Page #1
--------------------------------------------------------------------------
________________
ऑगस्ट २०११
अष्टोत्तरशतसंवर शब्दार्थगभितं खोपज्ञाऽवचूर्णि चर्चितम् श्री अभिनन्दनजिनस्तोत्रम्
-पं. अमृत पटेल
शब्दालङ्कारमण्डित चित्रकाव्योनी पाण्डित्यपूर्ण परम्पराने गीर्वाणगिरानुं ओक आगq घरेणुं कही शकाय. तेमां जोके भावनी भव्यता ओछी अने भाषानी भभक चमक-दमक वधारे. छतां भाषानी चमत्कृति पण कर्ताना पाण्डित्यने वधु उजागर करे.
हृद्य अने आस्वाद्य भावभङ्गिमाथी परिपूर्ण काव्यो, महाकाव्यो, स्तुति स्तोत्रो वगेरेमां जैन मनीषिओ- जेम योगदान छे. तेम शब्दालङ्कार अलङ्कत काव्यो-खास करीने स्तुति-स्तोत्रोमां पण योगदान' छे. तेमां सोमविमलेसूरिनुं प्रस्तुत अभिनन्दन जिनस्तोत्र पण ध्यान खेंचे छे. आ स्तोत्र तेमज षोडशोत्तर 'कमल' शब्द गर्भित चतुर्विंशति जिनस्तुति (पद्य २९) ने कारणे 'शतार्थी' बिरुद प्राप्त सोमविमलसूरिजीओ कुष्टनिवारण कर्यु हतुं, ओवा उल्लेखने प्रस्तुत स्तोत्रना २७मां पद्यनो आधार सांपडे छे. । विविध छन्दोबद्ध २८ पद्यनां प्रस्तुत अभिनन्दनजिनस्तोत्रमा संवरशब्दनो
१०८ वार प्रयोग थयो छे. तेमां चित्रकाव्य माटे सर्जकोने प्राप्त थयेल स्वतन्त्रतानो उपयोग करीने आचार्यश्रीओ - र/ल, ब/व, ड/ल, श/स ने एक मानीने तथा अनुस्वार होवा छता शब्दने निरनुस्वार मानीने, संवर शब्दमांथी संवर-शंवल, शंबर-शंबल-सबल-संवल शबर-शबल-सवरसबल, वर-बल वगेरे शब्दो सिद्ध कर्या छे. अनेकार्थ कोषो अने बे अर्थो
वच्चेना सम्बन्धोना सन्दर्भथी नवा अर्थोनो आविष्कार कर्यो छे. - श्री लालभाई दलपतभाई भारतीयविद्यामन्दिर - अमदावादना हस्तप्रत विभागमां भेटसूचि ६१६१ नम्बरनी त्रिपाठयुक्त प्रतनां ६/१-७/६ नम्बरनां पत्रोमां कर्ताओ पोते ज सचंबिलनगरमा वि.सं. १६५६नां मृगशीर्ष मासमां प्रस्तुत कृति लखी छे.
प्रस्तुत कृतिनी स्वोपज्ञ अवचूर्णिमां कर्ताओ स्वयं ज संवर शब्दना
Page #2
--------------------------------------------------------------------------
________________
अनुसन्धान-५६
विविध अर्थो समजाव्या छे, छतां वधु स्पष्टता माटे जरूर जणाई त्यां [ ] चतुष्कोण कोष्टकमां अर्थो के समासो आपवामां आव्या छे. अनेकार्थकृतिना सम्पादननो मारो प्रथम प्रयास छे. अटले क्षतिनी सम्भावना सहज छे. अटले सुज्ञ-सहृदयी जनो मारी सम्भवित क्षति माटे क्षमा करे, अने क्षतिनिर्देश करे.
॥ श्री गुरुभ्यो नमः ॥
वाणी वाणीमियं दद्यात्, स्वरद्वन्द्वविपर्ययाम् । तामेव बिभ्रती ज्ञालीं प्रपूर्वां तां च कुर्वती ॥१॥
। [वीणां बिभ्रती, प्रज्ञाली कुर्वती] अवचूर्णिः
शारदां शारदां नत्वा, शारदेन्दुसमप्रभाम् । अभिनन्दनजिनस्तोत्राऽवचूर्णि रचयाम्यहम् ॥२॥ नाऽत्र स्तोत्रे भेदो, विशेषः सकलशास्त्रकुशलनरैः ।
डलयो र्ब-वयोः र-लयो ऽनुस्वारोपि भङ्गाय ॥३॥ यत उक्तं वाग्भट्टालङ्कारे
"यमक-श्लेष-चित्रेषु, ब-वयो ई-लयोभित्(र्न भित्) ।
नाऽनुस्वार-विसर्गौ तु चित्रभङ्गाय सम्मतौ ॥४॥ (वाग्भरु० १/२०) वृद्धपञ्चवर्गपरिहारनाममालायां च यथा -
"भेदो न च विज्ञेयश्-चित्र-श्लेषोपयोगिकाव्येषु ।
ब-वयोर्ड-लयो -ओ-जयो न-णयो र्य-जयोः क्वचित् श-ययोः" ॥५॥ तथा च पूर्वकविः
वयमपि, परेऽपि कवयस्तथापि महदन्तरं परिज्ञेयम् । र-लयोरैक्यं यद्यपि, तत् किं कलभायते करभः ॥६॥ तथाहमपि । अथ केचिद् विषमपदपर्यायाः, लिख्यते(न्ते) मया मुग्धजनबोधाय । वाणी० इयं 'वाणी' भारती, मे मम, वाणीं वचनपद्धतिं दद्यात् । किं
Page #3
--------------------------------------------------------------------------
________________
ऑगस्ट २०११
कुर्वती ? – बिभ्रती, कां? - तां वाणी, परं किम्भूताम् ? – 'स्वरद्वन्द्वविपर्ययाम्' स्वरयुगविपर्यातां वीणामित्यर्थः । पुनः किं कुर्वती ? - कुर्वती, कां प्रति ? - ज्ञाली बुधालीम्, किंभूतां ? - प्रपूर्वां, तां ज्ञाली कुर्वती, प्रज्ञालीमित्यर्थः ॥१॥
श्रहेमविमलसंवरममलं संवरधरं गुरुं नत्वा ।
श्रीसंवरनृपसंवर-नेत्री संवरभवं स्तौमि ॥२॥
अवचूर्णि:- श्रीहेम० अहं स्तौमि, कं प्रति ? - 'श्रीसंवरनृपः' संवराभिधानः श्रीअभिनन्दजिनदेवजनकः, तस्य 'संवरनेत्री' [कमलनयना सौन्दर्यवती इत्यर्थः] प्रिया, तस्याः संवरभवं [तनूद्भवं] पुत्रं, श्रीअभिनन्दनमित्यर्थः । किं कृत्वा ? - नत्वा, कं ? - 'गुरुम्, किंभूतम् ? - श्रीहेमविमलसंवरम् - श्रिया हेमवत् सुवर्णवत् विमलम् संवरं शरीरं यस्य सः, श्रीहेमविमलसूरे निजगुरोरभिधानमपि सूचितम्, पुनः किंभूतम् ? - संवरधरम् आश्रवत्यागरूपम् - अमलसंवरधरमित्यर्थः ॥२॥
वरसंवरज-समानं मुखसंवरजं विभाति यस्य विभोः ।
पदसंवरजं तस्य च करोम्यहं हृदयसंवरजे ॥३॥
अव० वरसं० - यस्य विभोः मुखं संवरजं [=जलजं] मुखकमलम् [वि] भाति । किंभूतम् ? - वरं प्रधानं संवरजं, संवरं जलं, तस्माज्जातं संवरजं कमलम्, तत्समानं सदृशमित्यर्थः, पदकमलं तस्य जिनस्य हृदयकमले करोमिइत्यर्थः ॥३॥
संवरवाहनिनादं संवरनिधिसंवराभशुद्धतरम् । संवरजसकलवदनम्, गीतं संवरजनयनाभिः ॥४॥ संवरजजनित-संवरशायिक-संवरदवाहनैः सेव्यम् । संवरजपुत्रपुत्री-संवरभवमन्दिरापूज्यम् ॥५॥ असंवरवराकारं संवरधिजशुद्धगुणगणागारम् । संवरजबन्धुसदृशप्रतापमीशं वरं वन्दे ॥६॥ [त्रिभिविशेषकम्]
अव० - आर्यात्रयेण सम्बन्धः, ईशं स्वामिनं वरं प्रधानं वन्दे, किं भूतं? - संवरवाहो जलदः, तद्वन्निनादो शब्दो यस्य, तम् । संवरनिधिः [जलनिधिः] सागरस्तस्य संवरं जलं तदाभं तत्सदृशं शुद्धतरं निर्मलतरम् ।
Page #4
--------------------------------------------------------------------------
________________
अनुसन्धान-५६
"सायर सलिलं व सुद्धहिययं [] इति वचनात् । संवरजश्चन्द्रः, तद्वत् कलया सहितं वदनं यस्य तं [स-कलेन्दुवदनं], कमलनयनाभिः कामिनीभिः गीतं स्तुतम् ॥४॥
__ संवरज० संवरजजनितः कमलभूर्ब्रह्मा,संवरशायी नारायणः, संवरदवाहनो जलदवाहनो महेशः, तैः सेव्यः, तम् । संवरजपुत्र-पुत्री [कमल-पुत्र [ब्रह्मापुत्री]शारदा, संवरभवमन्दिरा कमलमन्दिरा लक्ष्मीः । तया [ताभ्यां] पूजितः तम् ॥५॥
असंवर० न विद्यते संवरं शरीरं यस्य सः असंवरः [अनङ्गः] कन्दर्पः, तद्वद् वरः प्रधान आकारो यस्य सः-असंवर-वराकारः, तम् । संवरधिः समुद्रः, ततो जातश्चन्द्रः, तद्वद् विमलगुणसमूहगृहम् । संवरजबन्धुः कमलबन्धुः सूर्यः, तत्सदृशः प्रतापो यस्य सः, संवरजबन्धुसमानप्रतापः तम् ॥६॥
संवरसमानगुणभृत्, कषायसंवरविताशने कृष्णः ।
कर्मकरिसंवराऽरिः संवरनयनो जिनो जीयात् ॥७॥
अव० शवरो हरः, तत्समानशुभत्वात् गुणधारकः । कषाय एव शंबरः [शंबरनामा दैत्यः] कषायशम्बरः, कषायशम्बरस्य विनाशः, तस्मिन् कषायसंवरविनाशने, कृष्णः नारायणो शबरो दैत्यभेदः । कर्म चासौ करि(री) कर्मकरी, तस्मिन् कर्मगजे शम्बरारिः मृगारिः सिंहः । संवरनयनो मृगनयनो जिनस्तीर्थाधिपो जीयात् ॥७॥
जय जिन ! संवरवारक ! भवसंवरराशिसंवरे प्राप्तः ।
संवरमदवरगन्धः संवरजनबोधिदो देवः ॥८॥
अव० जय हे जिन ! त्वं जय, हे शम्बरवारक ! मत्सरवारक!, त्वं किम्भूतः ? - प्राप्तः, कस्मिन् विषये ? - संसारसंवरराशिः [जलराशिः] समुद्रः, तस्य शवरे तटे [शबले], शंबरमदो मृगमदः, तत्समानवरो रुचिरो गन्धो यस्य सः, शम्बरजन[बोधिदः]म्लेच्छजनप्रतिबोधकः, देवः ॥८॥
संवरया रहितो दशशतसंवरजसंवरं प्राप्य । संवरजासनसंस्थो ध्यानमकार्षीत् श्रिये सोऽस्तु ॥९॥
Page #5
--------------------------------------------------------------------------
________________
ऑगस्ट २०११
अव० य: सः, शंवरया मृगया, आखेटकक्रिया, [तया] रहितः, दशशत संवरजः सहस्रकमलः [ सहस्रदलकमलं इव इति ] शत्रुञ्जयशंवरं [ शत्रुञ्जयाख्यं ] गिरिं प्राप्य लब्ध्वा, [संवरजासनसंस्थः] पद्मासनस्थो ध्यानं लयरूपं यः अकार्षीत्, स श्रियेऽस्तु ॥९॥
यो विस्संवररहितं तथैव संवरयुतं सुसाधूनाम् । मार्गं कथयति विससंवरैर्नुतः संवरस्त्वमसः ॥१०॥
यो विस्सं [विगत: 'स्' इति वर्णः यस्मात् तद्' विस्, इति] यः विगत:[त] सूच्यङ्काररहितः, भू (?) रहितव्यञ्जनो यस्मात्, तद्धि संवरं एतावता अम्बरं इति स्थितम्, यो जिनः अम्बररहितं वस्त्ररहितं जिनमार्गकल्पं, तथैव पूर्ववद् संवरसहितं वस्त्रसहितं स्थविरकल्परूपं मार्गं साधूनां कथयति प्रकाशयति, पुनः किंभूतो ? नुतः स्तुत:, कै: ? विससंवरैः विगतो गतः सवर्णो यस्मात् । [विस:, विसश्चासौ संवर इति ] विस - संवरः, एतावता 'सं' अक्षररहितः वरः बलः इति तन्नामको दैत्यः, विनष्टः बल: यैः ते विस-संबला: देवेन्द्राः तैः, किंविशिष्टः ? – 'असंवरः [ अशरीर : ], असः नसः [ न विद्यते सं यत्र ] एतावता प्रधानः ॥१०॥
असः
-
जय जिन ! संवरवैरिजि-दपूर्वसंवरविनाशकैर्विनतः । विसमोहसंवरारे ! विसमदसंवरमहासेनः ॥११॥
४३
अव० जय० हे जिन त्वं जय, हे संवरवैरिजित् ! पञ्चवर्गपरिहारनाममालायां जिननामाधिकारे [ अर्हन्नविषयो.....संवरवैरिता... ] । न पूर्वः अपूर्व:
न विद्यते पूर्वः प्रथमो वर्णो यत्र सः [अपूर्व: ] संवरः एतावता [सं विनाकृतः] वरः इति लभ्यते, 'र-लयो - वयोरैक्यात् बर इति बलः, तन्नामा दैत्य:, तं अपूर्वसंवरं [बलदैत्यं] विनाशयन्ति इति अपूर्वसंवरविनाशकाः तैः] बलविनाशकैः सुरनाथैर्विनतः । विगतः सः यस्मात् स विस: [ विसं वरं पूर्ववत् बलं ] विसेन बलेन युक्तः मोहः इति विसमोहः, विसमोहस्य मोहबलस्य [मोह]सैन्यस्य अरे ! [रिपो ! ] । पूर्ववत् - 'मद-बले काके' [] महासेनः महत्तमसिन्धुतरुः ? ॥११॥
संवरज-महासंवरज-सवरोऽद्भुत - मुखनिधानानि । यो दत्ते स जीयात् संवरभवचारुवरकण्ठः ॥१२॥
Page #6
--------------------------------------------------------------------------
________________
अनुसन्धान-५६
अव० संवर० पद्म-महापद्म-शङ्ख प्रमुखानि निधानानि यः प्रदत्ते, स श्री तीर्थाधिपो जीयात्, किंभूतः ? - संवरभवः - शङ्खः, तद्वच्चारुतरो वर्यः वरः कण्ठो यस्य सः ॥१२॥
रागोरुगसंवरनिधि-भवसंवरराशिसूमणे नाथ ! ।
जय संवररेहगमनः संवरशिरच(श्च)न्द्रवत् सुखदः ॥१३॥
अव० रागो० राग एव उरुगः रागोरुगः रागोरुगस्य संवरनिधिभवं [जलनिधिजातं] विषं, तत्र संवरराशि-सू-मणिर्देवमणिः [चिन्तामणिरित्यर्थः, तस्याब्धेर्जातत्वात्] तस्य सम्बोधने - हे रागोरुगसंवरनिधिभवसंवराशि-सूमणे! हे नाथ ! त्वं जय [किंभूतः त्वम् ?] - संवररेहो गजः, तद्वद् गमनं यस्य सः, [पुनः] 'संवरशिरस्थ' मृगशिरस्थचन्द्रवत् सुखदः, यतो ज्योतिष्केषु 'सोमेन सौम्य' इति [ ] वचनात् । इत्यार्याच्छन्दः ॥१३॥
असंवरान् नमस्कृत्य, मुक्त्वाऽसंवरमात्मनः ।
संवरधनतां प्राप्तो योऽसौ श्रीतीर्थपो जीयात् ॥१४॥ अनुष्टुप्
अव० - असंवरान् अदेहान् सिद्धान् नमस्कृत्य, चारित्रसमये 'सिद्धाणं नमो किच्चा' इति [ ] वचनात् । आगतम् असंवरम् आश्रवं मुक्त्वा, संवरधनतां मुनिवरतां प्राप्तः, योऽसौ श्रीतीर्थपो जीयात् ।
यः संवरकरोऽत्यन्तं संवरादिषु जन्तुषु ।
श्रीविलासं वरं कुर्यात्, सोललासं वरसंयुतम् ॥१५॥
अव० - यो जिनः अत्यन्त(न्तं)संवरकर:-शं सुखं वरं प्रधानं करोतीति स संवरकरः, शंबरादिषु रोझादिषु जन्तुषु, सः श्रीविलासं च [वरं] बलं कुर्यात्, सोल्लासं यथा स्यात् तथा बलसंयुतं पुष्टियुतम् ॥१५॥
त्वमेव संवरः स्वामिन्नसंवरिनृणां विभो !
त्वमेव संवरस्वामी, त्वमेव संवरप्रदः ॥१६॥
अव० - त्वमेवः त्वं एव निश्चितं शंबलं पाथेयं, हे स्वामिन् ! अशंबलवतां नृणां जनानाम्, विभो ! त्वमेव संवरस्वामी - मे मम शरीरस्वामी त्वमेव जीव इत्यर्थः । त्वमेव संवर [प्रदः - संवरं संयमं प्रददाति] त्वमेव गुरुः ॥
Page #7
--------------------------------------------------------------------------
________________
ऑगस्ट २०११
देहि मे त्वं जिनाधीश ! संवरं संवरं त्ववम् ।
अशोकसंवरं बिभ्रत् संवरत्रयमाश्रितः ॥१७॥
अव० - देहिमे० मे मम त्वं देहि हे जिनाधीश !, किं ? - संवरम् ।? [संयमम्] किंभूतं ? - संवरं ? - अवम् - न विद्यते व् [इति] व्यञ्जनो यत्र, तद् अवम्, एतावता सारं धनम्, किंभूतं ? - सारं प्रधानम् त्वं किं कुर्वन् ? - अशोकसंवरं बिभ्रत्, किंभूतं ? - अवं न [विद्यते] वः [यस्य सः] अवः तं अवं एतावता सालं वृक्षम्, तथैव [अवा संवरा - सारा । साला = वप्राः तेषां त्रयं] सालत्रयं आश्रितः ॥१७॥
त्वमश्च संवरो जीयात्, साधुतारकसन्ततेः । तथैव संवरः स्वामिन् ! मुक्तिकस्तूरिकाततेः ॥१८॥ असः संवरदो देवः संवरप्रतिबोधदः ।
संवरः शिवकान्तायाः वदने संवरः प्रभो ! ॥१९॥
अव - त्वं नस् अस्, [न विद्यते 'स्' यस्य सः] , 'च' पुनरर्थे, एतावता - | अम्बरः इति स्थितम् । अम्बरं सुगन्धद्रव्यविशेषः, कस्तूरिकाऽऽलकारी (कारिणी), तथा अम्बरः(रं) आकाशः ॥१८॥
____ अव - अस:० संवरदः किंभूतः ? असः नसः अल्पः, एतावता वरदः ईप्सितार्थदः, पुनः किंभूतः ? - संवरप्रतिबोधदः, तथैव [सं रहिते] वरे विटे प्रतिबोधदः, पुनः किंभूतः ? - संवरः कुकुमः, कस्मिन् ? - वदने मुखे, कस्याः ? शिवकान्तायाः, पुनः किंभूतः ? - संवरः पतिः, कस्याः ? - शिवकान्तायाः, चतुर्पु विशेषणेषु च 'असः' इति योज्यम् ॥१९॥ इति अनुष्टुप् छन्दः, युग्मम् ।
दुःकर्मकंसरिपुमर्दनसंवरारि-र्मानाऽसमानगिरिभञ्जनसंवरारिः । जीयान्मदाम्बुरहरहन्(?), भव्याम्बुजप्रकरसंवर ! त्वम् ॥२०॥
(वसन्त ति०) अव० - दुःकर्म० दुःकर्म एव कंसः, दुष्कर्मकंस एव रिपुः दुष्कर्मकंसरिपुः, दुष्कर्मकंसरिपुमर्दने संवरारिः, दुष्कर्मर्सरिपुमर्दनसंवरारिः, शबरनामा दैत्यः, तस्यारिः कृष्णः । मानाऽसमानगिरिभञ्जनशबरारिः पर्वतारिः
Page #8
--------------------------------------------------------------------------
________________
४६
अनुसन्धान-५६
पुरन्दरः । त्वं जीयात्, मदाम्बुरुहे मदकमले संवरजारिः कमलरिपुश्चन्द्रः, भव्याम्बुजे [जप्रकरे] भव्यजनकमलविकाशने संवरतस्करः जलतस्करः सूर्यः ।।
श्रीसंवरेशकुलसंवरदाऽऽश्रये त्वम्, प्रोद्यत्प्रतापभरतिर्मलसंवरांशुः । जीयाज्जिनेश ! नतसंवरवाहवाह ! श्रीसंवरोद्भवमहाकरिसंवरेशः॥२१॥
__ अव०- श्रीसं० । श्रीसंवरभूपकुलसंवरदाश्रये-० घनाश्रये आकाशे त्वं संवरांशुः खरांशुः सूर्यः । नतसंवरवाहवाहः(वाह!) जलदवाहनः, पुरन्दरः । श्रीसंवरोद्भवः लक्ष्मीतनूद्भवः कन्दर्पः, [स एव महागजः] कन्दर्प महागजे शंवरेशो मृगेशः ॥२१॥ [वसन्ततिलकाच्छन्दः] विवाऽऽसंवरो धर्मवल्लीविताने, सुकासंवरः क्षान्तिनीरस्य नाथः । कुसं संवरापारनीरेशतीरो, जयासंवरद्वेषपूरेण मुक्तः ॥२२॥ श्रीसंवराकजिन संवरतुल्यकायश्चञ्चत्प्रतापभरसंवरजाकदेवः । तीर्थेशसंवरभवाङ्कमुखात् सुलब्धत्वत्सत्प्रभावगणसंवरभूधराज़ः ॥२३॥
अव०- विव् विगतो 'व्' इति व्यञ्जनो यस्मात् तत् विव् । चतुर्यु पदेषु 'व्' व्यञ्जनरहितत्वं विचार्यम् । एतावता आसारो वेगवान् [वती] वर्षा, धर्मवल्लीविताने समूहे । द्वितीयपदे कासारः सरोवरः क्षमाजलस्य नाथः प्रभुः। तृतीयपदे संसाररूपअपारनीरेशः सागरः, तस्य तीरस्तटः, चतुर्थपदे असारद्वेषपूरेण मुक्तः [चतुर्थेऽत्र पदे 'जय' इति पदस्य कोऽर्थः !? जयतात् इति]
श्रीसंवर०- श्रीशंवराङ्कजिनो मृगाङ्कजिनः श्रीशान्तिः, तस्य शवरो वर्णः [सुवर्णवर्णः] तस्य तुल्य(ल्यो)देहो यस्य सः - श्रीशंवराङ्क० [तुल्यकायः] संवरजाङ्कः पद्माङ्कः पद्मप्रभदेवः, तत्समानः प्रतापो यस्य [सः], रक्तवर्णत्वात् [प्रतापस्य] । चञ्चत्प्र० संवरभवाङ्कः शङ्खाङ्कः देवः श्रीनेमिजिनः, तन्मुखेन लब्धो प्रभावभरो येन[सः] एवंविधः संवर-भूधरः-शङ्खधरो नारायणः, तेनार्यः पूज्यः ॥२३॥ अष्टोत्तराणि च सहस्रमितानि शंभो-लक्ष्मानि(णि) यस्य करसंवरजे विभान्ति । सच्छत्रसंवरज संवरजात यूप, प्रासाद संवरमुखानि स वः श्रियेऽस्तु ॥२४॥
अव०- अष्टोत्तराणि० यस्य करसंवरजे करकमले अष्टाधिकानि सहस्रमितानि लक्षणानि शोभन्ते, तानि कानि? - प्रधानछत्र-कमल-शङ्ख-यूप
Page #9
--------------------------------------------------------------------------
________________
ऑगस्ट २०११
४७
प्रासाद-शंवरशब्देन मत्स्य प्रमुखानि । स जिनः, वो युष्माकं श्रिये अस्तु ॥२४॥
दद्यादनन्ता[न्त्या]क्षरसंवरो हि, जिनाधिपः केशवसंवरेशाम् । यः संवरेशादिकलोकपालै-रभ्यर्चितः संवरवैरिवारी ॥२५॥
अव०- दद्या० । जिनाधिपः दद्यात्, संवरः, किंभूतः ?- अनन्ता(न्त्या) क्षरः, न विद्यते अन्तिमो 'र' इति वर्णो यत्र एतावता 'सवः इति स्थितम्स जिनः वो युष्माकं दद्यात्, काम् ? - केशवसंवरेशाम् - नारायण-पत्नीम्, लक्ष्मीमित्यर्थः । स कः ? - यः संवरेशो जलेशो वरुणः, तदादिलोकपालैः पूजितः । संवरवेरिः (वैरी) [संयमरिपुः] कन्दर्पः, तस्य वारी [निवारकः] हर्ता ॥२५॥
जय जिनेश ! यशसाऽवसंवरः, शमरसस्तथैव च संवरः । अपवसंवरशस्त्रधरैर्नृतो, विगतसंवरसंयमसंयुतः ॥२६॥
अव०- जय० हे जिन ? त्वं जय, किंभूतः ? - अवसंवरः, न विद्यते 'व' इति वर्णो यत्र, तद् ‘अवसंवरः, एतावता (संर:=) सरः, सर शब्देन नवनीतम् तत् सह(?) शस्तस्मात्-सरः, केन ?-यशसा शुभत्वात्, तथैव पूर्ववत् संवरः = सरः सरोवरः कस्य ?- शमतारसस्य । [पुनः किंभूतः ?अपव०-अपगतो 'व' इति वर्णो यस्मात् - एतावता शरः, बाणप्रमुखशस्त्रधरैनरैर्नुतः स्तुतः । विगतः शबलरहितः, एकविंशतिधा शबलदोषः । [तेन रहितः संयमः, तेन संयुतः] संयमसंयुतः चारित्रसहितः इत्यर्थः ॥२६॥
अयस्संवरः पापकुष्टेऽत्यनिष्टे सितासंवरः क्रोधतापेऽतिदुष्टे । सदा दर्शनात् संवरक्षेमकारी, प्रभुः संवराङ्काननः पुण्यचारी ॥२७॥
अव०- अयस्संवरशब्देन लोहासवनाम कुष्टभेषजं वैद्यके प्रसिद्धम् । सिता संवरः शितोपलाजलं क्रोधदुष्टताया उपशमनेऽत्यर्थः, दर्शनतो शबरवत् मत्स्यवत् क्षेमकारी मङ्गलकारीत्यर्थः, शंवराङ्को मृगाङ्कश्चन्द्रः, तद्वद् आननं यस्य सः, पुण्ये धर्मे चरतीति पुण्यचारी ॥२७॥
एवं संवरराशिजातविलसदरत्नैः सदथैः स्रजंकृत्वा यो रुचिरां सुहेमविमलं सौभाग्यहर्षप्रदाम् ।
Page #10
--------------------------------------------------------------------------
________________
४८
अनुसन्धान-५६
"
सार्वेशाधिपसांवरेय सुलसत्कण्ठे नित्ते मुदा, स श्रीसौख्यनिधिं सुसोमविमलः प्राप्नोतु पृथ्वीतले ॥२८॥ अव०- एवं अनया रीत्या, संवरराशिः सागरः, तथा च संवर शब्दसमूहोत्पन्नः तत्रोत्पन्नैः रत्नैः सदर्थैः अर्थयुतैः द्रव्ययुतैः, तथा च पर्याययुतैः, स्रजं मालां कृत्वा निर्माय, यः पुमान् रुचिराम् भव्याम्, सुहेम० - सुष्ठु हेमवत् सुवर्णवत् विमलां निर्मलां, सौभाग्यं हर्षं च ददातीति सौभाग्यहर्षप्रदाम् । सार्वेशाधिपः तीर्थकरः, संवरस्य अपत्यं सांवरेयः श्रीअभिनन्दनदेव[स्त]स्य विलसत्कण्ठे निधत्ते स्थापयति, स नरः सोमश्चन्द्रः, तद्वद् विमलः सोमविमलः, सौख्यनिधिं सुखनिधानं प्राप्नोतु पृथ्वीतले वसुधातले इत्यर्थः ॥२८॥
इति श्री अभिनन्दनजिनस्तोत्रम् । अष्टोत्तर 'संवर' शब्दार्थगर्भितम्, श्रीतपा गच्छाधिराज श्रीहेमविमलसूरिशिष्याणुना श्रीसौभाग्यहर्षपट्टधारिणा श्री सोमविमलसूरिणा कृतं लिखितं च । श्री सयंबिलशुभनगरे, संवत् १६५६ मार्गशीर्ष वदि ८ बुधवासरे ।
अव०- इति श्रीअष्टोत्तरशतसंवरशब्दार्थगर्भितं, श्रीअभिनन्दनस्तोत्रावचूरिः संपूर्णा, लिखिता कृता च श्रीतपागच्छाधिराज श्रीहेमविमलसूरिशिष्याणुना श्रीसौभाग्यहर्षसूरिपट्टधारिणा श्रीसोमविमलसूरिणा सयंबिलशुभनगरे, विद्वज्जनैः प्रसादमाधाय संशोध्या ॥छ । कल्याणं भवतु - लेखक- पाठक-वाचक-श्रोतृकसाधुजनपरम्पराणाम् - संवत् १६५६ मार्गशीर्षमासे ।
टिप्पणी
१. A अक पद्यनां शत शत अर्थो दर्शावती कृतिओ.
१. बप्पभट्टिसूरि (सं. ८९५) 'तत्तीस' गाथा.
२. वर्धमानगणि (ले.सं. ११९९), कुमारविहार प्रशस्ति पद्य ८७ मुं.
३. सोमप्रभसूरि (र. सं. १२३५), 'कल्याणसारसवितान' स्वतन्त्र पद्य. ४. उदयधर्म (र.सं. १९०५) 'दोससयमूल' उपदेशमाला - ५१मी गाथा.
५. जिनमाणिक्य (१५३९) 'सिद्धये वर्धमानः' रत्नाकरावतारिका प्रथम पद्य.
६. मानसागर (ले.सं. १६५२) परिग्रहारम्भमग्नाः ' योगशास्त्र २ / १०.
७. जयसुन्दरसूरि (ले.सं. १६७९) 'नमो दुर्वाररागादि', योगशास्त्र १/१
B अनेकार्थकृतिः - समयसुन्दरगणि' (सं. १६४९) अर्थरत्नावली (अष्टलक्षार्थी 'राजानो ददते
Page #11
--------------------------------------------------------------------------
________________
ऑगस्ट २०११
सौख्यम्' मात्र एक ज वाक्यना ८ लाख अर्थो. C अनेकार्थ शब्दोनी कृतिओ :
१. विवेकसागर (१६मी सदी) 'वीतरागस्तव' १० पद्यमां 'हरि' शब्दना ३० अर्थो. २. अज्ञात ऋषभदेवस्तुति ४ पद्यमां 'सारंग'शब्दना १२ अर्थो.
___ [ऋषभदेवस्तुतिनी अवचूरि अनेकार्थरत्नमञ्जूषामां प्रकाशित छे.] ३. गुणविजय 'महावीरस्तव', १९ पद्यमां ‘सारंग' शब्दना ६० अर्थो. ४. लक्ष्मीकल्लोलगणि (१६००) साधारण जिन स्तवन. २८ पद्यमां ‘पराग' शब्दना
१०८ अर्थो. [A-B-C नी माहितीनो आधार-ही.र. कापडिया 'जै.सं. साहित्यनो इतिहास खण्ड २,
प्रकरण ३२ मुं. सं. आचार्यश्री मुनिचन्द्रसूरिजी ई.स. २००९] D हर्षकुलगणि (१६मुं शतक) 'कमलपञ्चशतिक पञ्चजिनस्तोत्र' पद्य १३०मां ५१२ अर्थो.
संपा० आचार्य श्रीशीलचन्द्रसूरिजी - अनुसन्धान-१५. E हेमविजयगणि, नेमिजिनेन्द्रस्तवन' २९ पद्यमा पोताना गुरु श्री कमल विजयना नामथी
'कमल' शब्दनां १०८ अर्थो. (सम्पादन चालु छे. अमृत पटेल) F सोमविमलसूरिजी षोडशोत्तर कमलशब्दगर्भित चतुर्विंशति जिनस्तुति, पद्य २९मां 'कमल'
शब्दनां ११६ अर्थो. - स्तुतितरंगिणी-भाग ३ पृष्ठ २०३. सं. आचार्यश्री विजयभद्रंकर
सूरि. वि.सं. २०३९) G समस्या लेखो पण अनेकार्थकृतिओ छे. विगतवार माहिती माटे - ही.र. कापडिया -
'जैन सं. सा.नो इतिहास खण्ड २, प्रकरण ३१मुं. २. -आ यादी ओकदम सामान्य छे. क्रियोद्धारक हेमविमल सूरि (सं. १५२२-१५८३)ना शिष्य हता. तथा सौभाग्यहर्षसूरिना पट्टधर हता. खम्भात पासे कंसारी गाममां वद्ध प्रागवाट मन्त्री समधरनां वंशज मन्त्री रूपा अने तेमनी भार्या अमरादेनां जसवंत नामे पुत्र हता. [संवत् १५७०मां जन्म, सं. १५७४मां अमदावादमां दीक्षा, सं. १५९७मां आचार्यपद, सं. १६३७मां स्वर्गवास] - तेओश्रीओ श्रेणिकरास, धम्मिलरास, कल्पसूत्रबालावबोध, दशवैकालिक बालावबोध वगेरे घणा ग्रन्थोनी रचना करी हती.
जुओ जैनगूर्जर कविओ - सं. जयंत कोठारी (सं. १९९७) भाग ९, पृ. ८६-८७. ३. जुओ स्तुति तरङ्गिणी भा. ३, पृ. २०३. सं. आ.श्री भद्रंकरसूरि (सं. २०३९). ४. शबरो म्लेच्छभेदेऽप्सु, हरेऽथो शम्बरं जले । चित्रे बौद्धव्रते भेदे, शम्बरो दानवान्तरे ॥६४१।। अनेकार्थसंग्रह, मत्स्यैरा-गिरि-भेदेषु, शबरी पुनरौषधौ, - सबल . . . . . . . शबलं मत्सरे तटे ।
पार्थये च . . . . . . . . . ॥७२२।। अने०
Page #12
--------------------------------------------------------------------------
________________ अनुसन्धान-५६ - संवर, नाभिश्च . . . ., जितारिरथ संवर : 36 // क्षेत्रे तु. . . . सेतो, पाल्यालि-संवरः (965) - नीरं वारि जलं . . . . . . . . / वाः संवरम् // 1063 // - मृगः कुरङ्ग-सारङ्गौ . . . . . / ... . . . . . शङ्कु गोकर्ण शंबराः // 1293 // (आ बधा सन्दर्भो हैमीय अनेकार्थसंग्रह) - मृगभेदे भवेद् ऋष्यो रोहिषः संवरोपि च (पञ्चवर्गपरिहार 104) - विशारः संवरो नक्रे, . . . . . (पं.व.प. 112) 5. संवर+ज = जलज = कमल, शंख, चन्द्र, संवर+जा- लक्ष्मी+पति = विष्णु, शंवर + अरि = मृगारि = सिंह, दानवारि-शिव, इत्यादि..... co. 103 B-एकता एवन्यू वासणा अमदावाद-७