कृते ॥८७॥ निर्भर्तृका-सङ्गतिरुच्यते वै प्राज्ञैरनर्थैकनिबन्धनाय । कुलिङ्गिनीभिः सह रन्तुमिच्छा सर्वापहाराय तदा न चित्रम् ॥८८॥ न मातरं नो जनकं गुरुं वा हितं वचो न श्रुतमार्हतं च । मित्राणि बन्धून्न च देवताद्यं वै मन्यते वारवधूरतो ना ॥८९॥ या खानिरुर्व्यां कु(क) पटोच्चयानां यदीयचित्ते न कृपा कदाचित् । ध(अ?)न्यस्य हेतोर्विदधाति हाईं यासां (या सा ? ) कथं वारवधूः सुखाय
118011
निषेवते यो वनिताः प्रकामं पशुक्रियाभक्तमतिर्नृपाशः । स सूक्ष्मजन्तून् नवलक्षमानान् निहन्ति जैनागमवाक्यमेतत् ॥९१॥ यथा तरूणां दववह्नितोभीर्यथा र (रु) रूणां च हरेः करालात् । बिडालतः कुक्कुटशावकानां यथा तथा स्त्रीजनतो यतीनाम् ॥९२॥
Page #15
--------------------------------------------------------------------------
________________
अनुसन्धान-५५
नितम्बिनीं ये हृदये निधाय वाञ्छन्ति मोक्षं बत मुग्धलोकाः ।
आरुह्य ते लोहमयीं शिलां वै तरीतुमिच्छन्ति महाम्बुराशिम् ॥९३॥ व्यापत्खनिः सद्म कलेनिदान-मनर्थराशेः खलु याऽत्र लोके । स्वान्तं दुराराध्यतमं च यस्याः सा सौख्यहेतुर्वनिता कथं स्यात् ? ॥९४।। सा जातिरब्धौ विनिमज्जतु द्राक् कुलं च तद् यातु विदूरमाशु । गुणा विशन्तूग्रतमे हुताशे दुःशीलतायां निरतस्य पुंसः ॥९५॥ विज्ञाय किंपाकफलोपमानां-स्त्यजन्ति विज्ञा विषयानशेषान् । मूढाः पुनस्तत्र रतिं दधाना भवन्त्यजत्रं जनगहणीयाः ॥९६।। विद्योततोऽत्राभिजनो जनस्य शीलेन वै शुद्धतरेण शश्वत् । सालो हि मूलेन सुनिश्चलेन रुचिं दधाति च्छना(?)दिकै! ॥९७।। तृष्णा वञ्चनपाटवं वितथा(थ)वाग् वैधेयताऽलज्जता नैष्ठुर्यं च(त्व)भिमानिता मनसिजक्रीडारुचिः प्रायशः । शुग्रोषावविवेकिता च सहजा दोषालिरित्यादिका यत्र स्याद् वनितासु तास्विह पुमान् कुर्यात् कृती को रतिम् ? ॥९८॥ कर्तव्यो नहि योषितां प्रविलसत्स्नेहं गतानामपि विश्वासो हितमिच्छुभिर्बुधजनैनूनं कदाचित् क्षितौ । श्रीरामेण च लक्ष्मणेन च यथा तस्मिन् वने दण्डकाऽभिख्ये सूर्पणखाप्रदशितबहुप्रेमाऽपि नाऽङ्गीकृता ॥९९॥ भाषन्ते मधुरं वचो यदि पुनः प्रीति परां दर्शयत्यानन्दं रचयन्ति विभ्रमततिं कुर्वन्ति पुष्णन्ति शम् । तन्वन्त्यादरमद्भुतं च जनयन्त्येवेह चित्ते तथाप्यात्मज्ञा नहि विश्वसन्ति कुटिलभ्रूणां चरित्रे क्वचित् ॥१००॥ अर्च्यन्ते कुसुमेषुशासनधरास्ते निर्जरा जर्जरा मुक्त्यर्थं मनुजैरनेकविधिभिर्भक्तिप्रणुन्नैस्तदा । लोके किं नहि पूजयन्ति खलु ते गतवराहादिकानज्ञानप्रचयप्रनष्टमतयस्तत्त्वार्थमुक्ता यिह ॥१०१॥ नारीणां निशितैः कटाक्षविशिखै! भिद्यतेऽस्मोत्तरो(?) येषामत्र पवित्रसद्गुणजुषां शीलाह्वसन्नाहकः (?) ।
Page #16
--------------------------------------------------------------------------
________________
मई २०११
५१
यैश्चापि स्मरभूधवो बहुबलोऽजेयो जितो लीलया दान्तैर्हेतिविवर्जितैरनुदिनं तेभ्योऽस्त्वजस्त्रं नमः ॥१०२॥ पीयूषप्रतिमं निपीय व[च]नं प्रेक्ष्याऽलसां सद्गतिं सप्रेमेक्षितमद्भुतप्रदमनिन्द्यं विभ्रमं भ्रूभवम् । वक्षोजौ च गभीरनाभिवलयं मध्यं कृशं योषितां स्वान्तं नो विकृतिं जगाम नियतं येषां हि तेभ्यो नमः ॥१०३॥ वामा क्लीबवदुत्तमैर्हि पशुमद्धेयं च सद्मासनं
कुड्यस्याऽऽन्तरमप्यनङ्गरसयुक् स्त्रीणां कथा भिक्षुभि: प्राक्केलिस्मृतिरङ्गवीक्षणमपि स्वाङ्गेषु सत् संस्कृतिर्वर्ज्यं चाऽत्यशनं प्रणीतमपि च ब्रह्मव्रताराधकैः ॥१०४॥ शीलं चन्दनचन्द्रकाशकुसुमप्रालेयपिण्डोज्ज्वलं याः प्राग्ग्रं परिपालयन्ति नितरां तुच्छाऽपि ताभिर्ह्यहो !। स्त्रीजातिः पुरुहूतमुख्यसुमनोभिर्दानवैर्मानवै
र्निर्ग्रन्थै: सुविचक्षणैरपि जने स्तुत्याः कृता नित्यशः ॥१०५॥ याः श्रीनन्दनसन्निभानपि परान् स्वप्नेऽपि वाञ्छन्ति नो पुंसो जल्पमनल्पमन्यमनुजैः साकं न याः कुर्वते । यास्तुर्यव्रतधर्मपालनपरा रत्नत्रिकाराध(धि)कास्ता लक्ष्मीरिह मन्महे वयमहो साक्षान्न वै योषितः ॥ १०६ ॥ अमङ्गलं शाम्यति दुःखजालं प्रणश्यति द्रागिह सर्वकालम् । येषां प्रशस्यादपि दर्शनाद् वै जयन्तु ब्रह्मव्रतधारिणस्ते ॥१०७॥ सुसञ्चितं धर्मधनं प्रविश्य यो वर्ष्मगेहेऽपहरत्यजस्रम् । अनङ्गचौरः प्रबलो जितो यैः सोऽप्यत्र तेभ्योऽस्तु नमस्त्रिसन्ध्यम् ॥१०८॥ सर्वज्ञसिद्धान्तपुरे प्रकुर्वन् राज्यं कृपाह्वोत्तमपट्टदेव्या ।
समं च सम्यक्त्वमहाप्रधान - प्रभूषितः शीलनृपोऽत्र जीयात् ॥१०९॥ यक्षाद्याः शकडालमन्त्रितनयाः सप्ताऽथ कंसद्विषो
भामाद्या दयिताः सतीजननुताः कुन्त्यादिकाश्चाऽपराः । कौशल्याऽपि च देवकी जिन [पद ] न्यस्ताः समस्ता अपि श्रेयांसीह वितन्वतामनुदिनं सत्यः प्रभूतानि वः ॥११०॥
Page #17
--------------------------------------------------------------------------
________________
अनुसन्धान-५५
यद्वाणीरसमानिपीय भविका द्राक्षासितादौ रुचिं नो कुर्वन्ति यदीयकीर्तिरतनुः प्रालेयधामोज्ज्वला । प्रोद्यवृद्धतपोगणाम्बरदिवानाथोपमानाश्चिरं श्रीमत्श्रीजयसुन्दराह्वगुरवो जीयासुरुर्वीतले ॥१११।। इति श्रीवृद्धशालाकमलिनीदिनकरोपमानमहोपाध्यायश्रीजयसुन्दरगुरुशिष्या
णूपाध्यायश्रीसंवेगसुन्दरगणिः श्रीशीलोदाहृतिकल्पवल्ली कृतापि(त्वाऽपू)र्यत ॥ श्रीसर्वज्ञसरस्वत्यै नमः ॥
Page #18
--------------------------------------------------------------------------
________________
मई २०११
[नोंध :
सिद्धार्थ-त्रिशलाकृत भोजन-विच्छित्ति-विषयक आ त्रण रचनाओ लगभग दोढेक वर्षथी आवीने पडी हती. परन्तु समयनी खेंचने कारणे तेनुं व्यवस्थित संकलन करवामां खास्सो विलम्ब थई गयो ! आजे ते त्रणे रचनाओ साथे ज मूकवामां आवे छे.
आ वर्णनोमां स्वाभाविक रीते ज केटलांक वर्णनो, शब्दो समान अने तेथी पुनरावर्तित थतां होय छे. छतां प्रत्येक वर्णन भिन्न भिन्न ज होय. आना उपरथी तेणे नकल करी तेवं नथी होतुं.
वास्तवमां, कल्पसूत्रनुं वांचन करवानुं होय त्यारे श्रोतावर्गने रस पडे ते माटे विविध स्थानो पर आ प्रकारनां वर्णनो व्याख्याताओ तथा भाषाविवरण/टबार्थना लेखको बोलता/लखता. टबार्थ सेंकडो होय, तेमां एक या बीजा, पहेलांना टबाओनो आधार पण लेवातो ज होय. छतां दरेक वक्ता/लेखक वर्णनने रसिकतानो पुट आपवा माटे कांई ने कांई उमेरता जाय ज. अहीं आपेल त्रणे वर्णनोने जोवाथी उपरोक्त वात स्पष्ट थई जशे.
आवां वर्णनो थकी वानगीओनां नामो, अवनवा शब्दो, भोजनसमारोहमां जळवाता भोजनक्रम - इत्यादि अनेक विषयो विषे जाणकारी मळी रहे छे. तो मध्यकालमां प्रचलित भोज्य पदार्थो विषे पण माहिती मळी आवे छे. अस्तु.
- शी.]
कल्पसूत्र-टबार्थ-गत भोजनविच्छित्ति
- सं. मुनिपुण्यश्रमणविजय विहार करतां डुंगरपुर जवानुं थयु, त्यां उपाश्रयमां कल्पसूत्र-टबार्थनी एक प्रति जोई. तेनां पानां फेरवतां आ ‘भोजनविच्छित्ति' जोवा मळी. 'अनुसन्धान'-४९मां आवी एक वर्णनात्मक कृति प्रकाशित थई हती, ते याद आवतां आनी नकल करी, तेनी साथे सरखावी जोई, तो बन्ने वर्णनमा घणी समानता जोवा मळी. प्रकाशित कृतिमां 'ग्रन्थान्तरानुसारेण' एम छे, तो ते आ कल्प-टबा परथी ज ऊतारेल हशे, एवी सम्भावना छे.
प्रतिना अन्तिम पत्रमा 'सं. १८२७ना आषाढ सुदि ४ भोमवासरे, कोटा नगरे प्रवरतन्नसागर महाराजने वांचवा माटे पण्डित सूरजमले लखी' एवी नोंध छे.
Page #19
--------------------------------------------------------------------------
________________
५४
अनुसन्धान-५५
अथ भोजनविच्छत्ति प्राह ।
भलो उत्तंगतोरण मांडवो । उत्तंग तोरण | तुरत नवो बैसवानुं आंगणो । ते तो नील रतनतणो ॥ ससहा मांड्या आसण । वइसवानी किसी विमासण । आगलि मूंकी सोनानी आटणी । ते किम जाई छांडणी ॥ ऊपरि मूक्या सोनाना रुपाना थाल । अत्यंत विशाल । विचिमई चउसठि वाटकी । लिगार नहि जाटि काटकी ॥ गंगोदक दिधा थाल । कचोलानइं हाथ पवित्र कीधा । सगली पांति बइंसती हुइ । इन्द्र इन्द्राणी निरखती । तलई प्रीसणहारी आवी । देखता लोकनई मनि भावी ॥ ते केवी हैं
—
सोलशृंगार सज्या । बीजा काम सहु तज्या । हाथनी रुडी । बिहु बाहइं खलकै चूडी ॥ लघलाघवनी कला । मन कीधा मोकला ॥ चित्तनी उदार । अति घणुं दातार ॥ दोलतनी हाथ । परमेश्वर देवे तेहनो साथ ॥ धसमसती आवी । गलानई मनि भावी ॥ पहेलु फलहल प्रीसइं । सगलाना मन हिसई ॥ पाका आंबानी कातली ॥ ते बूरा खांडसुं भरी ॥ अनइं वली पातली पाका केला । ते वली खांडसुं किधा भेलां । सखराकरणां । ते वली पीला वरणा || नीला नारंगा । रंगइँ दीसता सुरंगा। कौंली रायण प्रीसि, भायिण दाडमनी कूली । खातां पूगइ मननी रली । तिम जानइं अखरोट, खाता उपजई मननी कोडी ॥ द्राख नई बिदाम, केइ कागदी केइ स्यांम । सलेमी कुहारा खारिक खजुरि ते प्रीस्या भरपुर || नालेरनी गिरी, ते मालवा गोलसुं भरी । लींबू मीठा नई खाटा । एहतो कहे न दीठा । परीस्या चारोली नई पिसता । लोक जीमई हसता । वली सेलडीनइं सहाफल । ते पिण प्रीस्यां परिघल ॥
Page #20
--------------------------------------------------------------------------
________________
मई २०११
हिवइ पकवांन आणइ । ते केहवा - सतपुडा खाना तुरतना कीधा, ताजा सदला नैं साजा मोटा जांणे प्रासादना छाजा । पॐ प्रीस्या लाडु, जाणे नान्हां गाडु कुण कुण लाडु ते कहैइं - मोतीयालाडु । दालिया लाडु । सेवीया लाडु । कीटीरा लाडु नांहलना लाडु । तिलना लाडु । त्रिगडुना लाडु । मगदना लाडु मीजीपाक लाडु । सिंहकेसरीया लाडु । कगरीया लाडु । अनेक जातिना लाडु मेहल्या ॥ वली बीजा आण्या पकवान, जीमता वाधइ मुखनु वान । कुण कुण जाति नवी नवी भांत । तल्या गुंद । कुंडल्या कृत जलेबी । पड सुधीनी लापसी । मीठो मगद आछो माल निगद ॥ पछई चूरमा मेल्हैं । खांडनुं चूरमुं । साकर चूरमु । चूचूता चूरमा तल्या चूरमा । चूं.... चूरमा । घीगलित चूरमा । पछै चावल परंषै ते जिमस्यै । ते कुण कुण भेद सांभलता उपजइ उमेद । सुगंध शालि । सुवर्ण शालि, धोलीं शालि । राति शालि । पीली शाली। शुद्ध शालि । कमल (कलम) शालि । कौमुदी शालि कूकूणी शालि । कालो भात, जीमतां नहीं बात । मीठी शालि । रायभोगशालि । वली साठी चोखा । अखंड चोखा । बिहुअणीयाला चोखा । सुजाण स्त्रीइं खांड्या । चतुर स्त्रीइं सोह्यां । मृगाक्षीइं वीण्यां । उत्तम स्त्रीइं ओर्यां । चन्द्रवदनीइं स्त्रीइं उसाया । सुघड स्त्रीइं उतार्या । एहवी शालि परुषी ।। वली दालि केहकेहवी परुषी - मंडोवरा मगनी दालि। हरियामगनी दालि । काबलीचणारी दालि । ऊडदनी दालि । झालरनी दालि । मौठनी दालि । मसूरनी दालि ।
Page #21
--------------------------------------------------------------------------
________________
५६
वरणै पीली परिणामे शीली ।
वली ऊपरिं परिघल घी प्रीस्यां, पणि ते हवा
अनुसन्धान-५५
आजना ताव्या गायना घी, मजीठवरणा घी, सुरहा घी, नांकै पीवाई तेहैवा घी । हिवैइं पोली प्रीसी ते केहवी
आंबी (आछी?) पोली घीमांहि झबोली, खातां उपजइ मननी रली । कूंअला मांडा । अतिपहोला मांडा । वीसपोलीनो एक कवलीओ थाय । हिवै शाक प्रीस्या । ते कुण कुण स्याक ।
नीलडोडीनो शाक । टिंडोरीना
स्याक । टींडसीना० चीभडां० कोहलाना० कंकोडाना० करमदाना० मतीराना० केलाना० कूंआरिना पाठाना शाक । तोरीना० खडबूजाना स्याक । मोगरीना० तरबुजाना० वाल्होलिना० आंबलीना०
कर्पटाना० आवलाना० बोरना स्याक, वइंगणना स्याक । चौलानी फलीना० । गुवारनी फलीना० । सरघुवा फली । कचनार फली । सुंहिजणा फली सांगरीना० काचरीना० कमरना० कयरना फूलना. फोगना शाक ।
एहवा स्याक मूंक्या । हिंवई अथाणां मूकै
नीली मिरचना अथाणा । नीली पीपरिना अथाणा । आंबाना० । नींबुना० कैंरना० । वणकीकाठीना० । ओढबाणाना० । ल्हेसुआना० । तोरीना० । राईता अनेक मेहल्या ।
I
खाटा स्याक तमतमा स्याक । तल्या स्या० । वघार्या० ।
छमक्या स्या० ।
वली प्रीसी भाजी । ते केही केही भाजी ।
I
चीलनी भाजी, ते उपरि सहुनो मन राजी, सुरसुंनी भाजी
सोवानी० तांदलीबधुआना स्याक । चिणांरी मेथीनी० । मूली० चूका० । हिवई बडा प्रीस्यां, ते केहवा
मरिचाला बडा । तल्या० कोरवडा । कांजी बडा । घोल० दाल्या०
उडद्या० । घण तेलइं भीना । सर्वनई दीना ।
मिरचना घणा चमत्कार ।
अत्यंत सुकुमाल ।
Page #22
--------------------------------------------------------------------------
________________
मई २०११
८७
हाथई लीधा ऊच्छलइं । मुढइं घाल्या तुरत गलइं । ऊत्तरइं । घणु सु कहीइ, स्वर्गना देवदेवीना घणा मन टलवलइं ॥ हिवइं पलेव प्रीस्यइं । ते कहेवी - चोखानी पलेव, ज्वारीनी पलेव । बीजाहानी प० । हलद, मरिच सुंठई करि सहि(त) राई जीहाई करि सहित ॥ हवइ भोजन विचि पाणी आवइं । पीवाना पांणी आवइ ते केहवा - साकरना पांणी । द्राखना० पाडलीना पाणी । गंगाना० यमुनाना० । कपूरवासित० । एलचीवासित० । ताढा हिमजल० । हिवइ दहींना घोल आवै । ते केहवा – गायना दही । भैंसरा दही । सुथरा० । काठाजम्पा० । मधुरा दही । मथ्या० । वली सखरा घोल तेहना भर्या कंचोल । करसुं जीमतां होइ रंगरोल ॥ वली सुथरा आण्या करबा । भरि मूंक्या गरबा । मांहिं घणी राई । जीमता ढील नही काई । उपरि जीरा लूंण हलद तेहनो प्रतिवास । प्रीसणहारी पिण खास । हिवई चलुना पाणी आवै । ते केहवा केहवाफुलवासित पाणी । केवडावासित पाणी । कपुरवासित० । पाडलवासित पांणी । चंपावासित० । चंदनवासित० । एलचीवासित० । सुगंधवासित० । गंगोदक पांणीय चूलू कीधां पछई मूछण 3 ते केहवा – वांकडी सोपारीनी फाल । कथेरीसो० । चिवली सो० । मलवारी सोपारी । चूंटी सो० ।। तेह पण केसर कपूर वासित । वली लौंग । जावंत्री । जायफल । दालचीनी । एलची डोडा सुरंग नागरवेलिना पांन बीज घणा आदरनइ सन्मान घणा, गीतनै ग्यान, घणा तांनइ मान घणा वाजिब बाजै । पछइ भला वस्त्रनी पहिराणी करइ ।। ते केहवा वस्त्र - रत्नकंबल वस्त्र । पांभरी० ।
Page #23
--------------------------------------------------------------------------
________________ अनुसन्धान-५५ खीरोदक व० / अट्टाणव व० / खासामूल / चउतार सेला / कसवी वस्त्र / जरवाय / चीणी मसजस / कथीपा / सूपः / धीटः / पटः / टसरीया सिणीयाः / धोवती / भैरव कमरबेली थरमाः / नारी कुंजर प्रमुख पंचरंगी पागबागा पहिराव्या / उपर केसरिना छांटणा कीधा / भलाभला विलेप लगाव्या / बावन्ना चंदन विलेपः / वली सखरा चूआ चांपेल मोगरेल केवडेल फुलेल / जाइ जूही / कुंद मचकुंद / चांपो मरुओ मोगरो / दमणो केतकी / बौंलसिर प्रमुख फुल तेल / तेहना हार करी गलइ घाल्या पछइ कांनै वीरवली हाथइ बहिरखा मुहडी सोनारुपाना कणदोरा हाथना सांकला पगना सांकला प्रमुख पहिराव्या पछै वर्द्धमान नाम दीधोः / इति दसोटण विधि संपूर्णम् // C/o. सेवंतीलाल सी. शाह 6, वाराणसी सोसा., संभवनाथ जैन देरासर पासे हाई-वे, डीसा-३८५५३५