SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ४८ अनुसन्धान-५६ " सार्वेशाधिपसांवरेय सुलसत्कण्ठे नित्ते मुदा, स श्रीसौख्यनिधिं सुसोमविमलः प्राप्नोतु पृथ्वीतले ॥२८॥ अव०- एवं अनया रीत्या, संवरराशिः सागरः, तथा च संवर शब्दसमूहोत्पन्नः तत्रोत्पन्नैः रत्नैः सदर्थैः अर्थयुतैः द्रव्ययुतैः, तथा च पर्याययुतैः, स्रजं मालां कृत्वा निर्माय, यः पुमान् रुचिराम् भव्याम्, सुहेम० - सुष्ठु हेमवत् सुवर्णवत् विमलां निर्मलां, सौभाग्यं हर्षं च ददातीति सौभाग्यहर्षप्रदाम् । सार्वेशाधिपः तीर्थकरः, संवरस्य अपत्यं सांवरेयः श्रीअभिनन्दनदेव[स्त]स्य विलसत्कण्ठे निधत्ते स्थापयति, स नरः सोमश्चन्द्रः, तद्वद् विमलः सोमविमलः, सौख्यनिधिं सुखनिधानं प्राप्नोतु पृथ्वीतले वसुधातले इत्यर्थः ॥२८॥ इति श्री अभिनन्दनजिनस्तोत्रम् । अष्टोत्तर 'संवर' शब्दार्थगर्भितम्, श्रीतपा गच्छाधिराज श्रीहेमविमलसूरिशिष्याणुना श्रीसौभाग्यहर्षपट्टधारिणा श्री सोमविमलसूरिणा कृतं लिखितं च । श्री सयंबिलशुभनगरे, संवत् १६५६ मार्गशीर्ष वदि ८ बुधवासरे । अव०- इति श्रीअष्टोत्तरशतसंवरशब्दार्थगर्भितं, श्रीअभिनन्दनस्तोत्रावचूरिः संपूर्णा, लिखिता कृता च श्रीतपागच्छाधिराज श्रीहेमविमलसूरिशिष्याणुना श्रीसौभाग्यहर्षसूरिपट्टधारिणा श्रीसोमविमलसूरिणा सयंबिलशुभनगरे, विद्वज्जनैः प्रसादमाधाय संशोध्या ॥छ । कल्याणं भवतु - लेखक- पाठक-वाचक-श्रोतृकसाधुजनपरम्पराणाम् - संवत् १६५६ मार्गशीर्षमासे । टिप्पणी १. A अक पद्यनां शत शत अर्थो दर्शावती कृतिओ. १. बप्पभट्टिसूरि (सं. ८९५) 'तत्तीस' गाथा. २. वर्धमानगणि (ले.सं. ११९९), कुमारविहार प्रशस्ति पद्य ८७ मुं. ३. सोमप्रभसूरि (र. सं. १२३५), 'कल्याणसारसवितान' स्वतन्त्र पद्य. ४. उदयधर्म (र.सं. १९०५) 'दोससयमूल' उपदेशमाला - ५१मी गाथा. ५. जिनमाणिक्य (१५३९) 'सिद्धये वर्धमानः' रत्नाकरावतारिका प्रथम पद्य. ६. मानसागर (ले.सं. १६५२) परिग्रहारम्भमग्नाः ' योगशास्त्र २ / १०. ७. जयसुन्दरसूरि (ले.सं. १६७९) 'नमो दुर्वाररागादि', योगशास्त्र १/१ B अनेकार्थकृतिः - समयसुन्दरगणि' (सं. १६४९) अर्थरत्नावली (अष्टलक्षार्थी 'राजानो ददते
SR No.229379
Book TitleAbhinandan Jin Stotram
Original Sutra AuthorN/A
AuthorAmrut Patel
PublisherZZ_Anusandhan
Publication Year
Total Pages12
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size220 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy