________________ 1- // 3 // A | तत् श्रुत्वा तत्साधुयुगलं प्राह, हे महासति ! नूनं तवैव मुधा दिग्मोहो जातोऽस्ति. यतो वयं षडपि गजसु०४ चरित्रम बांधवाः समानरूपास्तुल्याकाराश्च भदिलपुरवास्तव्यनागश्रेष्ठिसुलसाश्राविकयोः पुत्राः स्मः.... ____ अस्माभिश्च श्रीनेमिजिनेश्वरस्य धर्मदेशनां निशम्य वैराग्यतस्तस्य पावें दीक्षा गृहीतास्ति. वयं || दो द्वौ साधू मिलित्वा पृथक् पृथगेव भवत्या भाग्यवत्या गृहे भिक्षार्थं समायाताः स्मः. ततो हृष्टा देवकी स्वापराधक्षमा याचित्वा तो साधू वंदतेस्म. अथ तयोर्गमनानंतरं देवको दध्या, अमी षडाप साधवा नून कृष्णतुल्या दृश्यंते, तिलमात्रेणाप्येतेषां मुनीनां कृष्णस्य चांतरं न विलोक्यते, नूनमेते षडपि ममैव पुत्राः संभाव्यंते, किंच पूर्वमतिमुक्तमुनींद्रेणापि ममैवक्तमस्ति, यत्तव ते षडपि पुत्रा जीवंतः संति. इति संशयांदोलिता सा देवकी निजसंशयापनोदाय द्वितीयेऽह्नि श्रीनेमिप्रभुपाचे समायाता. तत्र प्रभुं / प्रणम्य देवको यावन्निजसंशयापनयनार्थ पृष्टुमिच्छति, तावन्निजज्ञानेन तदीयभावज्ञः प्रभुरेव तस्यै स्माह, भो देवकि ! एते पडपि शत्रुसेनाद्यास्तवैव सूनवः संति, देवेन सुलसाया गृहे मुक्तास्तत्र च वृद्धिं प्राप्ताः संति. तत् श्रुत्वा व्यपगतसंशयाऽतीवहृष्टा प्रस्रवत्स्तनी सा देव को तान् षडपि मुनीन् प्रत्येकं -CARCICE