________________
ऑगस्ट २०११
४७
प्रासाद-शंवरशब्देन मत्स्य प्रमुखानि । स जिनः, वो युष्माकं श्रिये अस्तु ॥२४॥
दद्यादनन्ता[न्त्या]क्षरसंवरो हि, जिनाधिपः केशवसंवरेशाम् । यः संवरेशादिकलोकपालै-रभ्यर्चितः संवरवैरिवारी ॥२५॥
अव०- दद्या० । जिनाधिपः दद्यात्, संवरः, किंभूतः ?- अनन्ता(न्त्या) क्षरः, न विद्यते अन्तिमो 'र' इति वर्णो यत्र एतावता 'सवः इति स्थितम्स जिनः वो युष्माकं दद्यात्, काम् ? - केशवसंवरेशाम् - नारायण-पत्नीम्, लक्ष्मीमित्यर्थः । स कः ? - यः संवरेशो जलेशो वरुणः, तदादिलोकपालैः पूजितः । संवरवेरिः (वैरी) [संयमरिपुः] कन्दर्पः, तस्य वारी [निवारकः] हर्ता ॥२५॥
जय जिनेश ! यशसाऽवसंवरः, शमरसस्तथैव च संवरः । अपवसंवरशस्त्रधरैर्नृतो, विगतसंवरसंयमसंयुतः ॥२६॥
अव०- जय० हे जिन ? त्वं जय, किंभूतः ? - अवसंवरः, न विद्यते 'व' इति वर्णो यत्र, तद् ‘अवसंवरः, एतावता (संर:=) सरः, सर शब्देन नवनीतम् तत् सह(?) शस्तस्मात्-सरः, केन ?-यशसा शुभत्वात्, तथैव पूर्ववत् संवरः = सरः सरोवरः कस्य ?- शमतारसस्य । [पुनः किंभूतः ?अपव०-अपगतो 'व' इति वर्णो यस्मात् - एतावता शरः, बाणप्रमुखशस्त्रधरैनरैर्नुतः स्तुतः । विगतः शबलरहितः, एकविंशतिधा शबलदोषः । [तेन रहितः संयमः, तेन संयुतः] संयमसंयुतः चारित्रसहितः इत्यर्थः ॥२६॥
अयस्संवरः पापकुष्टेऽत्यनिष्टे सितासंवरः क्रोधतापेऽतिदुष्टे । सदा दर्शनात् संवरक्षेमकारी, प्रभुः संवराङ्काननः पुण्यचारी ॥२७॥
अव०- अयस्संवरशब्देन लोहासवनाम कुष्टभेषजं वैद्यके प्रसिद्धम् । सिता संवरः शितोपलाजलं क्रोधदुष्टताया उपशमनेऽत्यर्थः, दर्शनतो शबरवत् मत्स्यवत् क्षेमकारी मङ्गलकारीत्यर्थः, शंवराङ्को मृगाङ्कश्चन्द्रः, तद्वद् आननं यस्य सः, पुण्ये धर्मे चरतीति पुण्यचारी ॥२७॥
एवं संवरराशिजातविलसदरत्नैः सदथैः स्रजंकृत्वा यो रुचिरां सुहेमविमलं सौभाग्यहर्षप्रदाम् ।