SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ मई २०११ तज्ज्ञानं मतिरत्र सा च विमला तद्दर्शनं तत्तपो यच्चाऽन्यद् वरशीलसंयुतमहो ! तद्धि प्रमाणं जने ॥११॥ वदनकुहुरनिर्यद्वह्नयोऽप्रत्नभीतिप्रदनयननिवेशा भीषणाकारनासाः । व्यथयितुमसमर्था एव तं यातुधाना यदुरसि शुचिशीलाख्यौषधी सुप्रधाना ॥१२॥ तावन्नुः प्रसरीसरि (री) ति सुयशः सच्चन्दनामोदवत् तावत् श्रीश्चरिकर्ति चात्र चरटेवाऽब्जेऽङ्गके खेलनम् । लोकाग्रे नरिनति तावदपि गी रङ्गे यथा नर्तकी यावत् शीलमिदं सुमित्रवदलं नो सन्निधिं संत्यजेत् ॥१३॥ शीलं स्वर्गधुनीसमुत्थजलवद् विश्वं पुनीतेऽमलं शीलं पापमपाकरोति निबिडं तापं यथा चन्दनम् । शीलं सर्वमलङ्करोति नियतं वर्ष्णेव सन्मण्डनं शीलं कामितमातनोति सुतरामर्घ्यं घुसद्रत्नवत् ॥१४॥ निर्मर्यादविवादसादनिधनाद्यानेकदुःखप्रदं वैरातङ्ककलङ्किताप्रभृतिकानर्थाय यत् केवलम् । तत् सन्त्यज्य कुशीलमुत्तमजनाः ! शीलं श्रयध्वं सदा यद्ध्यानादपि निर्वृतेः सुखमलं हस्त [स्थ ? ] वल्लभ्यते ॥१५॥ यत् (यः)शीलं न जहाति तद्धन इव प्राप्तं प्रयत्नाद्धनं शीलं पुष्यति यस्तु निर्वृतिकरं बीजी यथाऽपत्यकम् (?) । शीलं यः स्ववशीकरोति निजकं त्वध्यात्मविद्वन्मनः स स्तुत्यः सुधियां भवेद् यदि जगत्यत्राऽद्भुतं किं तदा ? ॥१६॥ यद् दु:पालमनुत्तराद् व्रतगणाद् यद्दानतो दुष्करं यत्तूग्रात् तपसोऽधिकं यदपि च स्वर्णाचलादुन्नतम् । आदर्शप्रतिबिम्बितादपि हि यद् दुर्ग्राह्यमाकारत स्तत् शीलं परिपालयेद्धि विरलः कश्चिद् भवेऽत्राङ्गवान् ॥१७॥ ये शीलं प्रविहाय सौख्यसदनं संसाररोगाऽगदं कृष्णव्यालकरालभोगविषमं वाञ्छन्ति भोगं भवे । मन्ये ते सुरपादपं प्रवितरन्निःशेषकामं परं हित्वा निन्द्यगराश्रयं हि कनकाभिख्यं भजन्ते द्रुमम् ॥१८॥ ३९
SR No.229572
Book TitleShilodahrutikalpavalli
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages23
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size272 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy