SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ मई २०११ गर्जन्तस्तावदुच्चैर्विषयकरटिनः संस्थितिं कुर्वतां वै चित्तारामेऽभिरामेऽशमदमनिशितोद्दामदंष्ट्रोत्कटास्यं (स्यम् ? ) । रागद्वेषादिकश्वापदततिविजयावाप्तकीर्त्याह्ननादं तन्वन् श्रीशीलनामा मृगपतिरसमो नैति यावज्जिगीषुः ॥४०॥ सुन्दर्योऽपि सुधाभुजां हि यकया रूपश्रियाऽधः कृता राज्यद्धर्ज्या सममुग्रसेनतनुजां यस्त्यक्तवांस्तामपि । अब्दं दानमदात्तु रैवतनगेऽलासीत्तपस्यां च यो धुर्यः शीलवतां स नेमिजिनपो वः श्रेयसे भूयसे ॥४१॥ दद्यात् कस्य मुदं न चेतसि परां सा धारिणीकुक्षिभूर्यात्ताऽर्हन्नियमस्थितिं रथपदान्नेमिं दरीस्थं मुनिम् । दुर्ध्यानाम्बुधिनीरपूरनिपतन्तं प्रोद्दधाराऽऽशु वै स्वेरायुक्त्यभिधाननावमिव सत् शस्यां ददन्ती किल ॥४२॥ रक्षत्वत्र स वः शिवो नवतमः श्रीकुम्भभूपाङ्गभूर्मल्लिर्यः कमनं समूलमवधीद् रोषास्त्ररिक्तोऽपि हि । यस्तु प्राग्भवमित्रषट्कमतनौ मज्जत्कुरागाम्बुधौ पाति स्म प्रवरः सुशीलकलितानां विश्वभूमीस्पृशाम् ॥४३॥ अब्दद्वादशकं यथेच्छमनुभूतं येन वारस्त्रिया साकं प्रोक्तो दुष्करकृत्त्विति स्वगुरुभिस्तं स्थूलभद्रं स्तुमः ॥४४॥ दस्यूनां पञ्चशत्या प्रभव इति पुमान् प्राप यस्मात् प्रबोधं स्वर्णानां कोटिभिर्यो नवनवतिमिताभिर्जहौ चाऽष्ट बालाः । योऽलासीद् वाँजिपंक्षाशुगैमितमनुजैः साकमर्हत्तपस्यां स श्री जम्बुप्रभुर्नो कथमिह लभते शीलदृष्टान्तभावम् ? ॥४५॥ मात्रा यस्तु सुनन्दया धनगिरेः क्रन्दन् ददे खिन्नया बाल्येऽप्यागमपारगोऽत्र समभूद् श्रीसिंहगिर्यादरात् । श्यामाभिः प्रतिघस्रमुत्तमसमृद्ध्या प्रार्थमानो निजं शीलं नो विजहौ स वज्रगणभृद् भूयात् सतां समुदे ॥४६॥ १. पादद्वयं लेखकदोषात् पतितम् । प्रत्यन्तरादुपलब्धव्यम् । ४३
SR No.229572
Book TitleShilodahrutikalpavalli
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages23
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size272 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy