________________
अनुसन्धान-५६
विविध अर्थो समजाव्या छे, छतां वधु स्पष्टता माटे जरूर जणाई त्यां [ ] चतुष्कोण कोष्टकमां अर्थो के समासो आपवामां आव्या छे. अनेकार्थकृतिना सम्पादननो मारो प्रथम प्रयास छे. अटले क्षतिनी सम्भावना सहज छे. अटले सुज्ञ-सहृदयी जनो मारी सम्भवित क्षति माटे क्षमा करे, अने क्षतिनिर्देश करे.
॥ श्री गुरुभ्यो नमः ॥
वाणी वाणीमियं दद्यात्, स्वरद्वन्द्वविपर्ययाम् । तामेव बिभ्रती ज्ञालीं प्रपूर्वां तां च कुर्वती ॥१॥
। [वीणां बिभ्रती, प्रज्ञाली कुर्वती] अवचूर्णिः
शारदां शारदां नत्वा, शारदेन्दुसमप्रभाम् । अभिनन्दनजिनस्तोत्राऽवचूर्णि रचयाम्यहम् ॥२॥ नाऽत्र स्तोत्रे भेदो, विशेषः सकलशास्त्रकुशलनरैः ।
डलयो र्ब-वयोः र-लयो ऽनुस्वारोपि भङ्गाय ॥३॥ यत उक्तं वाग्भट्टालङ्कारे
"यमक-श्लेष-चित्रेषु, ब-वयो ई-लयोभित्(र्न भित्) ।
नाऽनुस्वार-विसर्गौ तु चित्रभङ्गाय सम्मतौ ॥४॥ (वाग्भरु० १/२०) वृद्धपञ्चवर्गपरिहारनाममालायां च यथा -
"भेदो न च विज्ञेयश्-चित्र-श्लेषोपयोगिकाव्येषु ।
ब-वयोर्ड-लयो -ओ-जयो न-णयो र्य-जयोः क्वचित् श-ययोः" ॥५॥ तथा च पूर्वकविः
वयमपि, परेऽपि कवयस्तथापि महदन्तरं परिज्ञेयम् । र-लयोरैक्यं यद्यपि, तत् किं कलभायते करभः ॥६॥ तथाहमपि । अथ केचिद् विषमपदपर्यायाः, लिख्यते(न्ते) मया मुग्धजनबोधाय । वाणी० इयं 'वाणी' भारती, मे मम, वाणीं वचनपद्धतिं दद्यात् । किं