________________ गजसु० चरित्रम // 8 // स्वामिन् ! स मे भ्राता गजसुकुमालो मुनिः क्वास्ति ? अहं सपरिवारस्तं बंदितुमिच्छामि. तदा प्रभुणा प्रोक्तं, भो कृष्ण ! तस्य तव भ्रातुर्द्वि जसाहाय्येन निर्वाणमभृत. एवं वज्रप्रहारोपमं प्रभुवचनं निशम्य मोहमुढः कृष्णादिपरिवारो द्रुतं मूर्छितः. कियत्समयानंतरं पुनर्लब्धचैतन्योऽश्रुपूर्णनयनः कृष्णः पुनः प्रभु पप्रच्छ, हे भगवन् ! तस्य मम भ्रातुर्मुनेः कथं निर्वाणं जातं ? प्रभु प्राह, भो कृष्ण ! नूनं तस्य महामुने ढिंजस्य सहायेन निर्वाणमभूत. श्मशाने कायोत्सर्गध्यानस्थितस्य तस्य मस्तके तेन द्विजेन ज्वलदंगारभृता शकटी मुका, तेन तस्य तुर्णमेव कर्मक्षयादंतकृत्केवलित्वेन निर्वाणमभूत. यदि स द्विजोऽधुना तस्यैवंविधं सहायं नाऽकरिष्यत्, तदा बहुकालेन कष्टात्कर्मक्षयोऽभविष्यत. अथायेव त्वया मार्गे समागच्छता देवकुलिकानिर्मापणार्थमेकैकामिष्टिका वहन द्विजो दृष्टः, तदा त्वयापि तस्य सहायार्थमेकेष्टिका तत्रानीता. तद दृष्टा तव सर्वेणापि परिवारेण तत्रकैकेष्टिका समानीता. एवं तत्र समूहीभृताभिस्ताभिरिष्टिकाभिस्तस्य द्विजस्य क्षणमात्रेण देवकुलिका निष्पन्ना, एवं च तस्य द्विजस्येष्टिकावहनकार्य तव सहायेन समाप्तं. तथा तस्य गजसुकुमालमुनेरपि तस्य द्विजस्य सहायेन सर्वकर्मक्ष