________________
४२
अनुसन्धान-५५
उद्यच्चण्डमरीचिमण्डलरुचिप्रोद्दण्डपिण्डाधरीकारैकक्षमसर्वविश्वविलसत्प्रौढप्रतापाञ्चितम् । यल्लोकेऽत्र सुमाहिनं चिरतरं ह्यासाद्यते सम्पदा
साकं तत् खलु शीलकल्पतरुजं जानीत दिव्यं फलम् ॥३३॥ पाति प्रौढकषायवायुविचलन्नक्रेऽघकल्लोलके संसाराम्बुनिधौ पतज्जनभरान् यद् यानपात्रं यथा । यत् कैवल्यपुराऽध्वदर्शनविधौ सार्थोपमेयं च सत् तत् शीलं परिहृत्य को नु विभवी दुःशीलतामाश्रयेत् ?||३४|| ध्यायन्त्वादृतमानसाः सुमनसस्तं शीलमन्त्रं परं
यस्मान्नश्यति दुष्टदुर्जनकृतक्षुद्रप्रयोगादिकम् । यस्मात् तानि भवन्ति यानि सुखमाशालीनि सौख्यानि वै सिद्ध्याख्या वनिता स्वयं च वशगा यस्मात् समृद्ध्या समम् ॥३५॥ यः शैलोपमसामयोनिजयनप्रख्यातिमाप्तः क्षितौ
यः पञ्चाननदर्पपाटनपटुत्वेनाऽपि शोभामितः ।
यो वा वाजिगजादिसंकुलरणक्षोणीविजेताऽधिकं सोऽपीह व्रतराजिमुख्यमतुलं शीलं न धर्तुं प्रभुः ||३६|| श्रीसार्वागमशास्त्रसारकलनाकेलीगृहाः केऽप्यहो ! केचिदुर्दमवादिकुञ्जरकुलोन्माथैककण्ठीरवाः । छन्दोनाटककाव्यवित्तमजनोत्तंसास्तु केचिन्नरा ये शीलं हृदि धारयन्त्यनुदिनं ते सन्ति वै पञ्चषाः ॥३७॥ संख्यावत्संसदुर्वी तमनणुसुगुणावासमाशिश्रियेत त्वष्टारं पद्मिनीवद्दयितमिव सती कोकिलेवाम्रसालम् । हंसीवन्मानसं सन्मतिरिव विनयं श्रीरिवेन्द्रानुजं वै यः शीलं चिन्तितार्थप्रदमनुवदलं चिन्तयेदेकचित्तः ॥३८॥ वेत्ता सोऽत्राऽवसेयः स च विशदमतिः सोऽर्हतां पर्युपास्ते: कर्ता स प्राणिवग्रा (र्गा) द्यवनविधिपटुः सोऽमलध्यानधर्ता । उद्धर्ता वंशजानां स सकलशशभृज्ज्योतिराभप्रकीर्तिर्यः शीलावासमध्यात् क्षणमपि न बहिर्याति संत्यक्तलौल्यः ॥३९॥