________________
मई २०११
दौर्गन्ध्यं नहि चन्दनेन सममंशौ(शो)स्तेजसा दुस्तमः सौजन्येन [च] दुर्जनत्वमपि नो वैश्य(ज्येन) मौढ्यं यथा । दैन्यं तूत्तमपुण्यजेन धरणीपालादिमानेन नो कौशील्यं कलुषेतरेण हि तथा शीलेन नो संमिलेत् ॥२६॥ वृत्तं नीरसमस्तवारि तु सरो भोज्यं निराज्यं पुनः निःपुण्यं जननं निरंहतिधनं वै निर्विचारं वचः । निर्नाथं सदनं निरक्षि वदनं निर्हेलि यद्वन्नभस्तद्वत् शीलविवजितं नहि विबाभात्यङ्गिनामङ्गकम् ॥२७॥ दौःशील्यान्न मतिः शुभेषु सुगतिर्नो नैव तत्त्वे रतिनँवाऽथाऽपरतिर्न चाऽपि विरतिर्लोल्यान्न तृष्णाक्षितिः । न श्लोकोन्नतिरुत्तरायतिरपि श्रेयो न सत्सन्ततिः किं कुत्राऽपि सुखं श्रुतं विषफलास्वादाद् बत प्राणिनाम् ? ॥२८॥ कपूरे हिमदीधितौ हलधरे हारे हरे सिन्धुरे सौरे चापि हये तुषारनिचय(ये) गौरीगुरौ शौक्तिके । गाने चाऽम्भसि चन्दने त्वुडुगणे कुन्दे च डिण्डीरके दीप्ति ह्येषु दधाति सन्ततमहो ! शीलस्य धर्तुर्यशः ॥२९॥ उग्रव्याघ्राकुरङ्गन्त्यतिविकटकरट्युत्करा वै तुरङ्गन्त्यौद्वत्यैकाग्रचिता निखिलखलजनाः सज्जनन्त्येव विष्वक् । अद्रीन्द्रा ग्रावखण्डन्त्यलघुजलधयो गोष्पदन्त्यग्नयोऽपि स्वैरं नीरन्ति शीलातिशयपरिणतेः प्राणभाजामजस्रम् ॥३०॥ ग्रावा लेखमणिः सुधाशनतरुः काष्टं पशुः कामधुक् सिन्धुश्चाऽपि जडात्मकः सरसिजं पङ्कोद्भवं श्रीश्चला । किट्ट धातुषु पुष्पजातिषु परिम्लानिर्विचाराऽसहं सर्वं वस्त्विति चैकमेव विशदं शीलं वयं मन्महे ॥३१॥ स स्तुत्यः स च माननीयवचनः सोऽनेकलब्ध्यास्पदं सोऽर्हत्शासनकज्जलध्वजसमः सोऽनिन्द्यविद्यानिधिः । सोऽगण्यामलसद्गुणैकजलधिः सोऽवाप्तधीशेवधिर्यः श्वेताम्बुजमध्यगां भगवती शीलाख्यलक्ष्मीं स्मरेत् ॥३२॥