________________ यातूर्ण निर्वाणमभृत. अथ तस्य द्विजस्योपरि त्वया कोपो न कार्यः. तत् श्रुत्वा कृष्णेन पुनरपि भगवते गजसु० चरित्रम पृष्टं, हे भगवन् ! किनामा स द्विजोऽस्ति ? तदा प्रभुणा प्रोक्तं, भो कृष्ण ! अयैव प्रतोल्यां प्रविशंतं त्वा वीक्ष्याकस्मादेव भयभीतस्य यस्योदरस्फोटात्तत्रैव मरणं भविष्यति, स एव द्विजस्त्वया गजसुकुमालमुनेनिर्वाणसहायकर्ता ज्ञेयः. ततः कृष्णेन सकुटुंबेन तस्य गजसुकुमालमुनेः शरीरस्य बहुविलापपुरस्सर मग्निसंस्कारो विहितः. ततः प्रभुणा शांतरसमयधर्मदेशनया कृष्णादीनां शोको दूरीकृतः. ततो देवक्या12 दियुतः कृष्णस्ततो निःसृत्य पुरीप्रति गंतुं प्रवृत्तः, इतः प्रतोल्यां सन्मुखमागच्छन् स विप्रः कृष्णमागच्छं। तं विलोक्य भयभीतो हृदयस्फोटात्तत्रैव मृतः, एवमकस्मात्तं विप्रं मृतं दृष्ट्वा कृष्ण उपलक्षयामास. ततस्तस्य विप्रस्य चरणयोर्दवरकं बंधयित्वा तेन तस्य तच्छवं पुरमध्ये घर्षणपूर्वकं भ्रामितं, पटहो वादितश्च यः कोऽप्यतः परं यतीनां घातं करिष्यति, स मयैवं विगोपयिष्यते. अथ पुत्रवियोगेन देवकी बहु विलापमकरोत्, परं प्रभुणा धर्मदेशनया प्रतिबोधितासाप्यनित्यभावनां भावयामास.॥ इति इतिक्षमाफलोपदर्शने श्रीगसुकुमालमुनिचरित्रं समाप्तं // श्रीरस्तु // OCOCCASCRIBE 4% BE