SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ४६ अनुसन्धान-५५ प्रच्छन्नं सुलसाकृतात् कपटतो याऽऽप्तापि दुर्व्यापदं कृत्वा तापसरूपमप्यतितरां घोरे वनेऽस्थादहो !। स्वं शीलं हि जुगोप चाऽऽप बहुलं सौख्यं पुनः पेशलं सा भूयादृषिदत्तिका मुनिजनैर्नुत्या मुदे वः सती ॥६१॥ यस्या रूपं पटस्थं प्रचुरतरगुणं वीक्ष्य लाम्पट्यदोषाच्चण्डप्रद्योतभूपे प्रबलबलवृतेऽप्यागते प्रार्थनार्थम् । कान्ते जाते परासावपि निजतनयऽणै(यं वै?) ररक्षैव या स्वं शीलं धीसंप्रयोगाद् भवतु बहुमुदे सा मृगावत्यजस्रम् ॥६२॥ प्रच्छन्नं कटकात् समेत्य दयिते रन्त्वा पुनः प्रस्थितेऽभिज्ञानेऽपि च दर्शिते श्वसुरकोऽरण्ये मुमोचैव याम् । तातेनाऽऽपि हि नाऽऽदृता गिरिनिकुञ्जेऽसूत पुत्रं हि या सौख्यं चाऽऽप शुभाय सा भवतु वः सत्यञ्जनासुन्दरी ॥६३।। किं कुर्वन् स भविष्यतीति बहुले शीते स्वदेव्या वचः श्रुत्वा श्रेणिकराड् रुषाऽऽकुलमनाः पप्रच्छ वीरं जिनम् । साध्वी चेटकभूपभूरथ नवेति स्वाम्यपि प्रोचिवान् सत्येवेति हि यां सदाऽस्तु सुमुदे सा चिल्लणा सुव्रता ॥६४॥ स्वामिंस्त्वं मृगयारसं खलु विमुञ्चेति स्वकीयं वचोऽकुर्वाणे सति शान्तनौ नरपतौ याऽगात् पुनः स्वं पदम् । अस्थाद् विंशतिवत्सराणि च चतुर्युक्तान्यहो कानने शीलं पालयति स्म निर्मलतमं गङ्गा सुखायाऽस्तु सा ॥६५॥ बह्वन्यायरतोऽपि चौरगणमुख्योऽपि प्र[म]त्तोऽपि च क्षोणीनायककान्तया निधुवनार्थं यः समभ्यर्थितः । दत्तान् सद्गुरुणा विमृश्य नियमांश्चित्ते स्वशीलव्रताद् भ्रष्टो नैव बभूव सोऽत्र जयतु श्रीवङ्कचूलो गृही ॥६६॥ यां मोक्तुं पितृमन्दिरे श्वसुरकोऽचालीन्निवेद्याऽग्रतः सूनो रात्रिभवं स्वरूपमखिलं मार्गे पुनर्निर्मलाम् । ज्ञात्वाऽऽगात् स्वगृहं शशंस च महन(त्)शीलं यया जिग्यिरे चत्वारः सचिवा जयत्वनुदिनं सा शीलवत्यङ्गना ॥६७॥
SR No.229572
Book TitleShilodahrutikalpavalli
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages23
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size272 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy