________________ * वंदतेस्म. ततः किंचित् खिन्नमानसा देवकी प्रभुं प्राह, हे स्वामिन् ! मयैषु तनयेषु मध्यादेकोऽपि नंदनो में गजसु०मा न लालितः, तेन मम मनस्यत्यंतं दुःखं जायते. तत श्रुत्वा भगवान् जगौ, भो देवकि ! त्वं मुधैव कथं चरित्रम P ताम्यसि ? इह जगति सर्वेऽपि प्राणिनः पुराकृतानि निजनिजकर्माण्येवानुभवंति, तवाप्यत्र पुरा कृतं क- // 4 // मैंवोदयमागतमस्ति, त्वया पूर्वभवे तव सपत्न्या रत्नानि हृतान्यासन्, तद्रत्नापहारतो दुःखं प्राप्ताया / अतीवरुदत्यास्तस्यास्त्वयैकं रत्नं पुनः समर्पितमासीत्. ततः प्रभुं प्रणम्य निजं प्राक्कृतं कर्म निंदंती सा देवकी निजगृहे समोगत्य विच्छायवदनाऽस्थात्. ईतस्तत्र समायातः कृष्णो निजमातरं विच्छायवदनां 4 निरीक्ष्यापृच्छत, भो मातः ! अद्य त्वं किं विच्छायवदना विलोक्यसे ? एवंविधा का चिंता तव हृदये वर्तते ? तदा देवकी तन्मनीनामागमनादिसकलं वृत्तांतं कृष्णाय निवेदयित्वा जगी, हे पुत्र ! एवं ममल जीवितं सर्वमेव निष्फलं जातं, यतः-त्वज्ज्येष्टान् सुलसा बाल्ये। यशोदा वामपालयत् // अपूर्यत न मे बाल-लालनस्य मनोरथः // 1 // वत्स तस्मादहं पुत्र-मीहे वांछितपूर्तये // बाललालनहषों हि / देवीनामपि दुर्लभः // 2 // एवं निजमातरं चिंतातुरां वीक्ष्य तामाश्वास्य कृष्णः प्राह, हे मातरेतद्विषये त्वया %AC% 83%