Book Title: Gajsukumal Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
Catalog link: https://jainqq.org/explore/600410/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ PlermeeDSSSSSSSSSSSSINES 00000000 ॥श्रीजिनाय नमः // (श्रीशुभशीलगणिविरचितं) // श्रीगजसकुमालचरित्रम् / / (द्वितीयावृत्तिः) छपावी प्रसिद्ध करनार पण्डित हीरालाल हंसराज (जामनगरवाळा) किंमत. रु. 0-7-0 वीर संवत् 2459 विक्रम संवत् 1989 @@@@@@@@@@@@@@@@elelo Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ 44% गजसु० चरित्रम A4%A4- // 1 // = // श्री जिनाय नमः // // श्री चारित्रविजयगुरुभ्यो नमः // // अथ श्रीगजसुकुमालचरित्रं प्रारभ्यते // (कर्ता-श्रीशुभशोलगणी) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज जामनगरवाळा) सहते चोपसर्गान् यो / जनः प्राणांतकारकान् // लभते निति गज-सुकमालयतीशवत् // भदिलाख्ये नगरे नागाभिधो जैनधर्मपरायणः श्रेष्ठी बभूव. तस्य च परमश्राविका जिनधर्मदेवगुरुभक्तिपरा शुद्धसम्यक्त्वशालिनी, वीरप्रभुणा स्वयं च प्रशस्यमाना सुलसाख्या प्रियासीत्. अथ द्वारिकाधीशवसुदे नृपपार्थात कंसेन याचितानां देवक्याः सप्तानामपत्यानां मध्यात् षट्पुत्रास्तेषां जन्मसमये केनचिद् देवेन प्रच्छन्नं संहृत्य तस्या नागश्रेष्ठिपल्ल्याः सुलसाया गृहे मुक्ता आसन्. सुलसया च ते पुत्रवत् पालिताः, क्रमेण यौवनं प्राप्तास्ते षडपि देवकीसुतास्तुल्याकारास्तुल्यरूपाश्च सुलसया प्रत्येकं द्वात्रिकन्याः ASIRECIES 1 // - - --- Page #4 -------------------------------------------------------------------------- ________________ चरित्रम // 2 // परिणायिताः. कियकालानंतरमेकदा तैः षड्भिरपि श्रीनेमिनाथप्रभोधर्मदेशना श्रुता, प्रतिबोधं प्राप्य गजसु० गृहीता च तैः श्रीपारमेश्वरी दोक्षा. क्रमेण चरमशरीरिणश्च ते सर्वेऽपि द्वादशांगपारिणो बमूवुः. अन्यदा भूमौ विहरंतस्ते षडपि मुनिवराः श्रीनेमिप्रभुणा सह द्वारिकानगयो समायाताः. अथान्यदा षष्ठतपःपारणदिने युगलिनो भूत्वा ते षडपि भ्रातृमुनयो गोचरचर्यार्थ नगरीमध्ये गताः. एवं भिक्षार्थं भ्रमतां तेषां / मध्यात् प्रथमं युगलं दैवयोगेन श्रीकृष्णगृहे संप्राप्तं. तदा हृष्टया देवक्योत्थाय वंदनपूर्वकं मोदकस्ता| ग्मं प्रतिलाभितं तस्मिन् साधुयुध्मे गते किंचित्समयांतरे द्वितीयमपि साधुयुगलं तत्रैव कृष्णगृहे भिक्षा-14 पर्थमायातं देवक्या च तथैव पूर्ववत्समुत्थाय वंदनपूर्वकं तदपि युगलं मोदकः प्रतिलाभितं, गतं च त दपि साधुयुगलं. इतः किंचित्कालनंतरे दैवयोगेन तृतीयमपि समानरूपं तुल्याकारं मुनियुगलं तत्रैव | भिक्षार्थं समायातं. तयुगलमपि पूर्ववन्मोदकैः प्रतिलाभ्य विस्मितमानसा देवकी तन्मुनियुगलंप्रति प्राह, भो मुनो ! युवां मुहुर्मुहुरत्रैव मदीयगेहे विहाँ कथं समायातौ ? युवयोः किं दिग्मोहो जातोऽस्ति ? A अथवा नगरीमध्येऽन्यगेहे वापि भिक्षा लभ्यमाना नास्ति ? अथवा के ममैव मतिभ्रमो जातोऽस्ति ? Page #5 -------------------------------------------------------------------------- ________________ 1- // 3 // A | तत् श्रुत्वा तत्साधुयुगलं प्राह, हे महासति ! नूनं तवैव मुधा दिग्मोहो जातोऽस्ति. यतो वयं षडपि गजसु०४ चरित्रम बांधवाः समानरूपास्तुल्याकाराश्च भदिलपुरवास्तव्यनागश्रेष्ठिसुलसाश्राविकयोः पुत्राः स्मः.... ____ अस्माभिश्च श्रीनेमिजिनेश्वरस्य धर्मदेशनां निशम्य वैराग्यतस्तस्य पावें दीक्षा गृहीतास्ति. वयं || दो द्वौ साधू मिलित्वा पृथक् पृथगेव भवत्या भाग्यवत्या गृहे भिक्षार्थं समायाताः स्मः. ततो हृष्टा देवकी स्वापराधक्षमा याचित्वा तो साधू वंदतेस्म. अथ तयोर्गमनानंतरं देवको दध्या, अमी षडाप साधवा नून कृष्णतुल्या दृश्यंते, तिलमात्रेणाप्येतेषां मुनीनां कृष्णस्य चांतरं न विलोक्यते, नूनमेते षडपि ममैव पुत्राः संभाव्यंते, किंच पूर्वमतिमुक्तमुनींद्रेणापि ममैवक्तमस्ति, यत्तव ते षडपि पुत्रा जीवंतः संति. इति संशयांदोलिता सा देवकी निजसंशयापनोदाय द्वितीयेऽह्नि श्रीनेमिप्रभुपाचे समायाता. तत्र प्रभुं / प्रणम्य देवको यावन्निजसंशयापनयनार्थ पृष्टुमिच्छति, तावन्निजज्ञानेन तदीयभावज्ञः प्रभुरेव तस्यै स्माह, भो देवकि ! एते पडपि शत्रुसेनाद्यास्तवैव सूनवः संति, देवेन सुलसाया गृहे मुक्तास्तत्र च वृद्धिं प्राप्ताः संति. तत् श्रुत्वा व्यपगतसंशयाऽतीवहृष्टा प्रस्रवत्स्तनी सा देव को तान् षडपि मुनीन् प्रत्येकं -CARCICE Page #6 -------------------------------------------------------------------------- ________________ * वंदतेस्म. ततः किंचित् खिन्नमानसा देवकी प्रभुं प्राह, हे स्वामिन् ! मयैषु तनयेषु मध्यादेकोऽपि नंदनो में गजसु०मा न लालितः, तेन मम मनस्यत्यंतं दुःखं जायते. तत श्रुत्वा भगवान् जगौ, भो देवकि ! त्वं मुधैव कथं चरित्रम P ताम्यसि ? इह जगति सर्वेऽपि प्राणिनः पुराकृतानि निजनिजकर्माण्येवानुभवंति, तवाप्यत्र पुरा कृतं क- // 4 // मैंवोदयमागतमस्ति, त्वया पूर्वभवे तव सपत्न्या रत्नानि हृतान्यासन्, तद्रत्नापहारतो दुःखं प्राप्ताया / अतीवरुदत्यास्तस्यास्त्वयैकं रत्नं पुनः समर्पितमासीत्. ततः प्रभुं प्रणम्य निजं प्राक्कृतं कर्म निंदंती सा देवकी निजगृहे समोगत्य विच्छायवदनाऽस्थात्. ईतस्तत्र समायातः कृष्णो निजमातरं विच्छायवदनां 4 निरीक्ष्यापृच्छत, भो मातः ! अद्य त्वं किं विच्छायवदना विलोक्यसे ? एवंविधा का चिंता तव हृदये वर्तते ? तदा देवकी तन्मनीनामागमनादिसकलं वृत्तांतं कृष्णाय निवेदयित्वा जगी, हे पुत्र ! एवं ममल जीवितं सर्वमेव निष्फलं जातं, यतः-त्वज्ज्येष्टान् सुलसा बाल्ये। यशोदा वामपालयत् // अपूर्यत न मे बाल-लालनस्य मनोरथः // 1 // वत्स तस्मादहं पुत्र-मीहे वांछितपूर्तये // बाललालनहषों हि / देवीनामपि दुर्लभः // 2 // एवं निजमातरं चिंतातुरां वीक्ष्य तामाश्वास्य कृष्णः प्राह, हे मातरेतद्विषये त्वया %AC% 83% Page #7 -------------------------------------------------------------------------- ________________ CPECCC गजसुत्युक्त्वा कृष्णेन द्रुत C खेदो न कार्यः, वासवध्वजिनीपतिं हरिणेगमेषिणं देवं समाराध्य नूनं तव मनोरथमहं पूरयिष्यामि. इ. चरित्रम त्युक्त्वा कृष्णेन द्रुतं तस्य देवस्याराधनं कृतं. तदा स हरिणैगमेषी देवः प्रकटीभृय कृष्णमाह, भो विष्णो ! नूनं देवक्यास्ते मातुरष्टमः पुत्रो भविष्यति, परं प्राप्ततारुण्यः स पुण्यात्मा प्रवज्यां गृहीष्यति. इत्युक्त्वा स देवो निजं स्थानं गतः. कृष्णेनापि स वृत्तांतो निजजनन्यै निवेदितः. ततः कियति काले व्यतिक्रांते कश्चिन्महर्डिको देवः स्वर्गाच्च्युत्वा तस्या देवक्याः कुक्षाववतीर्णः तदा तया देवक्या स्वप्ने / गजः प्रेक्षितः. क्रमेण संपूर्णसमये सा मनोहगकारं शुभलक्षणं सुतमेकमसूत. तस्य पुत्रस्य जन्मोत्सवं / कारयित्वा स्वप्नानुसारेण वसुदेवो " गजसुकुमाल” इत्यभिधानमदात्. अथ देवकी निजहृदयेऽत्यंतं हृष्टा / तं पुत्रं स्त्यन्यपानदानोत्संगारोपणादिना सुखेन वर्धयामास. क्रमेण मातापित्रोर्धातुश्च नेत्राणि प्रमोदयन्, मनोहरवचननि जल्पन् स गजसुकुमालकुमारो वृधि प्राप. ततः संप्राप्तयौवनोऽसो पितुगज्ञया महोत्स. वेन द्रुममहीपतेः प्रभावत्याख्या कन्यां परिणीतवान्. अथ तस्यामेव द्वारिकायां नगर्यामेकः सोमशर्माA भिधो द्विजो वसतिस्म, तस्य सोमाभिधानात्यंतं मनोहररूपलावण्योपेना तनयास्ति. E Page #8 -------------------------------------------------------------------------- ________________ गजसु० // 6 // 64 तातोऽन्यदा मातापितृभ्यां, कृष्णेन भ्रात्रा चाऽनिच्छन्नपि स गजसुकुमालो महताग्रहेण तया सोमाभिधया द्विजकन्ययासह परिणायितः. अथ दैवयोगेन तस्मिन्नेव दिने तस्या द्वारिकाया नगर्या बहिरु 15 चरित्रम याने श्रीनेमिनाथो भगवान् समवासार्षित, देवश्च मिलित्वा तत्र समवसरणं विहितं. सर्वे नागरिकाश्च प्र- // 6 // भोवंदनार्थ हर्षोत्फुल्लनयनास्तत्र समवसरणे समायाताः. वसुदेवसमुद्रविजयकृष्णादियादवा अपि सपरिवारा धर्मोपदेशमाकर्णयितुं श्रीनेमिप्रभोः पार्श्वे तत्र समवसरणे समाययुः. भगवानपि तत्र भव्यानां संसारसागरतरणनौनिभां धर्मदेशनामदात्, तद्यथा-निर्दतः करटी हयो गतजवश्चंद्रं विना शर्वरी निर्गधं कुसुमं सरो गतजलं छायाविहीनस्तरुः // रूपं निर्लवणं सुतो गतगुणश्चारित्रहीनो यति-निर्देवं भुवनं न राजति तथा धर्म विना पौरुषं // 1 // त्रिवर्गसंसाधनमंतरेण / पशोरिवायुर्विफलं नरस्य // तत्रापि धर्म प्रवरं वदति / न तं विना यद्भवतोऽर्थकामो // 2 // एवंविधां जिनेश्वरमुखादाविर्भूतां धर्मदेशनां श्रुत्वा वैराग्यवासितहृदयो गजसुकुमालो निजपितरावापृच्छय महताडंबरेण कृष्णकृतनिःक्रमणमहोत्सवः प्रभुः पाश्वे प्रव्रज्यां जग्राह. यतः-जह चयइ चकवट्टी। नियरजं पवित्थ मुहुत्तेण // न चयइ तहा अहन्नो। SEX. Page #9 -------------------------------------------------------------------------- ________________ USA द दुबुद्धी खप्परं दुमओ // 1 // ततः प्राप्तसंयमः स गजसुकुमालमुनि-दशांगपारीणः क्रमेण बहुश्रुतो जातः. चरित्रम सु० नित्यं षष्ठाष्टमदशमादि तीव्र तपः कुर्वाणोऽसौ मुनिनगराइहिः कायोत्सर्गस्थितो ध्यानपरः परमात्मलीनो , // 7 // भवति. ततोऽन्येयुः स गजसुकुमालो मुनिः प्रभुमापृच्छय सायं श्मशाने गत्वा शुभध्यानं ध्यायन् कायो- // 7 // त्सर्गेण तस्थौ. इतस्तत्राकस्मादागतेन दुष्टेन तस्य श्वशुरेण सोमशर्मद्विजेन तं कायोत्सर्गस्थं निजजामातरं गजसुकुमालमुनिं दृष्ट्वा क्रोधाभिमृतेनेति ध्यातं, अरे ! अयं पापी गजसुकुमालो मदीयां पुत्री परिणीय तत्कोलमेव तां परित्यज्य दीक्षां गृहीत्वा मुधैव विडंबयामास. इति चिंतयन् क्रोधोद्धतः स द्विजाधमस्तत्र कायोत्सर्गस्थितस्य तस्य गजसुकुमालमनेर्मस्तकोपरि शकटयाकारमेकं घटीकंठं मुमोच. ततस्तत्र ज्वलंत्याश्चिताया ज्वलदंगारकानानीय स तैस्तं घटोकंठं बिभरांमास. ततो द्रतमेव ततः पलाय्य स निजगृहे समायातः. इतः कायोत्सर्गध्यानस्थितस्य तस्य गजसुकुमालमुनेस्तैज्वलदंगारैः सर्वाणि कमेंधनानि तथा दग्धानि, यथा क्षणमात्रादेव स केवलज्ञानमासाद्य मुक्तिधामनि ययो. अथ प्रभाते देवक्यादिपरिवारयुतः कृष्णः प्रभुं नंतुं समाययो, परं तत्र तं गजसुकुमालमुनिमनीक्ष्योत्सुकीभूतः स प्रभुं पप्रच्छ, हे Page #10 -------------------------------------------------------------------------- ________________ गजसु० चरित्रम // 8 // स्वामिन् ! स मे भ्राता गजसुकुमालो मुनिः क्वास्ति ? अहं सपरिवारस्तं बंदितुमिच्छामि. तदा प्रभुणा प्रोक्तं, भो कृष्ण ! तस्य तव भ्रातुर्द्वि जसाहाय्येन निर्वाणमभृत. एवं वज्रप्रहारोपमं प्रभुवचनं निशम्य मोहमुढः कृष्णादिपरिवारो द्रुतं मूर्छितः. कियत्समयानंतरं पुनर्लब्धचैतन्योऽश्रुपूर्णनयनः कृष्णः पुनः प्रभु पप्रच्छ, हे भगवन् ! तस्य मम भ्रातुर्मुनेः कथं निर्वाणं जातं ? प्रभु प्राह, भो कृष्ण ! नूनं तस्य महामुने ढिंजस्य सहायेन निर्वाणमभूत. श्मशाने कायोत्सर्गध्यानस्थितस्य तस्य मस्तके तेन द्विजेन ज्वलदंगारभृता शकटी मुका, तेन तस्य तुर्णमेव कर्मक्षयादंतकृत्केवलित्वेन निर्वाणमभूत. यदि स द्विजोऽधुना तस्यैवंविधं सहायं नाऽकरिष्यत्, तदा बहुकालेन कष्टात्कर्मक्षयोऽभविष्यत. अथायेव त्वया मार्गे समागच्छता देवकुलिकानिर्मापणार्थमेकैकामिष्टिका वहन द्विजो दृष्टः, तदा त्वयापि तस्य सहायार्थमेकेष्टिका तत्रानीता. तद दृष्टा तव सर्वेणापि परिवारेण तत्रकैकेष्टिका समानीता. एवं तत्र समूहीभृताभिस्ताभिरिष्टिकाभिस्तस्य द्विजस्य क्षणमात्रेण देवकुलिका निष्पन्ना, एवं च तस्य द्विजस्येष्टिकावहनकार्य तव सहायेन समाप्तं. तथा तस्य गजसुकुमालमुनेरपि तस्य द्विजस्य सहायेन सर्वकर्मक्ष Page #11 -------------------------------------------------------------------------- ________________ यातूर्ण निर्वाणमभृत. अथ तस्य द्विजस्योपरि त्वया कोपो न कार्यः. तत् श्रुत्वा कृष्णेन पुनरपि भगवते गजसु० चरित्रम पृष्टं, हे भगवन् ! किनामा स द्विजोऽस्ति ? तदा प्रभुणा प्रोक्तं, भो कृष्ण ! अयैव प्रतोल्यां प्रविशंतं त्वा वीक्ष्याकस्मादेव भयभीतस्य यस्योदरस्फोटात्तत्रैव मरणं भविष्यति, स एव द्विजस्त्वया गजसुकुमालमुनेनिर्वाणसहायकर्ता ज्ञेयः. ततः कृष्णेन सकुटुंबेन तस्य गजसुकुमालमुनेः शरीरस्य बहुविलापपुरस्सर मग्निसंस्कारो विहितः. ततः प्रभुणा शांतरसमयधर्मदेशनया कृष्णादीनां शोको दूरीकृतः. ततो देवक्या12 दियुतः कृष्णस्ततो निःसृत्य पुरीप्रति गंतुं प्रवृत्तः, इतः प्रतोल्यां सन्मुखमागच्छन् स विप्रः कृष्णमागच्छं। तं विलोक्य भयभीतो हृदयस्फोटात्तत्रैव मृतः, एवमकस्मात्तं विप्रं मृतं दृष्ट्वा कृष्ण उपलक्षयामास. ततस्तस्य विप्रस्य चरणयोर्दवरकं बंधयित्वा तेन तस्य तच्छवं पुरमध्ये घर्षणपूर्वकं भ्रामितं, पटहो वादितश्च यः कोऽप्यतः परं यतीनां घातं करिष्यति, स मयैवं विगोपयिष्यते. अथ पुत्रवियोगेन देवकी बहु विलापमकरोत्, परं प्रभुणा धर्मदेशनया प्रतिबोधितासाप्यनित्यभावनां भावयामास.॥ इति इतिक्षमाफलोपदर्शने श्रीगसुकुमालमुनिचरित्रं समाप्तं // श्रीरस्तु // OCOCCASCRIBE 4% BE Page #12 -------------------------------------------------------------------------- ________________ गजसु० चरित्रम् // 10 // आ ग्रंथ श्री जामनगर निवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे श्री शुभशीलगणीजीए रचेला कथाकोषमाथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारो करीने पोताना श्री जैनभास्करोदय छापखानामा छापी प्रसिद्ध कयों छे. // समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजय सुप्रसादात् // श्रीरस्तु // CBSE HEALTAISTA HIAS X -52C. आ ग्रंथना प्रसिद्ध करनारे ग्रंथ प्रसिद्ध करवाना तथा छापवाना दरेक हक पोताना स्वाधीनमा राख्या छे. Page #13 -------------------------------------------------------------------------- _ Page #14 -------------------------------------------------------------------------- ________________ 0800881808888980088c 45454545454545454545454545454545454545454545454545 // इति श्री गजसकमालचरित्रं समाप्तम् // 414514614514614545454545454545455456457441451461454545454545 श्री जैनभास्करोदय प्रिन्टिंग प्रेसमां छाप्यु-जामनगर. beebeesses