________________ चरित्रम // 2 // परिणायिताः. कियकालानंतरमेकदा तैः षड्भिरपि श्रीनेमिनाथप्रभोधर्मदेशना श्रुता, प्रतिबोधं प्राप्य गजसु० गृहीता च तैः श्रीपारमेश्वरी दोक्षा. क्रमेण चरमशरीरिणश्च ते सर्वेऽपि द्वादशांगपारिणो बमूवुः. अन्यदा भूमौ विहरंतस्ते षडपि मुनिवराः श्रीनेमिप्रभुणा सह द्वारिकानगयो समायाताः. अथान्यदा षष्ठतपःपारणदिने युगलिनो भूत्वा ते षडपि भ्रातृमुनयो गोचरचर्यार्थ नगरीमध्ये गताः. एवं भिक्षार्थं भ्रमतां तेषां / मध्यात् प्रथमं युगलं दैवयोगेन श्रीकृष्णगृहे संप्राप्तं. तदा हृष्टया देवक्योत्थाय वंदनपूर्वकं मोदकस्ता| ग्मं प्रतिलाभितं तस्मिन् साधुयुध्मे गते किंचित्समयांतरे द्वितीयमपि साधुयुगलं तत्रैव कृष्णगृहे भिक्षा-14 पर्थमायातं देवक्या च तथैव पूर्ववत्समुत्थाय वंदनपूर्वकं तदपि युगलं मोदकः प्रतिलाभितं, गतं च त दपि साधुयुगलं. इतः किंचित्कालनंतरे दैवयोगेन तृतीयमपि समानरूपं तुल्याकारं मुनियुगलं तत्रैव | भिक्षार्थं समायातं. तयुगलमपि पूर्ववन्मोदकैः प्रतिलाभ्य विस्मितमानसा देवकी तन्मुनियुगलंप्रति प्राह, भो मुनो ! युवां मुहुर्मुहुरत्रैव मदीयगेहे विहाँ कथं समायातौ ? युवयोः किं दिग्मोहो जातोऽस्ति ? A अथवा नगरीमध्येऽन्यगेहे वापि भिक्षा लभ्यमाना नास्ति ? अथवा के ममैव मतिभ्रमो जातोऽस्ति ?